कालिदासविरचिते रघुवंशे सप्तमः सर्गः Raghu vamsha Of Kalidas VII Cantoo

कालिदासविरचिते रघुवंशे सप्तमः सर्गः

अथोपयन्त्रा सदृशेन युक्तां स्कन्देन साक्षादिव देवसेनां  ।
स्वसारं आदाय विदर्भनाथः पुरप्रवेशाभिमुखो बभूव   । । ७.१  । ।

सेनानिवेशान्पृथिवीक्षितोऽपि जग्मुर्विभातग्रहमन्दभासः   ।
भोज्यां प्रति व्यर्थमनोरथत्वाद्रूपेषु वेषेषु च साभ्यसूयाः   । । ७.२  । ।

सांनिध्ययोगात्किल तत्र शच्याः स्वयंवरक्षोभकृतां अभावः   ।
काकुत्स्थं उद्दिश्य समत्सरोऽपि शशाम तेन क्षितिपाललोकः   । । ७.३  । ।

तावत्प्रकीर्णाभिनवोपचारं इन्द्रायुधद्योतिततोरणाङ्कं  ।
वरः स वध्वा सह राजमार्गं प्राप ध्वजच्छायनिवारितोष्णं  । । ७.४  । ।

ततस्तदालोकनतत्पराणां सौधेषु चामीकरजालवत्सु   ।
बभूवुरित्थं पुरसुन्दरीणां त्यक्तान्यकार्याणि विचेष्टितानि   । । ७.५  । ।

आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः   ।
बद्धुं न संभावित एव तावत्करेण रुद्धोऽपि हि केशपाशः   । । ७.६  । ।

प्रसाधिकालम्बितं अग्रपादं आक्षिप्य काचिद्द्रवरागं एव   ।
उत्षृषृअलीलागतिरा गवाक्षाद्ययौ शलाकां अपरा वहन्ती   । । ७.७  । ।

विलोचनं दक्षिणं अञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा   ।
तथैव वातायनसंनिकर्षं ययौ शलाकां अपरा वहन्ती   । । ७.८  । ।

जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीं  ।
नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाववलम्ब्य वासः   । । ७.९  । ।

अर्धाचिता सत्वरं उत्थितायाः पदे पदे दुर्निमिते गलन्ती   ।
कस्याश्चिदासीद्रशना तदानीं अङ्गुष्ठमाउलार्पितसूत्रशेषा   । । ७.१०  । ।

स्तनंधयन्तं तनयं विहाय विलोकनाय त्वरया व्रजन्ती   ।
संप्रस्नुताभ्यां पदवीं स्तनाभ्यां सिषेच काचित्पयस्ऽऽ आ गवाक्षाथ् । । ७.१०*  । ।

तासां मुखैरासवगन्धगर्भैर्व्याप्तान्तराः सान्द्रकुतूहलानां  ।
विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्त्राभरणा इवासन्  । । ७.११  । ।

ता राघवं दृष्टिभिरापिबन्त्यो नार्यो न जग्मुर्विषयान्तराणि   ।
तथा हि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिव प्रविष्टा   । । ७.१२  । ।

स्थाने वृता भूपतिभिः परोक्षैः स्वयंवरं साधुं अमंस्त भोज्या   ।
पद्मेव नारायणं अन्यथासौ लभेत कान्तं कथं आत्मतुल्यं  । । ७.१३  । ।

परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वं अयोजयिष्यथ् ।
अस्मिन्द्वये रूपविधानयत्नः पत्युः प्रजानां वितथोऽभविष्यथ् । । ७.१४  । ।

रतिस्मरौ नूनं इमावभूतां राज्ञां सहरेषु तथा हि बाला   ।
गतेयं आत्मप्रतिरूपं एव मनो हि जन्मान्तरसंगतिज्ञं  । । ७.१५  । ।

इत्युद्गताः पौरवधूमुखेभ्यः शृण्वन्कथाः श्रोतसुखाः कुमारः   ।
उद्भासितं मङ्गलसंविधाभिः संबन्धिनः सद्म समाससाद   । । ७.१६  । ।

ततोऽवतीर्याशु करेणुकायाः स कामरूपेश्वरदत्तहस्तः   ।
वैदर्भनिर्दिष्टं अथो विवेश नारीमनांसीव चतुष्कं अन्तः   । । ७.१७  । ।

महार्हसिंहासनसंस्थितोऽसौ सरत्नं अर्घ्यं मधुपर्कमिश्रं  ।
भोजोपनीतं च दुकूलयुग्मं जग्राह सार्धं वनिताकटाक्षैः   । । ७.१८  । ।

दुकूलवासाः स वधूसमीपं निन्ये विनीतैरवरोधरक्षैः   ।
वेलासाक्शं स्फुटपेहराजिर्नवैरुदन्वानिव चन्द्रपादैः   । । ७.१९  । ।

तत्रार्चितो भोजपतेः पुरोधा हुत्वाग्निं आज्यादिभिरग्निकल्पः   ।
तं एव चाधाय विवाहसाक्ष्ये वधूवरौ संगमयां चकार   । । ७.२०  । ।

हस्तेन हस्तं परिगृह्य वध्वाः स राजसूनुः सुतरां चकाशे   ।
अनन्तराशोकलताप्रवालं प्राप्येव चूतः प्रतिपल्लवेन   । । ७.२१  । ।

आसीद्वरः कण्टकितप्रकोष्टः स्विन्नाङ्गुलिः संववृते कुमारी   ।
वृत्तिस्तयोः पाणिसमागमेन समं विभक्तेव मओभवस्य   । । ७.२२  । ।

तयोरपाङ्ग-प्रतिसारितानि क्रियासमापत्तिवर्तितानि   ।
ह्रीयन्त्रणां आनशिरे मनोज्ञां अन्योन्यलोलानि विलोचनानि   । । ७.२३  । ।

प्रदक्षिणप्रक्रमणात्कृषानोरुदर्चिषस्तन्(?) मिथुनं चकाशे   ।
मेरोरुपान्तेष्विव वर्तमानं अन्योन्यसंसक्तं अहस्त्रियामं  । । ७.२४  । ।

नितम्बगुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेन तेन   ।
चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गं अग्नौ   । । ७.२५  । ।

हविःशमीपल्लवलाजगन्धिः पुण्यः कृशानोरुदियाय धूमः   ।
कपोलसंसर्पिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे   । । ७.२६  । ।

तदञ्जनक्लेदसमाकुलाक्षं प्रम्लानभीजाङ्कुरकर्णपूरं  ।
वधूमुखं पाटलगण्डलेखं आचारधूमग्रहणाद्बभूव   । । ७.२७  । ।

तौ स्नातकैर्बन्धुमता च राज्ञा पुरंध्रिभिश्च क्रमशः प्रयुक्तं  ।
कन्याकुमारौ कनकासनस्थावार्द्राक्षतारोपणं अन्वभूतां  । । ७.२८  । ।

इति स्वसुर्भोजकुलप्रदीपः संपाद्य पाणिग्रहणं स राजा   ।
महीपतीनां पृथगर्हणार्थं समादिदेशाधिकृतानधिश्रीः   । । ७.२९  । ।

लिङ्गैर्मुदः संवृतविक्रियास्ते ह्रदाः प्रसन्ना इव गूढनक्राः   ।
वैदर्भं आमन्त्र्य ययुस्तदीयां प्रत्यर्प्य पूजां औप्दाछलेन   । । ७.३०  । ।

स राजलोकः कृतपूर्वसंविदारम्भसिद्धौ समयोपलभ्यम्)   ।
आदास्यमानः प्रम्दामिषं तदावृत्य पन्थानं अजस्य तस्थौ   । । ७.३१  । ।

भर्तापि तावत्क्रथकैषिकानां अनुष्ठितानन्तरजाविवाहः   ।
सत्त्वानुरूपाहरणी कृतश्रीः प्रास्थापयद्राघवं अन्वगाच्च   । । ७.३२  । ।

तिस्रस्त्रिलोकी प्रथितेन सार्धं अजेन मार्गे वसतीरुषित्वा   ।
तस्मादपावर्तत कुण्डिनेशः पर्वात्यये स्ॐअ इवोष्णरश्मेः   । । ७.३३  । ।

प्रमन्यवः प्रागपि कोसलेन्द्रे प्रत्येकं आत्तस्वतया बभूवुः   ।
अतो नृपाश्चक्षमिरे समेताः स्त्रीरत्नलाभं न तदात्मजस्य   । । ७.३४  । ।

तं उद्वहन्तं पथि भोजकन्यां रुरोध राजन्यगणः स दृप्तः   ।
बलिप्रदिष्टं श्रियं आददानं त्रैविक्रमं पादं इवेन्द्रशत्रुः   । । ७.३५  । ।

तस्यः स रक्षार्थं अनल्पयोधं आदिष्य पित्र्यं सचिवं कुमारः   ।
प्रत्यग्रहीत्पार्थिववाहिनीं तां ज्योतीरथां शोण इवोत्तरङ्गः   । । ७.३६  । ।

पत्तिः पदातिं रथिनं रथेशस्तुरंगसादी तुरगाधिरूढं  ।
यन्ता गजस्याभ्यपतद्गजस्थं तुल्यप्रतिद्वन्द्वि बभूव युद्धं  । । ७.३७  । ।

नदत्सु तूर्येष्वविभाव्यवाचो नोदीरयन्ति स्म कुलोपदेशान्  ।
बाणाक्षरैरेव परस्परस्य नामोर्जितं चापभृतः शशंसुः   । । ७.३८  । ।

उत्थापितः संयति रेणुरश्वैः सान्द्रीकृतः स्यन्दनवंशचक्रैः   ।
चिस्तारितः कुञ्जरकर्णतालैर्नेत्रक्रमेणोपरुरोध सूर्यं  । । ७.३९  । ।

मत्स्यध्वजा वायुवशाद्विदीर्णैर्मुखैः प्रवृद्धद्वजिनीरजांसि   ।
बभुः पिबन्तः परमार्थमत्स्याः पर्याविलानीव नवोदकानि   । । ७.४०  । ।

रथो रथाङ्गध्वनिना विजज्ञे विलोलघण्टाक्वणितेन नागः   ।
स्वभर्तृनामग्रहणाद्बभूव सान्द्रे रजस्यात्मपरावबोधः   । । ७.४१  । ।

आवृण्वतो लोचनमार्गं आजौ रजोऽन्धकारस्य विजृम्भितस्य   ।
शस्त्रक्षताश्वद्विपवीरजन्मा बालारुणोऽभूद्रुधिरप्रवाहः   । । ७.४२  । ।

स च्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिष्टात्पवनावधूतः   ।
अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवाबभासे   । । ७.४३  । ।

प्रहारमूर्छापगमे रथस्थान्यन्तःनुपालभ्य निवर्तिताश्वाः   ।
यैः सादिता लक्षितपूर्वकेतूंस्तानेव सामर्षतया निजघ्नुः   । । ७.४४  । ।

अप्यर्धमार्गे परबाणलूना धनुर्भृतां हस्तवतां पृषत्काः   ।
संप्रापुरेवात्मजवानुवृत्त्या पूर्वार्धभागैः फलिभिः शरव्यं  । । ७.४५  । ।

आधोरणानां गजसंनिपाते शिरांसि चक्रैर्निशितैः क्षुराग्रैः   ।
हतान्यपि आयेननखाग्रकोटिव्यासक्तकेशानि चिरेण पेतुः   । । ७.४६  । ।

पूर्वं प्रहर्ता न जघान भूयः प्रतिप्रहाराक्षमं अश्वसादी   ।
तुरंगमस्कन्धनिषण्णदेहं प्रत्याश्वसन्तं रिपुं आचकाङ्क्ष   । । ७.४७  । ।

तनुत्यजां वर्मभृतां विकोशैर्बृहत्सु दन्तेष्वसिभिः पतद्भिः   ।
रणक्षितिः शोणितमद्यकुल्या गजा विविग्नाः करशीकरेण   । । ७.४८  । ।

शिलीमुखोत्कृत्तशिरःफलाढ्या च्युतैः शिरत्रैश्चषकोत्तरेव   ।
रणक्षितिः शोणितमद्यकुल्या रराज मृत्योरिव पानभूमिः   । । ७.४९  । ।

उपान्तयोर्निष्कुषितं विहंगैराक्षिप्य तेभ्यः पिशितप्रियापि   ।
केयूरकोटिक्षततालुदेशा शिवा भुजच्छेदं अपाचकार   । । ७.५०  । ।

कश्चिद्द्विषत्खड्गहृतोत्तमाङ्गः सद्यो विमानप्रभुतां उपेत्य   ।
वामाङ्गसंसक्तसुराङ्गनः स्वं नृत्यत्कबन्धं समरे ददर्श   । । ७.५१  । ।

अन्योन्यसूतोन्मथनादभूतां तावेव सूतौ रथिनौ च कौचिथ् ।
व्यश्वौ गदाव्यायतसंप्रहारौ बग्नायुधौ बाहुविमर्दनिष्ठौ   । । ७.५२  । ।

परस्परेण क्षतयोः प्रहर्त्रोरुत्क्रान्तवाय्वोः समकालं एव   ।
अमर्त्यभावेऽपि कयोश्चिदासीदेकासरःप्रार्थितयोर्विवादः   । । ७.५३  । ।

व्यूहावुभौ तावितरेतरस्माद्भङ्गं जयं चापतुरव्यवस्थं  ।
पश्चात्पुर्ॐआरुतयोः प्रवृद्धौ पर्यायवृत्त्येव महार्णवोर्मी   । । ७.५४  । ।

परेण भग्नेऽपि बले महौजा ययावजः प्रत्यरिसैन्यं एव   ।
धूमो निवर्तेत समीरणेन यतो हि कक्षस्तत एव वह्निः   । । ७.५५  । ।

रथी निषङ्गी कवची धनुष्मान्दृप्तः स राजन्यकं एकवीरः   ।
निवारयां आस महावराहः कल्पक्षयोद्धूतं इवार्णवाम्भः   । । ७.५६  । ।

स दक्षिणं तूण-मुखेन वामं व्यापारयन्हस्तं अलक्ष्यताजौ   ।
आकर्णकृष्टा सकृदस्य योद्धुर्मौर्वीव बाणान्सुषुवे रिगुफ्नान्  । । ७.५७  । ।

स रोषदष्टाधिकलोहितोष्ठैर्व्यक्तोर्ध्वरेका भृकुटीर्वहद्भिः   ।
तस्तार गां भल्लनिकृत्तकण्ठैर्हुंकारगर्भैर्द्विषतां शिरोभिः   । । ७.५८  । ।

सर्वैर्बलाङ्गैर्द्विरदप्रधानैः सर्वायुधैः कङ्कटभेदिभिश्च   ।
सर्वप्रयत्नेने च भूमिपालास्तस्मिन्प्रजह्रुर्युधि सर्व एव   । । ७.५९  । ।

सोऽस्त्रव्रजैश्छन्नरथः परेषां ध्वजाग्रमात्रेण बभूव लक्ष्यः   ।
नीहारमग्नो दिनपूर्वभागः किंचित्प्रकाशेन विवस्वतेव   । । ७.६०  । ।

प्रियंवदात्प्रापं असौ कुमारः प्रायुङ्क्त राजस्वधिराजसूनुः   ।
गान्धर्वं अस्त्रं कुसुमास्त्रकान्तः प्रस्वापनं स्वपनिवृत्तलौल्यः   । । ७.६१  । ।

ततो धनुष्कर्षणमूढहस्तं एकांसपर्यस्तशिरस्त्रजालं  ।
तस्थौ ध्वजस्तम्भनिषण्णदेहं निद्राविधेयं नरदेवसैन्यं  । । ७.६२  । ।

ततः प्रियोपात्तरसेऽधरोष्ठे निवेश्य दध्मौ जलं कुमारः   ।
येन स्वहस्तार्जितं एकवीरः पिबन्यशो मूर्तं इवाभासे   । । ७.६३  । ।

शङ्खस्वनाभिज्ञतया निवृत्तास्तं सन्नशत्रुं ददृशुः स्वयोधाः   ।
निमीलितानां इव पङ्कजानां मध्ये स्फुरन्तं प्रतिमाशशाङ्कं  । । ७.६४  । ।

सशोणितैस्तेन शिलीमुखाग्रैर्निक्षेपिताः केतुषु पार्थिवानां  ।
यशो हृतं संप्रति राघवेण न जीवितं वः कृपयेति वर्णाः   । । ७.६५  । ।

स चापकोटीनिहितैकबाहुः शिरस्तनिष्कर्षणभिन्नमुलिः   ।
ललाटबद्धश्रमवारिबिन्दुर्भीतां प्रियां एत्य वचो बभाषे   । । ७.६६  । ।

इतः परानर्भकहार्यशस्त्रान्वैदर्भि पश्यानुमता मयासि   ।
एवंविधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममभिः   । । ७.६७  । ।

तस्याः प्रतिद्वन्द्विभवाद्विषादात्सद्यो विमुक्तं मुखं आबभासे   ।
निश्वासबाष्पापगमात्प्रपन्नः प्रसादं आत्मीयं इवात्मदर्षाः   । । ७.६८  । ।

हृष्टापि सा ह्रीविजिता न साक्षाद्वाग्भिः सखीनां प्रियं अभ्यनन्दथ् ।
स्थली नवाम्भःपृषताभिवृष्टा मयूरकेकाभिरिवाभ्रवृन्दं  । । ७.६९  । ।

इति शिरसि स वामं पादं आधाय राज्ञां उदवहदनवद्यां तां अवद्यादपेतह्  ।
रथतुरगरजोभिस्तस्य रूक्षालकाग्रा समरविजयलष्मीः सैव मूर्ता बभूव   । । ७.७०  । ।

प्रथमपरिगतार्थस्तं रघुः संनिवृत्तं विजयिनं अभिनन्द्य श्लाघ्यजायासमेतं  ।
तदुपहितकुटुम्बः शान्तिमार्गोतुस्कोऽभून्न हि सति कुलधुर्ये सूर्यवंश्या गृहाय   । । ७.७१  । ।


इति कालिदासविरचिते रघुवंशे सप्तमः सर्गः


No comments:

Post a Comment