Sanskrit Toolbar

Powered by Conduit

रघुवंशे तृतीयः सर्गः Raghuvamsha Of Kalidaasa III Cantoo

 रघुवंशे तृतीयः सर्गः
अथेप्सितं भर्तुरुपस्थितोदयं सखीजनोद्वीक्षणकौमुदीमुखं  ।
निदानं इक्ष्वाकुकुलस्य संततेः सुदक्षिणा दौर्हृदलक्षणं दधौ   । । ३.१  । ।

शरीरसादादसमग्रभूषणा मुखेन सालक्ष्यत लोध्रपाण्डुना   ।
तनुप्रकाशेन विचेयतारका प्रभातकल्पा शशिनेव शर्वरी   । । ३.२  । ।

ततो विशांपत्युरनन्यसंततेर्मनोरथं किंचिदिवोदयोन्मुखं  ।
अनन्यसौहार्दरसस्य दोहदं प्रिया प्रपेदे प्रकृतिप्रियंवदा   । । ३.२आ  । ।

मुखेन सा केतकपत्त्रपाण्डुना कृशाङ्गयष्टिः परिमेयभूषणा   ।
स्थिताल्पतारां करुणेन्दुमण्डलां विभातकल्पां रजनीं व्यडम्बयथ् । । ३.२भ् । ।

तदाननं मृत्सुरभि क्षितीश्वरो रहस्युपाघ्राय न तृप्तिं आययौ   ।
करीव सिक्तं पृषतैः पय्ॐउचां शुचिव्यपाये वनराजिपल्वलं  । । ३.३  । ।

दिवं मरुत्वानिव भोक्ष्यते भुवं दिगन्तविश्रान्तरथो हि तत्सुतः   ।
अतोऽभिलाषे प्रथमं तथाविधे मनो बबन्धान्यरसान्विलङ्घ्य सा   । । ३.४  । ।

न मे ह्रिया शंसति किंचिदीप्सितं स्पृहावती वस्तुषु केषु मागधी   ।
न हीष्टं अस्य त्रिदिवेऽपि भूपतेर्प्रियासखीरुत्तरकोसलेश्वरः   । । ३.५  । ।

उपेत्य सा दोहददुःखशीलतां यदेव वव्रे तदपश्यदाहृतं  ।
न हीष्टं अस्य त्रिदिवेऽपि भूपतेरभूदनासाद्यं अधिज्यधन्वनः   । । ३.६  । ।

क्रमेण निस्तीर्य च दोहदव्यथां प्रचीयमानावयवा रराज सा   ।
पुराणपत्त्रापगमादनन्तरं लतेव संनद्धमनोज्ञपल्लवा   । । ३.७  । ।

दिनेषु गच्छत्सु नितान्तपीवरं तदीयं आनीलमुखं स्तनद्वयं  ।
तिरश्चकार भ्रमराभिलीनयोः सुजातयोः पङ्कजकोशयोः श्रियम्)   । । ३.८  । ।

निधानगर्भां इव सागराम्बरां शमीं इवाभ्यन्तरलीनपावकां  ।
नदीं इवान्तःसलिलां सरस्वतीं नृपः ससत्त्वां महिषीं अमन्यत   । । ३.९  । ।

प्रियानुरागस्य मनःसमुन्नतेर्भुजार्जितानां च दिगन्तसंपदां  ।
यथाक्रमं पुंसवनादिकाः क्रिया धृतेश्च धीरः सदृशीर्व्यधत्त सः   । । ३.१०  । ।

सुरेन्द्रमात्राश्रितगर्भगौरवात्प्रयत्नमुक्तासनया गृहागतः   ।
तयोपचाराञ्जलिखिन्नहस्तया ननन्द पारिप्लवनेत्रया नृपः   । । ३.११  । ।

कुमारभृत्याकुशलैरनुष्ठिते भिषग्भिराप्तैरथ गर्भभर्मणि   ।
पतिः प्रतीतः प्रसवोन्मुखीं प्रियां ददर्श काले दिवं अभ्रीतं इव   । । ३.१२  । ।

ग्रहैस्ततः पञ्चभिरुच्चसंश्रयैरसूर्यगैः सूचितभाग्यसंपदं  ।
असूत पुत्रं समये शचीसमा त्रिसाधना शक्तिरिवार्थं अक्षयं  । । ३.१३  । ।

दिशः प्रसेदुर्मरुतो ववुः सुखाः प्रदक्षिणार्चिर्हविरग्निराददे   ।
बभूव सर्वं शुभशंसि तत्क्षणं भवो हि लोकाभ्युदयाय तादृशां  । । ३.१४  । ।

अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा   ।
निशीथदीपाः सहसा हतत्विषो बभूवुरालेख्यसमर्पिता इव   । । ३.१५  । ।

जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसंमिताक्षरं  ।
अदेयं आसीत्त्रयं एव भूपतेः शशिप्रभं छत्त्रं उभे च चामरे   । । ३.१६  । ।

समीक्ष्य पुत्रस्य चिरान्मुखं पिता निधानकुम्भस्य युवेव दुर्गतः   ।
मुदा शरीरे प्रबभूव नात्मनः पयोधिरिन्दूदयमूर्छितो यथा   । । ३.१६*  । ।

निवातपद्मस्तिमितेन चक्षुषा नृपस्य कान्तं पिबतः सुताननं  ।
महोदधेः पूर इवेन्दुदर्शनाद्गुरुः प्रहर्षः प्रबभूव नात्मनि   । । ३.१७  । ।

स जातकर्मण्यखिले तपस्विना तपोवनादेत्य पुरोधसा कृते   ।
दिलीपसूनुर्मणिराकरोद्भवः प्रयुक्तसंस्कार इवाधिकं बभौ   । । ३.१८  । ।

सुखश्रवा मङ्गलतूर्यनिस्वनाः प्रमोदनृत्यैः सह वारयोषितां  ।
न केवलं सद्मनि मागधीपतेः पथि व्यजृम्भन्त दिवौकसां अपि   । । ३.१९  । ।

न संयतस्तस्य बभूव रक्षितुर्विसर्जयेद्यं सुतजन्महर्षितः   ।
ऋणाभिधानात्स्वयं एव केवलं तदा पितःणां मुमुचे स बन्धनाथ् । । ३.२०  । ।

शुतस्य यायादयं अन्तं अर्भकस्तथा परेषां युधि चेति पार्थिवः   ।
अवेक्ष्य धातोर्गमनार्थं अर्थविच्चकार नाम्ना रघुं आत्मसंभवं  । । ३.२१  । ।

पितुः प्रयत्नात्स समग्रसंपदः शुभैः शरीरावयवैर्दिने दिने   ।
पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः   । । ३.२२  । ।

उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरंदरौ   ।
तथा नृपः सा चु सुतेन मागधी ननन्दतुस्तत्सदृशेन तत्समौ   । । ३.२३  । ।

रथाङ्गनाम्नोरिव भावबन्धनं बभूव यत्प्रेम परस्पराश्रयं  ।
विभक्तं अप्येकसुतेन तत्तयोः परस्परस्योपरि पर्यचीयत   । । ३.२४  । ।

उवाच धात्र्या प्रथमोदितं वचो ययौ तदीयां अवलम्ब्य चाङ्गुलिं  ।
अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोऽर्भकः   । । ३.२५  । ।

तं अङ्कं आरोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तं इवामृतं त्वचि   ।
उपान्तसंमीलितलोचनो नृपश्चिरात्सुतस्पर्शरस्ज्ञतां ययौ   । । ३.२६  । ।

तं अङ्कं आरोप्य शरीरयोगजैः स्थितेरभेत्ता स्थितिमन्तं अन्वयं  ।
स्वमूर्तिभेदेन गुणाग्र्यवर्तिना पतिः प्रजानां इव सर्गं आत्मनः   । । ३.२७  । ।

स वृत्तचौलश्चलकाकपक्षकैरमात्यपुत्रैः सवयोभिरन्वितः   ।
लिपेर्यथावद्ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रं आविशथ् । । ३.२८  । ।

अथोपनीतं विधिवद्विपश्चितो विनिन्युरेनं गुरवो गुरुप्रियं  ।
अवन्ध्ययत्नाश्च बभूवुरर्भके ततार विद्याः पवनातिपातिभिर्  । । ३.२९  । ।

धियः समग्रैः स गुणैरुदारधीः क्रमाच्चतस्रश्चतुरर्णवोपमाः   ।
ततार विद्याः पवनातिपातिभिर्दिशो हरिद्भिर्हरितां इवेश्वरः   । । ३.३०  । ।

त्वचं स मेध्यां परिधाय रौरवीं अशिक्षतास्त्रं पितुरेव मन्त्रवथ् ।
न केवलं तद्गुरुरेकपार्थिवः क्षितावभूदेकधनुर्धरोऽपि सः   । । ३.३१  । ।

महोक्षतां वत्सतरः स्पृशन्निव द्विपेन्द्रभावं कलभः श्रयन्निव   ।
रघुः क्रमाद्यौवनभिन्नशैशवः पुपोष गाम्भीर्यमनोहरं वपुः   । । ३.३२  । ।

अथास्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्तयद्गुरुः   ।
नरेन्द्रकन्यास्तं अवाप्य सत्पतिं तमोनुदं दक्षसुता इवाबभुः   । । ३.३३  । ।

युवा युगव्यायतबाहुरंसलः कपाटवक्षाः परिणद्धकंधरः   ।
वपुःप्रकर्षादजयद्गुरुं रघुस्तथापि नीचैर्विनयाददृश्यत   । । ३.३४  । ।

ततः प्रजानां चिरं आत्मना धृतां नितान्तगुर्वीं लघयिष्यता धुरं  ।
निसर्गसंस्कारविनीत इत्यसौ नृपेण चक्रे युवराजशब्दभाक्  । । ३.३५  । ।

नरेन्द्रमूलायतनादनन्तरं घनव्यपायेन गभस्तिमानिव   ।
अगच्छदंशेन गुणाभिलाषिणी नवावतारं कमलादिवोत्पलं  । । ३.३६  । ।

विभावसुः सारथिनेव वायुना घनव्यपायेन गभस्तिमानिव   ।
बभूव तेनातितरां सुदुःसहः कटप्रभेदेन करीव पार्थिवः   । । ३.३७  । ।

नियुज्य तं ह्ॐअतुरंगरक्षणे धनुर्धरं राजसुतैरनुद्रुतं  ।
अपूर्णं एकेन शतक्रतूपमः शतं क्रतूना अपविघ्नं आप सः   । । ३.३८  । ।

ततः परं तेन मखाय वज्वना तुरंगं उत्सृष्टं अनर्गलं पुनः   ।
धनुर्भृतां अग्रत एव रक्षिणां जहार शक्रः किल गूढविग्रहः   । । ३.३९  । ।

विषादलुप्तप्रतिपत्ति विस्मितं ममैव येनेह तुरंगं ईक्षसे   ।
धेन्वा निशम्येति वचः समीर्तं श्रुतप्रभावा ददृशेऽथ नन्दिनी   । । ३.४०  । ।

स्वेदाम्बुना मार्जय पुत्र लोचने ममैव येनेह तुरंगं ईक्षसे   ।
धेन्वा निशम्येति वचः समीरितं मुदं परां आप दिलीपनन्दनः   । । ३.४०*  । ।

तदङ्गनिस्यन्दजलेन लोचने प्रमृज्य पुण्येन पुरस्कृतः सतां  ।
अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः   । । ३.४१  । ।

स पूर्वतः पर्वतपक्षशातनं ददर्श देवं नरदेवसंभवः   ।
पुनः पुनः सूतनिषिद्धचापलं हरन्तं अश्वं रथरश्मिसंयतं  । । ३.४२  । ।

स पूर्वतः पर्वतपक्षशातनं हरिं विदित्वा हरिभिश्च वाजिभिः   ।
अवोचदेनं गन्गस्पृशा रघुः स्वरेण धीरेण निवर्तयन्निव   । । ३.४३  । ।

मखांशभाजां प्रथमो मनीषिभिस्त्वं एव देवेन्द्र सदा निगद्यसे   ।
अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं प्रवर्तसे   । । ३.४४  । ।

त्रिलोकनाथेन सदा मखद्विषस्त्वया नियम्या ननु दिव्यचक्षुषा   ।
स चेत्स्वयं करमसु धर्मचारिणां त्वं अन्तरायो भवसि च्युतो विधिः   । । ३.४५  । ।

तदङ्गं अग्र्यं मघवन्महाक्रतोरमुं तुरंगं प्रतिमोक्तुं अर्हसि   ।
पतःश्रुतेर्दर्शयितार ईश्वरा मलीमसां आददते न पद्धतिं  । । ३.४६  । ।

इति प्रगल्भं रघुणा समीरितं वचो निशम्याधिपतिर्दिवौकसां  ।
निवर्तयां आस रथं सविस्मयः प्रचक्रमे च प्रतिवक्तुं उत्तरं  । । ३.४७  । ।

यदात्थ राजन्यकुमार तत्तथा यशस्तु रक्ष्यं परतो यशोधनैः   ।
जगत्प्रकाशं तदशेषं इज्यया भवद्गुरुर्लङ्घयितुं ममोद्यतः   । । ३.४८  । ।

हरिर्यथैकः पुरुशोत्तमः स्मृतो महेश्वरस्त्र्यम्बक एव नापरः   ।
तथा विदुर्मां मुनयः शतक्रतुं द्वितीयगामी न हि शब्द एष नः   । । ३.४९  । ।

अतोऽयं अश्वः कपिलानुकारिणा पितुस्त्वदीयस्य मयापहारितः   ।
अलं प्रयत्नेन तवात्र मा निधाः पदं पदव्यां सगरस्य संततेः   । । ३.५०  । ।

ततः प्रहस्यापभयः पुरंदरं पुनर्बभाषे तुरगस्य रक्षिता   ।
गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान्  । । ३.५१  । ।

स एवं उक्त्वा मघवन्तं उन्मुखः करिष्यमाणः सशरं शरासनं  ।
अतिष्ठदालीढविशेषशोभिना वपुःप्रकर्षेण विडम्बितेश्वरः   । । ३.५२  । ।

रघोरवष्टम्भमयेन पत्त्रिणा हृदि क्षतो गोत्रभिदप्यमर्षणः   ।
नवाम्बुदानीकमुहूर्तलाञ्छने धनुष्यमोघं समधत्त सायकं  । । ३.५३  । ।

दिलीपसूनोः स बृहद्(?) भुजान्तरं प्रविश्य भीमासुरशोणितोचितः   ।
पपावनास्वादितपूर्वं आशुगः कुतूहलेनेव मनुष्यशोणितं  । । ३.५४  । ।

हरेः कुमारोऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ   ।
भुजे शचीपत्त्रविशेषकाङ्किते स्वनामचिह्नं निचखान सायकं  । । ३.५५  । ।

जहार चान्येन मयूरपत्त्रिणा शरेण शक्रस्य महाशनिध्वजं  ।
चुकोप तस्मै स भृशं सुरश्रियः प्रसहय केशव्यपरोपणादिव   । । ३.५६  । ।

तयोरुपान्तस्थितसिद्धसैनिकं गरुत्मदाशीविशभीमदर्शनैः   ।
बभूव युद्धं तुमुउलं जयैषिणोरध्ॐउखैरूर्ध्वमुखैश्च पत्त्रिभिः   । । ३.५७  । ।

अतिप्रबन्धप्रहितास्त्रवृष्टिभिस्तं आश्रयं दुष्प्रहस्य तेजसः   ।
शशाक निर्वापयितुं न वासवः स्वतश्च्युतं वह्निं इवाद्भिरम्बुदः   । । ३.५८  । ।

ततः प्रकोष्ठे हरिचन्दनाङ्किते प्रमथ्यमानार्णवधीर   ।
रघुः शशाङ्कार्धमुखेन पत्त्रिणा शरासनज्यां अलुनाद्विडौजसः   । । ३.५९  । ।

स चापं उत्सृज्य विवृद्धमत्सरः प्रणाशनाय प्रबलस्य विद्विषः   ।
महीध्रपक्षव्यपरोपणोचितं स्फुरत्प्रभामण्डलं अस्त्रं आददे   । । ३.६०  । ।

रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः   ।
निमेषमात्रादवधूय तद्व्यथां सहोत्थितः सैनिकहर्षनिस्वनैः   । । ३.६१  । ।

तथापि शस्त्रव्यवहारनिष्ठुरे बिपक्षभावे चिरं अस्य तस्थुषः   ।
तुतोष वीर्यातिशयेन वृत्रहा पदं हि सर्वत्र गुणैर्निधीयते   । । ३.६२  । ।

असङ्गं अद्रिष्वपि सारवत्तया न मे त्वदन्येन विसोढं आयुधं  ।
अवेहि मां प्रीतं ऋते तुरंगमात्किं इच्छसीति स्फुटं आह वासवः   । । ३.६३  । ।

ततो निषङ्गादसमग्रं उद्धृतं सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिं  ।
नरेन्द्रसूनुः प्रतिसंहरन्निषुं प्रियंवदः प्रत्यवदत्सुरेश्वरं  । । ३.६४  । ।

अमोच्यं अश्वं यदि मन्यसे प्रभो ततः समाप्ते विधिनैव कर्मणि   ।
अजस्रदीक्षाप्रयतः स मद्गुरुः क्रतोरशेषेण फलेन युज्यतां  । । ३.६५  । ।

यथा च वृत्तान्तं इमं सदोगतस्त्रिलोचनैकांशतया दुरासदः   ।
तवैव संदेषहराद्विशंपतिः शृणोति लोकेश तथा विधीयतां  । । ३.६६  । ।

तथेति कामं प्रतिशुश्रुवान्रघोर्यथागतं मातलिसारथिर्ययौ   ।
नृपस्य नातिप्रमनाः सदोगृहं सुदक्षिनासूनुरपि न्यवर्तत   । । ३.६७  । ।

तं अभ्यनन्दत्प्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः   ।
परामृशन्हर्षजडेन पाणिना तदीयं अङ्गं कुलिशव्रणाङ्कितं  । । ३.६८  । ।

इति क्षितीशो नवतिं नवाधिकां महाक्रतूनां महनीयशासनः   ।
समारौरुक्षुर्दिवं आयुषः क्षये ततान सोपानपरंपरां इव   । । ३.६९  । ।

अथ स विषव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्त्वा यूने सितातपवारणं  ।
मुनिवनतरुच्छायां देव्या तया सह शिश्रिये गलितवयसां इक्ष्वाकूणा इदं हि कुलव्रतम्  । । ३.७०  । ।

इति कालिदासविरचिते रघुवंशे तृतीयः सर्गः

No comments:

Post a Comment