Sanskrit Toolbar

Powered by Conduit

कालिदासविरचिते रघुवंशे नवमः सर्गः -Raghuvamsha of Kalidas IX Cantoo

कालिदासविरचिते रघुवंशे नवमः सर्गः

पितुरनन्तरं उत्तर्कोसलान्समधिगम्य समाधिजितेन्द्रियः   ।
दशरथः प्रशशास महारथो यमवतां अवतां च धुरि स्थितः   । । ९.१  । ।

अधिगतं विधिवद्यदपालयत्प्रकृतिमण्डलं आत्मकुलोचितं  ।
अभवदस्य ततो गुणवत्तरं सनगरं नगरन्ध्रकरौजसः   । । ९.२  । ।

उभयं एव वदन्ति मनीषिणः समयवर्षितया कृतकर्मणां  ।
वलनिषूदनं अर्थ्पतिं च तं श्रमनुदं मनुदण्डहरान्वयं  । । ९.३  । ।

जनपदे न गदः पदं आदधावभिभवः कुत एव सपत्नजः   ।
क्षितिरभूत्फलवत्यजनन्दने शमरतेऽमरतेजसि पार्थिवे   । । ९.४  । ।

दशदिगन्तजिता रघुणा यथा श्रियं अपुष्यदजेन ततः परं  ।
तं अधिगम्य तथैव पुनर्बभौ न न महीऽनं अहीनपराक्रमं  । । ९.५  । ।

समतया वसुवृटिविसर्जनैर्नियमनादसतां च नराधिपः   ।
अनुययौ यमपुण्यजनेश्वरौ सवरुणावरुणाग्रसरं रुचा   । । ९.६  । ।

न मृगयाभिरतिर्न दुरोदरं न च शशिप्रतिमाभरणं मधु   ।
तं उदयाय न वा नवयौवना प्रियतमा यतमानं अपाहरा   । । ९.७  । ।

न कृपणा प्रभवत्यपि वासवे न वितथा परिहासकथास्वपि   ।
न च सपत्नजनेष्वपि तेन वागपरुषा परुषाक्षरं ईरिता   । । ९.८  । ।

उदयं अस्तमयं च रघूद्वहादुभयं आनशिरे वसुधाधिपाः   ।
स हि निदेशं अलङ्घयतां अभूत्सुहृदयोहृदयः प्रतिगर्जतां  । । ९.९  । ।

अजयदेकरथेन स मेदिनीं उदधिनेमिं अधिज्यशरासनः   ।
जयं अघोषयदस्य तु केवलं गजवती जवतीरहया चमूः   । । ९.१०  । ।

जघननिर्विषयीकृतमेखलाननुचिताश्रुविलुप्तविशेषकान्  ।
स रिपुदारगणानकरोद्बलादनलकानलकाधिपविक्रमः   । । ९.१०*  । ।

अवनिं एकरथेन वरूथिना जितवतः किल तस्य धनुर्भृतः   ।
विजयदुन्दुभितां ययुरर्णवा घनरवा नरवाहनसंपदः   । । ९.११  । ।

शमितपक्षबलः शितकोटिना शिखरिणां कुलिशेन पुरंदरः   ।
स सारवृष्टिमुचा धनुषा द्विषां स्वनवता नवतामरसाननः   । । ९.१२  । ।

स्फुरितकोटिसहस्रमरीचिना समचिनोत्कुलिशेन हरिर्यशः   ।
स धनुषा युधि सायकवर्षिणा स्वनवता नवतामरसाननः   । । ९.१२*  । ।

चरणयोर्नखरागसमृद्धिभिर्मुकुटरत्नमरीचिभिरस्पृशन्  ।
स धनुषा युधि सायकवर्षिणा शतमखं तं अखण्डितपौरुषं  । । ९.१३  । ।

निववृते स महार्णवरोधसः सचिवकारितबालसुताञ्जलीन्  ।
समनुकम्प्य सपत्नपरिग्रहाननलकानलकानवमां पुरीं  । । ९.१४  । ।

उपगतोऽपि च मण्डलनाभितां अनुदितान्यसितातपवारणः   ।
अजितं अस्ति नृपास्पदं इत्यभूदनलसोऽनलस्ॐअसमद्युतिः   । । ९.१५  । ।

क्रतुषु तेन विसर्जितमौलिना भुजसमाहृतदिग्वसुना कृताः   ।
कनकयूपसमुच्छ्रयशोभिनो वितमसा तमसारस्यूतटाः   । । ९.१६  । ।

अजिनदण्डभृतं कुशमेखलां यतगिरं मृगशृङ्गपरिग्रहां  ।
अधिवसंस्तनुं अध्वरदीक्षितां असम्भासं अभासयदीश्वरः   । । ९.१७  । ।

अवभृतप्रयतो नियतेन्द्रियः सुरसमाजसमाक्रमणोचितः   ।
नमयति स्म स केवलं उन्नतं वनमुचे नमुचेररये शिरः   । । ९.१८  । ।

तं अपहाय ककुत्स्थकुलोद्भवं पुरुषं आत्मभुवं च पतिव्रता   ।
नृपतिं अन्यं असेवत देवता सकमला कं अलाघवं अर्थिषु   । । ९.१९  । ।

स किल संयुगमूर्ध्नि सहायतां मघवतः प्रतिपद्य महारथः   ।
स्वभुजवीर्यं अगापयदुच्छ्रितं सुरवधूरवधूतभयाः शरैः   । । ९.२०  । ।

असकृदेकरथेन तरस्विना हरिहयाग्रसरेण धनुर्भृता   ।
दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषां  । । ९.२१  । ।

तं अलभन्त पतिं पतिदेवताः शिखरिणां इव सागरं आपगाः   ।
मगधकोसलकेकयशसिनां दुहितरोऽहितरोपितमार्गणं  । । ९.२२  । ।

प्रियतमाभिरसौ तिऋभिर्बभौ तिसृभिरेव भुवं सह शक्तिभिः   ।
उपगतो विनिनीषुरिव प्रजा हरिहयोऽरिहयोगविचक्षणः   । । ९.२३  । ।

अथ समाववृते कुसुमैर्नवैस्तं इव सेवितुं एकनराधिपं  ।
यमकुबेर्जलेश्वरवज्रिणां समधुरं मधुरञ्चितविक्रमं  । । ९.२४  । ।

जिगमिषुर्धनदाध्युषितां दिशं रथयुजा परिवर्तितवाहनः   ।
दिनमुखानि रविर्हिमनिर्ग्रहैर्विमलयन्मलयं नगं अत्यजथ् । । ९.२५  । ।

हिमविवर्णितचन्दनपल्लवं विरहयन्मलयाद्रिं उदङ्मुखः   ।
विहगयोः कृपयेव शनैर्ययौ रविरहर्विरहध्रुवभेदयोः   । । ९.२५*  । ।

कुसुमजन्म ततो नवपल्लवास्तदनु षट्पदकोकिलकूजितं  ।
इति यथाक्रमं आविरभून्मधुर्द्रुमवतीं अवतीर्य वनस्थलीं  । । ९.२६  । ।

सुरभिसंगमजं वनमालया नवपलाशं अधार्यत भङ्गुरं  ।
रमणदत्तं इवार्द्रनखक्षतं प्रमदया मदयापितलज्जया   । । ९.२६*  । ।

उपहितं शिशिरापगमश्रिया मुकुलजालं अशोभत किंशुके   ।
प्रणयिनीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया   । । ९.२७  । ।

परभृता मदनक्षतचेतसां प्रियसखी लघुवागिव योषितां  ।
प्रियतमानकरोत्कलहान्तरे मृदुरवा दुरवापसमागमान्  । । ९.२७*  । ।

व्रणगुरुप्रमदाधरदुःसहं जघननिर्विषयीकृतमेखलं  ।
न खलु तावदशेषं अपोहितुं रविरलं विरलं कृतवान्हिमं  । । ९.२८  । ।

विशदचन्द्रकरं सुखमारुतं कुसुमितद्रुमं उन्मदकोकिलं  ।
तदुपभोगरसं हिमवर्षिणः परं ऋतोर्विरलं कृतवान्हिमं  । । ९.२८*  । ।

अभिनयान्परिचेतुं इवोद्यता मलयमारुतकम्पितपल्लवा   ।
अमदयत्सहकारलता मनः सकलिका कलिकामजितां अपि   । । ९.२९  । ।

नयगुणोपचितां इव भूपतेः सदुपकारफलां श्रियं अर्थिनः   ।
अभिययुः सरसो मधुसंभृतां कमलिनीं अलिनीरपत्रिणः   । । ९.३०  । ।

दशनचन्द्रिकया व्यभासितं हसितं आसवगन्धि मधोरिव   ।
बकुलपुष्पं असेव्यत षट्पदैः शुचिरसं चिरसंचितं ईप्सुभिः   । । ९.३०*  । ।

कुसुमं एव न केवलं आर्तवं नवं अशोकतरोः स्मरदीपनं  ।
किसलयप्रसवोऽपि विलासिनां मदयिता दयिताश्रवणार्पितः   । । ९.३१  । ।

विरचिता मधुनोपवन्श्रियां अभिनवा इव पत्त्रविशेषकाः   ।
मधुलिहां मधुदानविशारदाः कुरबका रवकारणतां ययुः   । । ९.३२  । ।

सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमोद्गमः   ।
मधुकरैरकरोन्मधुलोलुपैर्बकुलं आकुलं आयतपङ्क्तिभिः   । । ९.३३  । ।

सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमोद्गमः   ।
इति दयात इवाभवदायता न रजनी रजनीशवती मधौ   । । ९.३३*  । ।

प्रथमं अन्यभृताभिरुदीरिताः प्रविरला इव मुग्धवधूकथाः   ।
सुरभिगन्धिषु शुश्रुविरे गिरः कुसुमितासु मिता वनराजिषु   । । ९.३४  । ।

श्रुतिसुखभ्रमरस्वनगीतयः कुसुमक्ॐअलदन्तरुचो बभुः   ।
उपवनान्तलताः पवनाहतैः किसलयैः सलयैरिव पाणिभिः   । । ९.३५  । ।

ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेसरं  ।
पतिषु निर्विविशुर्मधुं अङ्गनाः स्मरसखं रसखण्डनवर्जितं  । । ९.३६  । ।

तिलकमस्तकहर्म्यकृतास्पदैः कुसुममध्वनुषङ्गसुगन्धिभिः   ।
कलं अगीयत भृङ्गविलासिनां स्मरयुतैरयुतैरबलासखैः   । । ९.३६*  । ।

शुशुभिरे स्मितचारुतराननाः स्त्रिय इव श्लथशिञ्जितमेखलाः   ।
विकचतामरसा गृहदीर्घिका मदकलोदकलोलविहंगमाः   । । ९.३७  । ।

लघयति स्म न पत्यपराधजं न सहकारतरुस्तरुणीधृतं  ।
कुसुमितो नमितोऽलिभिरुन्मदैः स्मरसमाधिसमाधिकरोषितं  । । ९.३७*  । ।

उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः   ।
सदृशं इष्टसमागमनिर्वृतिं वनितयाऽनितया रजनीवधूः   । । ९.३८  । ।

अपतुषारतया विशदप्रभैः सुरतराग परिश्रमनोदिभिः   ।
कुसुमचापं अतेजयदंशुभिर्हिमकरो मकरोजितकेतनं  । । ९.३९  । ।

हुतहुताशनदीप्ति वन्श्रियः प्रतिनिधिः कनकाभरणस्य यथ् ।
युवतयः कुसुमं दधुराहितं तद्(?) अलके दलकेसरपेशलं  । । ९.४०  । ।

अलिभिरञ्जनबिन्दुमओहरैः कुसुमपङ्क्तिनिपातिभिरङ्कितः   ।
न खलु शोबहयित्स्म वनस्थलीं न तिलकस्तिलकः प्रमदां इव   । । ९.४१  । ।

अमदयन्मद्घुगन्धसनाथया किसलयाधरसंगतया मनः   ।
कुसुमसंभ्ट्तया नवमल्लिका स्मितरुचा तरुचारुविलासिनी   । । ९.४२  । ।

अनलसान्यभृताऽनलसान्मनः कमलधूलिभृता मरुतेरिता   ।
कुसुमभारनताध्वगयोषितां असमशोकं अशोकलताऽकरोथ् । । ९.४२*  । ।

अरुणरागनिषेधिभिरंशुकैः श्रवणलब्धपदैश्च यवाङ्कुरैः   ।
परभृताविरुतैश्च विलासिनः स्मरबलैरबलैकरसाः कृताः   । । ९.४३  । ।

उपचितावयवा शुचिभिः कणैरलिकदम्बकयोगं उपेयुषी   ।
सदृशकान्तिरलक्ष्यत मञ्जरी तिलकजाऽलकजालकमौक्तिकैः   । । ९.४४  । ।

ध्वजपटं मदनस्य धनुर्भृतश्छविकरं मुखचूर्णं ऋतुश्रियः   ।
कुसुमकेसररेणुं अलिव्रजाः सपवनोपवनोत्थितं अन्वयुः   । । ९.४५  । ।

अनुभवन्नवदोलं ऋतूत्सवं पटुर्पै प्रियकण्ठजिगृक्षया   ।
अनयदासनरज्जुपरिग्रहे भुजलतां जडतां अबलाजनः   । । ९.४६  । ।

त्यजत मानं अलं बत बिग्रहैर्न पुनरेति गतं चतुरं वयः   ।
परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजनः   । । ९.४७  । ।

अथ यथासुखं आर्तवं उत्सवं समनुभूय विलासवतीसखः   ।
नरपतिश्चकमे मृगयारतिं स मधुमन्मधुमन्मथसंनिभः   । । ९.४८  । ।

परिचयं चलक्ष्यनिपातने भयरुषोश्च तदिङ्गितबोधनं  ।
श्रमजयात्प्रगुणां च करोत्यसौ तनुं अतोऽनुमतः सचिवैर्ययौ   । । ९.४९  । ।

मृगवनोपगमक्षमवेषभृद्विपुलकण्ठनिषक्तशरासनः   ।
गगनं अश्वखुरोद्धुत रेणुभिर्नृसविता सवितानं इवाकरोथ् । । ९.५०  । ।

ग्रथितमौलिरसौ वनमालया तरु पलाशसवर्णतनुच्छदः   ।
तुरगवल्गनचण्चलकुण्डलो विरुरुचे रुरुचेष्टितभूमिषु   । । ९.५१  । ।

तनुलताविनिवेशितविग्रहा भ्रमरसंक्रमितेक्षणवृत्तयः   ।
ददृषुरध्वनि तं वनदेवताः सुनयनं नयनन्दितकोसलं  । । ९.५२  । ।

श्वगण्वागुरिकैः प्रथमास्थितं व्यपगतानलदस्यु विवेश सः   ।
स्थिरतुरंगमभूमि निपानवन्मृगवयोगवयोपचितं वनं  । । ९.५३  । ।

अथ नभस्य इव त्रिदशायुधं कनकपिङ्गतडिद्गुणसंयुतं  ।
धनुर्रधिज्यं अनाधिरुपाददे नरवरो रवरोषितकेसरी   । । ९.५४  । ।

तस्य स्तनप्रणयिभिर्मुहुरेणशावैर्व्याहन्यमानहरिणीगमनं पुरस्ताथ् ।
आविर्बभूव कुशगर्भमुखं मृगाणां यूथं तदग्रसरगर्वितकृष्नसारं  । । ९.५५  । ।

तत्प्रार्थितं जवन्वाजिगतेन राज्ञा तूणीमुखोद्धृतशरेण विशीर्णपङ्क्ति   ।
श्यामीचकार वनं आकुलदृश्टिपातैर्वतेरितोत्पलदलप्रकरैरिवाम्भः   । । ९.५६  । ।

लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहं  ।
आकर्णकृष्टं अपि कामितया स धन्वी बाणं कृपामृधुमनाः प्रतिसंजहार   । । ९.५७  । ।

तस्यापरेष्वपि मृगेषु शरान्मुमुक्षोः कर्णान्तं एत्य बिभिदे निबिडोऽपि मुष्टिः   ।
त्रासातिमात्रचटुलैः स्मरयत्सु नेत्रैः प्रौढप्रियानयनविभ्रमचेष्टितानि   । । ९.५८  । ।

उत्तस्थुषः शिशिरपल्वलपङ्कमध्यान्मुस्ताप्ररोहकवलावयवानुकीर्णं  ।
जग्राह स द्रुतवराहकुलस्य मार्गं सुव्यक्तं आर्द्रपदपङ्क्तिभिरायताभिः   । । ९.५९  । ।

तं वाहनादवनतोत्तरकायं ईषद्विध्यन्तं उद्धतसटाः प्रतिहन्तुं ईषुः   ।
नात्मानं अस्य विविदुः सहसा वराहा वृकेषु विद्धं इषुभिर्जघनाश्रयेषु   । । ९.६०  । ।

तेनाभिघातरभसस्य विकृष्य पत्त्री वन्यस्य नेत्रविवरे महिषस्य मुक्तः   ।
निर्भिद्य विग्रहं अशोणितलिप्तपुङ्खस्तं पातयां प्रथमं आस पपात पश्चाथ् । । ९.६१  । ।

प्रायो विषाणपरिमोषलघूत्तमाङ्गान्खड्गांश्चकार नृपतिर्निशितैः क्षुरप्रैः   ।
शृण्गं स दृप्तविनयाधिकृतः परेषां अभ्युच्छ्रितं न ममृषे न तु दीर्घं आयुः   । । ९.६२  । ।

व्याघ्रानभीरभिमुखोपतितान्गुहाभ्यः फुल्लासनाग्रविटपानिव वायुरुग्णान्  ।
शिक्षाविशेषलघुहस्ततया निमेषात्तूणीचकार शरपूरितवक्त्ररन्ध्रान्  । । ९.६३  । ।

निर्घातोग्रैः कुञ्जलीनाञ्जिघांसुर्ज्यानिर्घोषैः क्षोभयां आस सिंहान्  ।
नूनं तेषां अभ्यसूयापरोऽभूद्वीर्योदग्रे राजशब्दे मृगेषु   । । ९.६४  । ।

तान्हत्वा गजकुलबद्धतीव्रवैरान्काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान्  ।
आत्मानं रणकृतकर्मणां गजानां आनृण्यं गतं इव मार्गणैरमंस्त   । । ९.६५  । ।

तान्हत्वा गजकुलबद्धतीव्रवैरान्काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान्  ।
आत्मानं रणकृतकर्मणां गजानां आनृण्यं गतं इव मार्गणैरमंस्त   । । ९.६५  । ।

चमरान्परितः प्रवर्तिताश्वः क्वचिदाकर्णविकृष्टभल्लवर्षी   ।
नृपतीनिव तान्वियोज्य सद्यः सितवालव्यजनैर्जगाम शान्तिं  । । ९.६६  । ।

अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्यी चकार   ।
सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः   । । ९.६७  । ।

तस्य कर्कशविहार्संभवं स्वेदं आननविलग्नजालकं  ।
आचचाम सतुषारशीकरो भिन्नपल्लवपुटो वनानिलः   । । ९.६८  । ।

इति विस्मृतान्यकरणीयं आत्मनः सचिवावलम्बितधुरं नराधिपं  ।
परिवृद्धरागं अनुभन्धसेवया मृगया जहार चतुरेव कामिनी   । । ९.६९  । ।

स ललितकुसुमप्रवालशय्यां ज्वलितमहौषधिदीपिकासनाथां  ।
नरपतिरतिवाहयां बभूव क्वचिदसमेतपरिच्छदस्त्रियामां  । । ९.७०  । ।

उषसि स गजयूथकर्णतालैः पटुपटधवनिभिर्विनीतनिद्रः   ।
अरमत मधुराणि तत्र शृण्वन्विहगविकूजितबन्दिमङ्गलानि   । । ९.७१  । ।

अथ जातु रुरोर्गृहीतवर्त्मा विपिने पार्श्वचरैरलक्ष्यमाणः   ।
श्रमफेनमुचा तपस्विगाढां तमसां प्राप नदीं तुरंगमेण   । । ९.७२  । ।

कुम्भपूरणभवः पटुरुच्चैरुच्चचार नन्दोऽम्भसि तस्याः   ।
तत्र स द्विरदबृंहितशङ्की शब्दपातिनं इषुं विससर्ज   । । ९.७३  । ।

नृपतेः प्रतिषिद्धं एव तत्कृतवान्पङ्क्तिरथो विलङ्घ्य यथ् ।
अपथे पदं अर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः   । । ९.७४  । ।

हा तातेति क्रन्दितं आकर्ण्य विषण्णस्तस्यान्विष्यन्वेतसगूढं प्रभवं सः   ।
शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्रं तापादन्तःशल्य इवासीत्क्शितिपोऽपि   । । ९.७५  । ।

तेनावतीर्य तुरगात्प्रथितान्ग्वयेन पृष्टान्वयः स जलकुम्भनिषण्णदेहः   ।
तस्मै द्विजेतरतपस्विसुतं स्खलद्भिरात्मानं अक्षरपदैः कथयां बभूव   । । ९.७६  । ।

तच्चोदितः च तं अनुद्ध्रृतशल्यं एव पित्रोः सकाशं अवसन्नदृशोर्निनाय   ।
ताभ्यां तथागतं उपेत्य तं एकपुत्रं अज्ञानतः स्वचरितं नृपतिः शशंस   । । ९.७७  । ।

तौ दंपती बहु विलप्य शिशोः प्रहर्त्रा शल्यं निखातं उदहारयतां उरस्तः   ।
सोऽभूत्परासुरथ भूमिपतिं शशाप हस्तार्पितैर्नयन्वारिभिरेव वृद्धः   । । ९.७८  । ।

दिष्टान्तं आप्स्यति भवानपि पुत्रशोकादन्ते वयस्यहं इवेति तं उक्तवन्तं  ।
आक्रान्तपूर्वं इव मुक्तविषं भुजंगं प्रोवाच कोसलपतिः प्रथमापराद्धः   । । ९.७९  । ।

शापोऽप्यदृष्टतनयाननपद्मशोभे सानुग्रहो भगवता मयि पातितोऽयं  ।
कृष्यां दहन्नपि खलु क्षितिं इन्धनेद्धो बीजप्ररोहजननीं ज्वलनः करोति   । । ९.८०  । ।

इत्थं गते गतघृणः किं अयं विधत्तां वध्यस्तवेत्यभितिते वसुधाधिपेन   ।
एधान्हुताशनवतः स मुनिर्ययाचे पुत्रं परासुं अनुगन्तुमनाः सदारः   । । ९.८१  । ।

प्रातानुगः सपदि शासनं अस्य राजा संपाद्य पातकविलुप्तधृतिर्निवृत्तः   ।
अन्तर्निविष्टपदं आत्मविनाशहेतुं शापं दधज्ज्वलनं और्वं इवाम्बुराशिः   । । ९.८२  । ।

तदर्थं अर्थज्ञगते गतत्रपः किं एष ते वध्यजनोऽनुसिष्ठतु   ।
स वह्निसंस्कारं अयाचतात्मनः सदारसूनोर्विदधे च तन्नृपः   । । ९.८२आ  । ।

समेयिवान्रघुवृषभः स्वसैनिकैः स्वमन्दिरं शिथिलधृतिर्निवर्तितः   ।
मनोगतं गुरुं ऋषिशापं उद्वहन्क्षयानलं जलधिरिवान्तकास्पदं  । । ९.८२भ् । ।

इति कालिदासविरचिते रघुवंशे नवमः सर्गः

No comments:

Post a Comment