कालिदासविरचिते रघुवंशे अष्टमः सर्गः - Raghuvamsha of Kalidas VII Cantoo

कालिदासविरचिते रघुवंशे अष्टमः सर्गः

अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः   ।
वसुधां अपि हस्तगामिनीं अकरोदिन्दुमतीं इवापरां  । । ८.१  । ।

दुरितैरपि कर्तुं आत्मसात्प्रयतन्ते नृपसूनवो हि यथ् ।
तदुपस्थितं अग्रहीदजः पितुराज्ञेति न भोगतृष्णया   । । ८.२  । ।

अनुभूय वसिष्ठसंभृतैः सलिलैस्तेन सहाभिषेचनं  ।
विशदोच्छवसितेन मेदिनी कथयां आस कृतार्थतां इव   । । ८.३  । ।

स बभूव दुरासदः परैर्गुरुणाथर्वविदा कृतक्रियः   ।
पवनाग्निसमागमो ह्ययं सहितं ब्रह्म यदस्त्रतेजसा   । । ८.४  । ।

रघुं एव निवृत्तयौवनं तं अमन्यन्त नवेश्वरं प्रजाः   ।
स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान्गुणानपि   । । ८.५  । ।

अधिकं शुशुभे शुभंयुना द्वितयेन द्वयं एव संगतं  ।
पदं ऋद्धं अजेन पैतृकं विनयेनास्य नवं च यौवनं  । । ८.६  । ।

सदयं बुभुजे महाभुजः सहसोद्वेगं इयं व्रजेदिति   ।
अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूं इव   । । ८.७  । ।

अहं एव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयथ् ।
उदधेरिव निमगाशतेष्वभवन्नास्य विमानना क्वचिथ् । । ८.८  । ।

न खरो न च भूयसा मृदुः पवमानः पृथिवीरुहानिव   ।
स पुरस्कृतमध्यमक्रमो नमयां आस नृपाननुद्धरन्  । । ८.९  । ।

अथ वीक्स्य रघुः प्रतिष्ठितं प्रकृतिष्वात्मजं आत्मवत्तया   ।
विषयेषु विनाशधर्मसु त्रिदिवस्तेष्वपि निःस्पृहोऽभवथ् । । ८.१०  । ।

गुणवत्सुतरोपितश्रियः परिणामे हि दिलीपवंशजाः   ।
पदवीं तरुवल्कवाससां प्रयताः संयमिनां प्रपेदिरे   । । ८.११  । ।

तं अरण्यसमाश्रयोन्मुखं शिरसा वेष्टनशोभिना सुतः   ।
पितरं प्रणिपत्य पादयोरपरित्यागं अयाचतात्मनः   । । ८.१२  । ।

रघुरश्रुमुखस्य तस्य तत्कृतवानीप्सितं आत्मजप्रियः   ।
न तु सर्प इव त्वचं पुनः प्रतिपेदे व्यपवर्जितां श्रियं  । । ८.१३  । ।

स कीलश्रमं अन्त्यं आश्रितो निवसन्नावसथे पुराद्बहिः   ।
समुपास्यत पुत्रभोग्यया स्नूषयेवाविकृतेन्द्रियः श्रिया   । । ८.१४  । ।

प्रशमस्थितपूर्वपार्थिवं कुलं अभ्युद्यत नूतनेश्वरं  ।
नभसा निभृतेन्दुना तुलां उदितार्केण समारुरोह तथ् । । ८.१५  । ।

यतिपार्थिवलिङ्गधारिणौ ददृशते रघुराघवौ जनैः   ।
अपवर्गमहोदयार्थयोर्भुवं अंशाविव धर्मयोर्गतौ   । । ८.१६  । ।

अजिताधिगमाय मन्त्रिभिर्युयुजे नीतिविशरदैरजः   ।
अनपायिपदोपलब्धये रघुराप्तैः समियाय योगिभिः   । । ८.१७  । ।

समयुजय्त भूपतिर्युवा सचिवैः प्रत्यहं अर्थसिद्धये   ।
अपुनर्जननोपत्तये प्रययाः संयमिभिर्मनीषिभिः   । । ८.१७*  । ।

नृपतिः प्रकृतीरवेक्षितुं व्यवहारासनं आददे युवा   ।
परिचेतुं उपांशु धारणां कुशपूतं प्रवयास्तु विष्टरं  । । ८.१८  । ।

अनुरण्जयितुं प्रजाः प्रभुर्व्यहारासनं आददे नवः   ।
अपरः शुचिविष्टरस्थितः परिचेतुं यतते स्म धारणाः   । । ८.१८*  । ।

अनयत्प्रभुशक्तिसंपदा वशं एको नृपतीननन्तरान्  ।
अपरः प्रणिधानयोग्यया मरुतः पञ्च शरीरगोचरान्  । । ८.१९  । ।

नयचक्षुरजो दिदृक्षया पररन्ध्रस्य ततान मण्डले   ।
हृदये समरोपयन्मनः परमं ज्योतिरवेक्षितुं रघुः   । । ८.१९*  । ।

अकरोदचिरेश्वरः क्षितौ द्विषदारम्भफलानि भस्मसाथ् ।
अपरो दहने स्वकर्मणां ववृते ज्ञानमयेन वह्निना   । । ८.२०  । ।

पणबन्धमुखान्गुणानजः षडुपायुङ्क्त समीक्ष्य तत्फलं  ।
रघुरप्यजयद्गुणत्रयं प्रकृतिस्थं समलोष्टकाञ्चनः   । । ८.२१  । ।

न नवः प्रभुरा फलोदयात्स्थिरकर्मा विरराम कर्मणः   ।
न च योगविधेर्नवेतरः स्थिरधीरा परमात्मदर्शनाथ् । । ८.२२  । ।

इति शत्रुषु चेन्द्रियेषु च प्रतिषिद्धप्रसरेषु जाग्रतौ   ।
प्रसितावुदयापवर्गयोरुभयीं सिद्धिं उभाववापतुः   । । ८.२३  । ।

अथ काश्चिदजव्यपेक्षया गमयित्वा सम्दर्शनः समाः   ।
तमसः परं आपदव्ययं पुरुषं योगसमाधिना रघुः   । । ८.२४  । ।

शुतदेहविसर्जनः पितुश्चिरं अश्रूणि विमुच्य राघवः   ।
विदधे विधिं अस्य नैष्ठिकं यतिभिः सार्धं अनग्निं अग्निचिथ् । । ८.२५  । ।

अकरोत्स तदौर्ध्वदैहिकं पितृभक्त्या पितृकार्यकल्पविथ् ।
न हि तेन पथा तनुत्यजस्तनयावर्जितपिण्डकाङ्क्षिणः   । । ८.२६  । ।

स परार्ध्यगतेरशोच्यतां पितुरुद्दिश्य सदर्थवेदिभिः   ।
शमिताधिरधिज्यकार्मुकः कृतवानप्रतिशासनं जगथ् । । ८.२७  । ।

क्षितिरिन्दुमती च भामिनी पतिं आसाद्य तं अग्र्यपौरुषं  ।
प्रथमा बहुरत्नसूरभूदपरा वीरं अजीजनत्सुतं  । । ८.२८  । ।

दशरास्मिशतोपमद्युतिं यशसा दिक्षु दशवपि श्रुतं  ।
दशपूर्वरथं यं आख्यया दशकण्ठारिगुरुं विदुर्बुधाः   । । ८.२९  । ।

ऋषिदेवगणस्वधाभुजां श्रुतयागप्रस्वैः स पार्थिवः   ।
अनृणत्वं उपेयिवान्बभौ परिधेर्मुक्त इवोष्णदीधितिः   । । ८.३०  । ।

बलं आर्तभयोपशान्तये विदुषां संनतये बहु श्रुतं  ।
वसु तस्य न केवलं गुणवत्तापि परप्रयोजना   । । ८.३१  । ।

स कदाचिदवेषितप्रजः सह देव्या विजहार सुप्रजाः   ।
नगरोपवने शचीसखो मरुतां पालयितेव नन्दने   । । ८.३२  । ।

अथ रोधसि दक्षिणोदधेः श्रित गोकर्णनिकेतं ईश्वरं  ।
उपवीणयितुं ययौ रवेरुदगावृत्तिपथेन नारदः   । । ८.३३  । ।

कुसुमैर्ग्रथितां अपार्थिवैः स्रजं आतोद्यशिरोनिवेशितां  ।
अहरत्किल तस्य वेगवानधिवासस्पृहयेव मारुतः   । । ८.३४  । ।

भ्रमरैः कुसुमानुसारिभिः परिकीर्णा परिवादिनी मुनेः   ।
ददृशे पवनावलेपजं सृजती बाष्पं इवाञ्जनाविलं  । । ८.३५  । ।

अभिभूय विभूतिं आर्तवीं मधुगन्धातिशयेन वीरुधां  ।
नृपतेरमरस्रगाप सा दयितोरुस्तनकोटिसुस्थितिं  । । ८.३६  । ।

क्षणमात्रसखीं सुजातयोः स्तनयोस्तां अवलोक्य विहला   ।
निमिमील नरोत्तमप्रिया हृतचन्द्रा तमसेव क्ॐउदी   । । ८.३७  । ।

वपुषा करणोज्झितेन सा निपतन्ती पतिं अप्यपातयथ् ।
ननु तैलनिषेकबिन्दुना सह दीपार्चिरुपैति मेदिनीं  । । ८.३८  । ।

समं एव नराधिपेन सा गुरुसंमोहविलुप्तचेतना   ।
गुरुसंमोहविलुप्तचेतना नवदीपार्चिरिव क्षितेस्तलं  । । ८.३८*  । ।

उभयोरपि पार्श्ववर्तिनां तुमु लेनार्तरवेण वेजिताः   ।
विहगाः कमलाकरालयाः समदुःखा इव तत्र चुक्रुशुः   । । ८.३९  । ।

नृपतेर्व्यजनादिभिस्तमो नुनुदे सा तु तथैव संस्थिता   ।
प्रतिकारविधानं आयुषः सति शेषे हि फलाय कल्पते   । । ८.४०  । ।

प्रतियोजयितव्यवल्लकीसमवस्थां अथ सत्त्वविप्लवाथ् ।
स निनाय नितान्तवत्सलः परिगृह्योचितं अङ्कं अङ्गनां  । । ८.४१  । ।

स निनाय नितान्तवत्सलः परिवृत्तप्रथमच्छविं क्षणाथ् ।
सलिलोद्धृतपद्मिनीनिभां दयितां अङ्कं उदशुलोचनः   । । ८.४१*  । ।

स निनाय नितान्तवत्सलः करणापायविभिन्नवर्णया   ।
समलक्ष्यत बिभ्रदाविलां मृगलेखां उषसीव चन्द्रमाः   । । ८.४२  । ।

विललाप स बाष्पगद्गदं सहजां अप्यपहाय धीरतां  ।
अभितप्तं अयोऽपि मार्दवं भजते कैव कथा शरीरिषु   । । ८.४३  । ।

कुसुमान्यपि गात्रसंगमात्प्रभवन्त्यायुरपोहितुं यदि   ।
न भविष्यति हन्त साधनं किं इवानयत्प्रहरिष्यतो विधेः   । । ८.४४  । ।

अथ वा मृदु वस्तु हिंसितुं मृदुनैवारभते प्रजान्तकः   ।
हिमसेकविपत्तिरत्र मे नलिनी पूर्वनिदर्शनं मता   । । ८.४५  । ।

स्रगियं यदि जीवितापहा हृदये किं निहिता न हन्ति मां  ।
विषं अप्यमृतं क्वचिद्भवेदमृतं वा विषं ईश्वरेच्छया   । । ८.४६  । ।

अथ वा मम भाग्यविप्लवादशनिः कल्पित एष वेधसा   ।
यदनेन तरुर्न पातितस्क्षपिता तद्विटपाश्रितलता   । । ८.४७  । ।

कृतवत्यसि नावधीरणां अपराध्हेऽपि यदा चिरं मयि   ।
कथं एकपदे निरागसं जनं आभाष्यं इमं न मन्यसे   । । ८.४८  । ।

ध्रुवं अस्मि शठः शुचिस्मिते विधितः कैतववत्सलस्तव   ।
परलोकं असंनिवृत्तये यदनापृच्छ्य गतासि मां इतः   । । ८.४९  । ।

दयितां यदि तावदन्वगाद्विनिवृत्तं किं इदं तया विना   ।
सहतां हतजीवितं मम प्रबलां आत्मकृतेन वेदनां  । । ८.५०  । ।

सुरतश्रमसंभृतो मुखे ध्रियते स्वेदलवोद्गमोऽपि ते   ।
अथ चास्तमिताऽस्यहो बत धिगिमां देहभृतां असारतां  । । ८.५१  । ।

सुरतश्रमवारिबिन्दवो न हि तावद्विरमन्ति ते मुखे   ।
कथं अस्तमिताऽस्यहो बत धिगिमां देहवतां असारतां  । । ८.५१*  । ।

मनसापि न विप्रियं मया कृतपूर्वं तव किं जहासि मां  ।
ननु शब्दपतिः क्षितेरहं त्वयि मे भावनिबन्धना रतिः   । । ८.५२  । ।

कुसुमोत्कचितान्वलीमतश्चलयन्भृङ्गरुचस्तवालकान्  ।
करभोरु करोति मारुतस्त्वदुपावर्तन्शङ्कि मे मनः   । । ८.५३  । ।

तदपोहितुं अर्हसि प्रिये प्रतिबोधेन विषादं आषु मे   ।
ज्वलितेन गुहागतं तमस्तुहिनाद्रेरिव नतं ओषधिः   । । ८.५४  । ।

इदं उच्छ्वसितालकं मुखं विश्रान्तकथं दुनोति मां  ।
निशि सुप्तं इवैकपङ्कजं विरताभ्यन्तरषट्पदस्वनं  । । ८.५५  । ।

शशिनं पुनरेति शार्वरी दयिता द्वन्द्वचरं पतत्रिणं  ।
इति तौ विर्हान्तरक्षमौ कथं अत्यन्तगता न मां दहेः   । । ८.५६  । ।

नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गं अर्पितं  ।
तदिदं विषहिष्यते कथं वद वामोरु चिताधिरोहणं  । । ८.५७  । ।

इयं अप्रतिबोधशायिनीं रशना त्वां प्रथमा रहःसखी   ।
गतिविभ्रमसाद नीरवा न शुचा नानुमृतेव लक्ष्य्ते   । । ८.५८  । ।

कलं अन्यभृतासु भाषितं कलहंसीषु गतं मदालसं  ।
पृटतीषु विलोलं ईक्षितं पवनाधूतलतासु विभ्रमः   । । ८.५९  । ।

त्रिदिवोत्सुकयाप्यवेक्ष्य मां निहिताः सत्यं अमी गुणास्त्वया   ।
विरहे तव मे गुरुव्यथं हृदयं न त्ववलम्बितुं क्षमाः   । । ८.६०  । ।

मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ   ।
अविधाय विवाहसत्क्रियां अनयोर्गम्यत इव्यसांप्रतं  । । ८.६१  । ।

कुसुमं कृतदोहदस्त्वया यदशोकोऽयं उदीरयिष्यति   ।
अलकाभरणं कथं नु तत्तव नेष्यामि निवापलाल्यतां  । । ८.६२  । ।

स्मरतेव सशब्दनूपुरं चरणानुग्रहं अन्यदुर्लभं  ।
अमुना कुसुमाश्रुवर्षिणा त्वं अशोकेन सुगात्रि शोच्यसे   । । ८.६३  । ।

तव निःश्वसितानुकारिभिर्बकुलैरर्धचितां समं मया   ।
असमाप्य विलासमेखलां किं इदं किंनरकण्ठि सुप्यते   । । ८.६४  । ।

समदुःखसुखः सखीजनः प्रतिपच्चन्द्रनिभोऽयं आत्मजः   ।
अहं एकरसस्तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः   । । ८.६५  । ।

धृतिरस्तमिता रतिश्च्युता विरतं गेयं ऋतुर्निरुत्सवः   ।
गतं आभरणप्रयोजनं परिशून्यं शयनीयं अद्य मे   । । ८.६६  । ।

गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ   ।
करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतं  । । ८.६७  । ।

मदिराक्षि मदाननार्पितं मधु पीत्वा रसवत्कथं नु मे   ।
अनुपास्यसि बाष्पदूषितं परलोकोपनतं जलाञ्जलिं  । । ८.६८  । ।

विभवेऽपि सति त्वया विना सुखं एतावदजस्य गण्यतां  ।
अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्तदाश्रयाः   । । ८.६९  । ।

विलपन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति   ।
अकरोत्पृथिवीरुहानपि स्रुतशाखारसभाष्पदुर्दिनान्  । । ८.७०  । ।

अथ तस्य कथंचिदङ्कतः स्वजनस्तां अपनीय सुन्दरीं  ।
विससर्ज कृतान्त्यमण्डनां अनलाय्ऽ आगुरुचन्दनदिहसे   । । ८.७१  । ।

प्रमदां अनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनाथ् ।
न चकार शरीरं अग्निसात्सह देव्या न तु जीविताशया   । । ८.७२  । ।

अथ तेन दशाहतः परे गुणशेषां उपदिष्य गेहिनीं  ।
विदुषा विधयो महर्द्धयः पुर एवोपवने समापिताः   । । ८.७३  । ।

स विवेश पुरीं तया विना क्षणदापायशशाङ्कदर्शनः   ।
परिवाहं इवावलोकयन्स्वशुचः पौरवधूमुखाश्रुषु   । । ८.७४  । ।

अथ तं सवनाय दिषितः प्रणिधानाद्गुरुराश्रमस्थितः   ।
अभिषङ्गजडं विजज्ञिवानिति शिष्येण किलान्वबोधयथ् । । ८.७५  । ।

असमाप्तविधिर्यतो मुनिस्तव विद्वानपि तापकारणं  ।
न भवन्तं उपस्थितः स्वयं प्रकृतौ स्थापयितुं कृतस्थितिः   । । ८.७६  । ।

मयि तस्य सुवृत्त वर्तते लघुसंदेशपदा सरस्वती   ।
शृणु विश्रुतसत्त्वसार तां हृदि चैनां उपधातुं अर्हसि   । । ८.७७  । ।

पुरुषस्य पदेष्वजन्मनः समतीतं च भवच्च भावि च   ।
स हि निष्प्रतिघेन चक्षुषा त्रितयं ज्ञानमयेन पश्यति   । । ८.७८  । ।

चरतः किल दुश्चरं तपस्तृणबिन्दोः परिशङ्कितः पुरा   ।
प्रजिघाय समाधिबेदिनीं हरिरस्मै हरिणीं सुराङ्गनां  । । ८.७९  । ।

स तपःप्रतिबन्धमन्युना प्रमुखाविष्कृतचारुविभ्रमां  ।
अशपद्भव मानुषीति तां शमवेलाप्रलयोर्मिणा मुनिः   । । ८.८०  । ।

भगवन्परवानयं जनः प्रतिकूलाचरितं क्षमस्व मे   ।
इति चोपनतां क्षितिपृशं विवशा शापनिवृत्तिकारणं  । । ८.८१  । ।

क्रथकैशिकवंशसंभवा तव भूत्वा महिषी चिराय सा   ।
उपलब्धवती दिवश्च्युतं विवशा शापनिवृत्तिकारणं  । । ८.८२  । ।

तदलं तदपायचिन्तया विपदुत्पत्तिमतां उपस्थिता   ।
वसुधेयं अवेक्ष्यतां त्वया वसुमत्या हि नृपाः कलत्रिणः   । । ८.८३  । ।

उदये मदवाच्यं उज्झता श्रुतं आविष्कृतं आत्मवत्तया   ।
मनसस्तदुपस्थिते ज्वरे पुनरक्लीबतया प्रकाश्यतां  । । ८.८४  । ।

रुदता कुत एव सा पुनर्भवता नानुमृतापि लभ्यते   ।
परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनां  । । ८.८५  । ।

रुदितेन न सा निवर्तते नृप तत्तावदन्र्थकं तव   ।
न भवाननुसंस्थितोऽपि तां लभते कर्मवशा हि देहिनः   । । ८.८५*  । ।

अपशोकमनाः कुटुम्बिनीं अनुगृह्णीष्व निवापदत्तिभिः   ।
स्वजनाश्रु किलात्रिसंततं दहति प्रेतं इति प्रचक्षते   । । ८.८६  । ।

मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितं उच्यते बुधैः   ।
क्षणं अप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ   । । ८.८७  । ।

अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यं अर्पितं  ।
स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतं  । । ८.८८  । ।

अवगच्छति मूढचेतनः श्रुत धृतसंयोगविपर्ययौ यदा   ।
विरहः किं इवानुतापयेद्वद बाह्यैर्विषयैर्विपश्चितं  । । ८.८९  । ।

न पृथग्जनवच्छुचो वशं वशिनां उत्तम गन्तुं अर्हसि   ।
द्रुमसानुमतां किं अन्तरं यदि वायौ द्वितयेऽपि ते चलाः   । । ८.९०  । ।

स तथेति विनेतुरुदारमतेः प्रतिगृह्य वचो विससर्ज मुनिं  ।
तदलब्धपदं हृदि शोकघने प्रतियातं इवान्तिकं अस्य गुरोः   । । ८.९१  । ।

तेनाष्टौ परिगमिताः समाः कथंचिद्बालत्वादवितथसूनृतेन सूनोः   ।
सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्नेषु क्षणिकसमागम्तोसवैश्च   । । ८.९२  । ।

तस्य प्रसह्य हृदयं किल शोकशङ्कुः प्लक्षप्ररोह इव सौधतलं बिभेद   ।
प्राणान्तहेतुं अपि तं भिषजां असाध्यं लाभं प्रियानुगमने त्वरया स मेने   । । ८.९३  । ।

सम्यग्विनीतं अथ वर्महरं कुमारं आदिश्य रक्षणविधौ विधिवत्प्रजानां  ।
रोगोपसृष्टतनुदुर्वसतिं मुमुक्षुः प्रायोपवेशनमतिर्नृपतिर्बभूव   । । ८.९४  । ।

तीर्थे तोयव्यतिकरभवे जह्नुकन्यासर्य्वोर्देहत्यागादमरगणनालेख्यं आसाद्य सद्यः   ।
पूर्वाकाराधिकतररुचा संगतः कान्तयासौ लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु   । । ८.९५  । ।


इति कालिदासविरचिते रघुवंशे अष्टमः सर्गः

No comments:

Post a Comment