Sanskrit Toolbar

Powered by Conduit

कालिदासविरचिते रघुवंशे ऊनविंशति: सर्गः - Raghuvamsha of Kalidas XIX

कालिदासविरचिते रघुवंशे ऊनविंशति: सर्गः

अग्निवर्णं अभिषिच्य राघवः स्वे पदे तनयं अग्नितेजसं  ।
शिश्रिये श्रुतवतां अपश्चिमः पश्चिमे वयसि नैमिषं वशी   । । १९.१  । ।

तत्र तीर्थसलिलेन दीर्घिकास्तल्पं अन्तरितभूमिभिः कुशैः   ।
सौधवासं उटजेन विस्मृतः संचिकाय फलनिःस्पृहस्तपः   । । १९.२  । ।

लब्धपालनविधौ न तत्सुतः खेदं आप गुरुणा हि मेदिनी   ।
भोक्तुं एव भुजनिर्जितद्विषा न प्रसाधयितुं अस्य कल्पिता   । । १९.३  । ।

सोऽधिकारं अभिकः कुलोचितं काश्चन स्वयं अवर्तयत्समाः   ।
तं निवेश्य सचिवेष्वतः परं स्त्रीविधेयनवयौवनोऽभवथ् । । १९.४  । ।

कामिनीसहचरस्य कामिनस्तस्य वेश्मसु मृदङ्गनादिषु   ।
ऋद्धिमन्तं अधिकर्द्धिरुत्तरः पूर्वं उत्सवं अपोहदुत्सवः   । । १९.५  । ।

इन्द्रियार्थपरिशून्यं अक्षर्मः सोढुं एकं अपि स क्षणातरं  ।
अन्तरे च विहरन्दिवानिशं न व्यपैक्षत समुत्सुकाः प्रजाः   । । १९.६  । ।

गौरवाद्यदपि जातु मन्त्रिणां दर्शनं प्रकृतिकाङ्क्षितं ददौ   ।
तद्गवाक्षविवरावलम्बिना केवलेन चरणेन कल्पितं  । । १९.७  । ।

तं कृतप्रणतयोऽनुजीविनः क्ॐअलात्मनखरागरूषितं  ।
भेजिरे नवदिवाकरातपस्पृष्टपङ्कजतुलाधिरोहणं  । । १९.८  । ।

युवनोन्नतविलासिनीस्तनक्षोभलोलकमलाश्च दीर्घिकाः   ।
गूढमोहनगृहास्तदम्बुभिः स व्यगाहत विगाढमन्मथः   । । १९.९  । ।

तत्र सेकहृतलोचनाञ्जनैर्धौतरागपरिपाटलाधरैः   ।
अङ्गनास्तं अधिकं व्यलोभयन्नर्पितप्रकृतिकान्तिभिर्मुखैः   । । १९.१०  । ।

घ्राणकान्तमधुगन्धकर्षिणीः पानभूमिरचनाः प्रियासखः   ।
अभ्यपद्यत स वासितासखः पुष्पिताः कमलिनीरिव द्विपः   । । १९.११  । ।

सातिरेकमदकारणं रहस्तेन दत्तं अभिलेषुरङ्गनाः   ।
ताभिरप्युपहृतं मुखासवं सोऽपिबद्बकुलतुल्यदोहदः   । । १९.१२  । ।

अङ्कं अङ्कपरिवर्तनोचिते तस्य निन्यतुरशून्यतां उभे   ।
वल्लकी च हृदयंगमस्वना वल्गुवागपि च वामलोचना   । । १९.१३  । ।

स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयो हरन्मनः   ।
नर्तकीरभिनयातिलङ्घिनीः पार्श्ववर्तिषु गुरुष्वलज्जवथ् । । १९.१४  । ।

चारु नृत्यविगमे च तन्मुखं स्वेदभिन्नतिलकं परिश्रमाथ् ।
प्रेमदत्तवदनानिअः मनः सोऽन्वजीवदमरालकेश्वरौ   । । १९.१५  । ।

तस्य सावरणदृष्टसंधयः काम्यवस्तुषु नवेषु सङ्गिनः   ।
वल्लभाभिरुपसृत्य चक्रिरे सामिभुक्तविषयाः समागमाः   । । १९.१६  । ।

अङ्गुलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितं  ।
मेखलाभिरसकृच्च बन्धनं वञ्चयन्प्रणयिनीरवाप सः   । । १९.१७  । ।

तेन दूतिविदितं निषेदुषा पृष्ठतः सुरतवाररात्रिषु   ।
शुश्रुवे प्रियजनस्य कातरं विप्रलम्भपरिशङ्किनो वचः   । । १९.१८  । ।

लौल्यं एत्य गृहिणीपरिग्रहान्नर्तकीष्वसुलभासु तद्वपुः   ।
वर्तते स्म स कथंचिदालिखन्नङ्गुलीक्षरणसन्नवर्तिकः   । । १९.१९  । ।

प्रेमगर्वितविपक्षमत्सरादायताच्च मदनान्महीक्षितं  ।
निन्युरुत्सवविधिच्छलेन तं देव्य उज्जितरुषः कृतार्थतां  । । १९.२०  । ।

प्रातरेत्य परिभोगशोभिना दर्शनेन कृतखण्डनव्यथाः   ।
प्राञ्जलिः प्रणयिनीः प्रसादयन्सोऽदुनोत्प्रणयमन्थरः पुनः   । । १९.२१  । ।

स्वप्नकीर्तितविपक्षं अङ्गनाः दर्शनेन कृतखण्डनव्यथाः   ।
प्रच्छदान्तगलिताश्रुबिन्दुभिः क्रोधभिन्नवलयैर्विवर्तनैः   । । १९.२२  । ।

क्ëप्तपुष्पशयनांल्लतागृहानेत्य दूतिकृतमार्गदर्शनः   ।
अन्वभूत्परिजनाङ्गनारतं सोऽवरोधभयवेपथूत्तरं  । । १९.२३  । ।

नाम वल्लभजनस्य ते मया प्राप्य भाग्यं अपि तस्य काङ्क्ष्यते   ।
लोलुपं बत मनो ममेति तं गोत्रविस्खलितं ऊचुरङ्गनाः   । । १९.२४  । ।

चूर्णबभ्रु लुलितस्रगाकुलं छिन्नमेखलं अलक्तकाङ्कितं  ।
उत्थितस्य शयनं विलासिनस्तस्य विभ्रमर्ततान्यपावृणोथ् । । १९.२५  । ।

स स्वयं चरणरागं आदधे योषितं न च तथा समाहितः   ।
लोभ्यमाननयनः श्लथांशुकैर्मेखलागुणपदैर्नितम्बिभिः   । । १९.२६  । ।

चुम्बने विपरिवर्तिताधरं हस्तरोधि रशनाविघट्टने   ।
विघ्नितेच्छं अपि तस्य सर्वतो मन्मथेन्धनं अभूद्वधूरतं  । । १९.२७  । ।

दर्पणेषु परिभोगदर्शिनीर्नर्मपूर्वं अनुपृष्ठसंस्थितः   ।
छायया स्मितमनोज्ञया वधूर्ह्रीनिमीलितमुखीश्चकार सः   । । १९.२८  । ।

कण्ठसक्तमृदुबाहुबन्धनं न्यस्तपादतलं अग्रपादयोः   ।
प्रार्थयन्त शयनोत्थितं प्रियास्तं निशात्ययविसर्गचुम्बनं  । । १९.२९  । ।

प्रेक्ष्य दर्पणतल्स्थं आत्मनो राजवेषं अतिशक्रशोभिनं  ।
पिप्रिये स न तथा यथा युवा व्यक्तलक्ष्म परिभोगमण्डनं  । । १९.३०  । ।

मित्रकृत्यं अपदिश्य पार्श्वतः प्रस्थितं तं अनवस्थितं प्रियाः   ।
विद्म हे शठ पलायनच्छलान्यञ्जसेति रुरुधुः कचग्रहैः   । । १९.३१  । ।

तस्य निर्दयरतिश्रमालसाः कण्ठसूत्रं अपदिश्ययोषितः   ।
अध्यशेरत बृहद्(?) भुजान्तरं पीवरस्तनविलुप्तचन्दनं  । । १९.३२  । ।

संगमाय निशि गूढचारिणं चारदूतिकथितं पुरो गताः   ।
वञ्चयिष्यसि कुतस्तमोवृतः कामुकेति चकृषुस्तं अङ्गनाः   । । १९.३३  । ।

योषितां उडुपतेरिवाचिषां स्पर्शनिर्वृतिं असावनाप्नुवन्  ।
आरुरोह कुमुदाकरोपमां रात्रिजागरपरो दिवाशयः   । । १९.३४  । ।

वेणुना दशनपीडिताधरा वीणया नखपदाङ्कितोरवः   ।
शिलपकार्य उभयेन वेजितास्तं विजिह्मनयना व्यलोभयन्  । । १९.३५  । ।

अङ्गसत्त्ववचनाश्रयं मिथः स्त्रीषु नृत्यं उपधाय दर्शयन्  ।
स प्रयोगनिपुणैः प्रयोक्तृभिः संजघर्ष सह मित्रसंनिधौ   । । १९.३६  । ।

अंसलम्बिकुटजार्जुनस्रजस्तस्य नीपरजसाङ्गरागिणः   ।
प्रावृषि प्रमदबर्हिणेष्वभूत्कृतिमाद्रिषु विहारविभ्रमः   । । १९.३७  । ।

विग्रहाच्च शयने पराङ्मुखीर्नानुनेतुं अबलाः स तत्वरे   ।
आचकाङ्क्ष घनशब्दविक्लवास्ता विवृत्य विशतीर्भुजान्तरं  । । १९.३८  । ।

कार्त्तिकीषु सवितानहर्म्यभाग्यामिनीषु ललिताङ्गनासखः   ।
अन्वभुङ्क्त सुरतश्रमापहां मेघमुक्तविशदां स चन्द्रिकां  । । १९.३९  । ।

सैकतं च सरयूं विवृण्वतीं श्रोणिबिम्बं इव हंसमेखलं  ।
स्वप्रियाविलसितानुकारिणीं सौधजाल्विवरैर्व्यलोकयथ् । । १९.४०  । ।

मर्मरैरगुरुधूपगन्धिभिर्व्यक्तहेमर्शनैस्तं एकतः   ।
जह्रुराग्रथनमोक्षलोलुपं हैमनैर्निव्सनैः सुमध्यमाः   । । १९.४१  । ।

अर्पितस्तिमितदीपदृष्टयो गर्भवेश्मसु निवातकुक्षिषु   ।
तस्य सर्वसुरतान्तरक्षमाः साक्षितां शिशिररात्रयो ययुः   । । १९.४२  । ।

दक्षिणेन पवनेन संभृतं प्रेक्ष्य चूतकुसुमं सपल्लवं  ।
अन्वनैषुरवधूतविग्रहास्तं दुरुत्सहवियोगं अङ्गनाः   । । १९.४३  । ।

ताः स्वं अङ्कं अधिरोप्य दोलया प्रेङ्खयन्परिजनापविद्धया   ।
मुक्तरज्जु निबिडं भयच्छलात्कण्ठबन्धनं अवाप बाहुभिः   । । १९.४४  । ।

तं पयोधरनिषक्तचन्दनैर्मौक्तिकग्रथितचारुभूषणैः   ।
ग्रीष्मवेषविधिभिः सिषेविरे श्रोणिलम्बिमणिमेखलाः प्रियाः   । । १९.४५  । ।

यत्स भग्नसहकारं आसवं रक्तपाटलसमागमं पपौ   ।
तेन तस्य मधुनिर्गमात्कृशश्चित्तयोनिरभवत्पुनर्नवः   । । १९.४६  । ।

एवं इन्द्रियसुखानि निर्विशन्नन्यकार्यविमुखः स पार्थिवः   ।
आत्मलक्षणनिवेदितानृतूनत्यवाहयदनङ्गवाहितः   । । १९.४७  । ।

तं प्रमत्तं अपि न प्रभावतः शेकुराक्रमितुं अन्यपार्थिवाः   ।
आमयस्तु रतिरागसंभवो दक्षशाप इव चन्द्रं अक्षिणोथ् । । १९.४८  । ।

दृष्टदोषं अपि तन्न सोऽत्यजत्सङ्गवस्तु भिषजां अनाश्रवः   ।
स्वादुभिस्तु विषयैर्हृतस्ततो दुःखं इन्द्रियगणो निवार्यते   । । १९.४९  । ।

तस्य पाण्डुवदनाल्पभूषणा सावलम्बगमना मृदुस्वना   ।
यक्ष्मणापि परिहानिराययौ कामयानसमवस्थया तुलां  । । १९.५०  । ।

व्य्ॐअ पश्चिमकलास्थितेन्दु वा पङ्कशेषं इव घर्मपल्वलं  ।
राज्ञि तत्कुलं अभूत्क्षयातुरे वामनार्चिरिव दीपभाजनं  । । १९.५१  । ।

बाढं एषु दिवसेषु कर्म साधयति पुत्रजन्मने   ।
इत्यदर्शितरुजोऽस्य मन्त्रिणः शश्वदूचुरघशङ्किनीः प्रजाः   । । १९.५२  । ।

स त्वनेकवनितासखोऽपि सन्पावनीं अनवलोक्य संततिं  ।
वैद्ययत्नपरिभाविनं गदं न प्रदीप इव वायुं अत्यगाथ् । । १९.५३  । ।

तं गृहोपवन एव संगताः पश्चिमक्रतुविदा पुरोधसा   ।
रोगशान्तिं अपदिश्य मन्त्रिणः संभृते शिखिनि गूढं आदधुः   । । १९.५४  । ।

तैः कृतप्रकृतिमुख्यसंग्रहैराशु तस्य सहधर्मचारिणी   ।
साधु दृष्टशुभगर्भलक्षणा प्रत्यपद्यत नराधिपश्रियं  । । १९.५५  । ।

तस्यास्तथाविधनरेन्द्रविपत्तिशोकादुष्णैर्विलोचनजलैः प्रथमाभितप्तः   ।
निर्वापितः कनककुम्भमुखोज्झितेन वंशाभिषेकविधिना शिशिरेण गर्भः   । । १९.५६  । ।

तं भावाय प्रसवसमयाकाङ्क्षिणीनां प्रजानां अन्तर्गूढं क्षितिरिव बभौ बीजमुष्टिं दधाना   ।
मौलैः सार्धं स्थविरसचिवैर्हेमसिंहासनस्था राज्ञी राज्यं विधिवदशिषद्भर्तुरव्याहताज्ञा   । । १९.५७  । ।

इति कालिदासविरचिते रघुवंशे ऊनविंशति सर्गः

3 comments:

  1. अत्‍यन्‍तं साधुकार्यमेतदस्ति मित्र । किं सम्‍पूर्णं कालिदासकृतरघुवंश प्रकाश्‍यते भवता अत्र । यदि आज्ञां ददाति चेत् संस्‍कृतजगति अपि प्रकाशयानि भवता नाम्‍ना ।

    आनन्‍द पाण्‍डेय:

    ReplyDelete
  2. धन्यवादाः मित्राय आनन्दाय ।

    रघुवंशः १९ सर्गेण समाप्तः एव । अथ, यदि भवान् संस्कृतजगति प्रकटयितुं इष्यति तत्र सन्देहस्य कः अवकाशः ? भवान् संस्कृतप्रचारप्रसारकार्यक्रमेषु कियत्पर्यन्तं मग्नः इति ...आनन्देन अनन्दं कथं अभिनन्देयम् ?

    इतोपि सर्वे संस्कृतग्रन्थाः http://sanskritworld.in/unicode-sanskrit-books/ इत्यत्र लभन्ते ॥

    ReplyDelete
  3. धन्‍यवादा:
    सम्‍प्रति एव एतेषां प्रकाशनं संस्‍कृतजगति कारयामि ।

    ReplyDelete