माघकृते शिशुपालवधमहाकाव्ये नवमः सर्गः Shishupala Vadha of Magha 9th Sarga

अभितापसंपदमथोष्णरुचिर्निजतेसामसहमान इव   ।
पयसि प्रपित्सुरपराम्बुनिधेरधिरोढुमस्तगिरिमभ्यपतथ् । । ९.१  । ।

गतया पुरः प्रतिगवाक्षमुखं दधती रतेन भृशमुत्सुकतां  ।
मुहुरन्तारालभुवमस्तगिरेः सवितुश्च योषिदमिमीत दृशा   । । ९.२  । ।

विरलात पच्छविरनुष्णवपुः परितो विपाण्डु दधदभ्रशिरः   ।
अभवद्गतः परिणतिं शिथिलः परमन्दसूर्यनयनो दिवसः   । । ९.३  । ।

अपराह्नशीतलतरेण शनैरनिलेन लोलितलताङ्गुलये   ।
निलयाय शाखिन इवाह्रयते दुदुराकुलाः खगकुलानि गिरः   । । ९.४  । ।

उपसंध्यमास्त तनु सानुमतः शिखरेषु तत्क्षणमशीतरुचः   ।
करजालमस्तमयेऽपि सतामुतितं खलूच्चतरमेव पदं  । । ९.५  । ।

प्रतिकूलमुपगते हि विधौ विफलत्वमेति बहुसाधनता   ।
अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि   । । ९.६  । ।

नवकुङ्कुमारुणपयोधरया स्वकरावसक्तरुचिराम्बरया   ।
अतिसक्तिमेत्य वरुणस्य दिशा भृशमन्वरज्यदतुषारकरः   । । ९.७  । ।

गतवत्यराजत जपाकुसुमस्तबकद्युतौ दिनकरेऽवनतिं  ।
बहलानुरागकुरुविन्ददलप्रतिबद्धमध्यमिव दिग्वलयं  । । ९.८  । ।

द्रुतशातकुम्भनिभमंशुमतो वपुरर्धमग्नवपुषः पयसि   ।
रुरुचे विरिञ्चिनखभिन्नबृहद्दणडकैकतरखण्डमिव   । । ९.९  । ।

अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरं  ।
निरकासयद्रविमपेतवसुं वियदालयादपरदिग्गणिका   । । ९.१०  । ।

अभितिग्मरश्मि चिरमविरमादवधानखिन्नमनिमेषतया   ।
विगलन्नमधुव्रतकुलाश्रुजलं न्ममीलदब्जनयनं नलिनी   । । ९.११  । ।

अविभाव्यतारकमदृष्टहिमद्युतिबिम्बमस्तमितभानु नभः   ।
अवसन्नतापमतमिस्रमभादपदोषतैव विगुणस्य गुणः   । । ९.१२  । ।

रुचिधाम्नि भर्तरि भृशं विमलाः परलोकमभ्युपगते विवशुः   ।
ज्वलनं त्विषः कथमितरथा सुलभोऽन्यजन्मनि स एव पतिः   । । ९.१३  । ।

विहिताञ्जलिर्जनतया दधती विकसत्कुसुम्भकुसुमारुणतां  ।
चिरमुज्झितापि तनुरौज्झदसौ न पितृप्रसूः प्रकृतिमात्मभुवः   । । ९.१४  । ।

अथ सान्द्रसान्ध्यकिरणारुणितं हरिहेतिहूति मिथुनं पततोः   ।
पृथगुत्पपात विरहार्तिदलद्धृदयस्रुतासृगनुलिप्तमिव   । । ९.१५  । ।

निलयः श्रियः सततमेतदिति प्रथितं यदेव जलजन्म तया   ।
दिवसात्ययात्तदपि मुक्तमहो चपलाजनं प्रति न चोद्यमदः   । । ९.१६  । ।

दिवसोऽनुमित्रमगमद्वलयं किमिहास्यते बत मयाबलया   ।
रुचिभर्तुरस्य विरहाधिगमादिति संध्ययापि सपदि व्यगमि   । । ९.१७  । ।

पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोषित इवाम्बुनिधौ   ।
अथ नागयूथमलिनानि जगत्परितस्तमांसि परितस्तरिरे   । । ९.१८  । ।

व्यसरन्नु भूधरगुहान्तरतः पचलं बहिर्भहलपङ्करुचि   ।
दिवसावसानपटुनस्तमसो बहिरेत्य चाधिकमभक्त गुहाः   । । ९.१९  । ।

किमलम्बताम्बरविलग्नमधः किमवर्धतोर्ध्वमवनीतलतः   ।
विससार तिर्यगथ दिग्भ्य इति प्रचुरीभवन्न निरधारि तमः   । । ९.२०  । ।

स्थगिताम्बरक्षितितले परितस्तिमिरे जनस्य दृशमन्धयति   ।
दधिरे रसाञ्जनमपूर्वतः प्रियवेश्मवर्त्म सुदृशो ददृशुः   । । ९.२१  । ।

अवधार्य कार्यगुरुतामभवन्न भयाय सान्द्रतमसन्तमसं  ।
सुतनोः स्तनौ च दयितोपगमे तनुर्ॐअराजिपथवेपथवे   । । ९.२२  । ।

ददृशेऽपि भास्कररुचाह्नि न यः स तमीं तमोबिरभिगम्य ततां  ।
द्युतिमग्रहीद्ग्रहगणो लघवः प्रकटीभवन्ति मलिनाश्रयतः   । । ९.२३  । ।

अनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु धीपशिखाः   ।
समयेन तेन चिरसुप्तमनोभवबोधनं सममबोधिषत   । । ९.२४  । ।

वसुधान्तनिःसृतमिवाहिपतेः पटलं फणामणिसहस्ररुचां  ।
स्फुरदंशुजालमथ शीतरुचः ककुभं समस्कुरुत माधवनीं  । । ९.२५  । ।

विशदप्रभापरिगतं विबभावुदयाचलव्यवहितेन्दुवपुः   ।
मुखमप्रकाशदशनं शनकैः सविलासहासमिव शक्रदिशः   । । ९.२६  । ।

कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमिरौघजटं  ।
क्षणमभ्यपद्यत जनैर्न मृषा गगनं गणादिपतिमूर्तिरिति   । । ९.२७  । ।

नवचन्द्रकाकुसुमकीर्णतमःकबरीभृतो मलयजार्द्रमिव   ।
ददृशे ललाटतटहारि हरेर्हरितो मुखे तुहिनरश्मिदलं  । । ९.२८  । ।

प्रथमं कलाभवदथार्धमथो हिमदीधितिर्महदभूदुदितः   ।
दधति ध्रुवं क्रमश एव न तु द्युतिशालिनोऽपि सहसोपचयं  । । ९.२९  । ।

उदमज्जि कैटभजितः शयनादपनिद्रपाण्डुरसरोजरुचा   ।
प्रथमप्रबुद्धनदराजसुतावदनेन्दुनेव तुहिनद्युतिना   । । ९.३०  । ।

अथ लक्षमणागतकान्तवपुर्जलधिं विलङ्घ्य शशिदाशरथिः   ।
परिवारितः परित ऋक्षगणैस्तिरौघराक्षसकुलं बिभिदे   । । ९.३१  । ।

उपजीवति स्म सततं दधतः परिमुग्धतां वणिगिवोडुपतेः   ।
घनवीथवीथिमवतीर्णवतो निधिरम्भसामुपचयाय कलाः   । । ९.३२  । ।

रजनीमवाप्य रुचमाप शशी सपदि व्यभूषयदसावपि तां  ।
अविलम्बितक्रममहो महतामितरेतरकृतिमच्चरितं  । । ९.३३  । ।

दिवसं भृशोष्णरुचिपादहतां रुदतीमिवानवरतलिरुतैः   ।
मुहुरामृशन्मृगधरोऽग्रकरैरुदशिस्वसत्कुमुदिनीवनितां  । । ९.३४  । ।

प्रतिकामिनीति ददृशुश्चकिताः स्मरजन्मघर्मपयसोपचितां  ।
सुदृशोभिभर्तृशशैरश्मिगलज्जलबिन्दुमिन्दुमणिदारुवधूं  । । ९.३५  । ।

अमृतद्रवैर्विदधब्जदृशाममपमार्गमोषधिपतिः स्म करैः   ।
परितो विसर्पि परितापि भृशं वपुषोऽवतारयति मानविषं  । । ९.३६  । ।

अमलात्मसु प्रतिफलन्नभितस्तरुणीकपोलफलकेषु मुहुः   ।
विससार सान्द्रतरमिन्दुरुचामधिकावभासितदिशां निकरः   । । ९.३७  । ।

उपगूढवेलमलघूर्मिभुजैः सरितामचुक्षुपदधीशमपि   ।
रजनीकरः किमिव चित्रमदो यदुरागिणां गणमनङ्गलघुं  । । ९.३८  । ।

भवनोदरेषु  परिमन्दतया शयितोऽलसः स्फटिकयष्टिरुचः   ।
अवलम्ब्य जालकमुखोपगतानुदतिष्ठदिन्दुकिरणान्मदनः   । । ९.३९  । ।

अविभावितेषुविषयः प्रथमं मदनोऽपि नूनमभवत्तमसा   ।
उदिते दिशः प्रकटयत्यमुना यदघर्मधाम्नि धनुराचकृषे   । । ९.४०  । ।

युगपद्विकासमुदयाद्गमिते शशिनः शिलीमुखगणोऽलभत   ।
द्रुतमेत्य पुष्पधनुषो धनुषः कुमुदेऽङ्गनामनसि चावसरं  । । ९.४१  । ।

ककुभां मुखानि सहसोज्ज्वलयन्दधदाकुलत्वमधिकं रतये   ।
अदिदीपदिन्दुरपरो दहनः कुसुमेषुमत्रिनयनप्रभवः   । । ९.४२  । ।

इति निश्चितप्रियतमागतयः सितदीधितावदयवत्यबलाः   ।
प्रतिकर्म कर्तुमुचक्रमिरे समये हि सर्वमुपकारि कृतं  । । ९.४३  । ।

सममेकमेव दधतुः सुतनोरु हारभूषणमुरोजतटौ    ।
घटते हि संहततया जनितामिदमेव निर्विरतां दधतोः   । । ९.४४  । ।

कदलीप्रकाण्डरुचिरोरुतरौ जघनस्थलीपरिसरे महति   ।
रशनाकलापकगुणेन वधूर्मकरध्वजद्विरदमाकलयथ् । । ९.४५  । ।

अदरेष्वलक्तकरसः सुदृशां विशदं कपोलभुवि लोध्ररजः   ।
नवमञ्जनं नयनपङ्कजयोर्बिभिदे न शङ्खनिहितात्पयसः   । । ९.४६  । ।

स्फुरदुज्वलाधरदलैर्विसद्दशनांशुकेशकरैः परितः   ।
धृतमुग्धगण्डफलकैर्विबभुविकसद्भिरास्यकमलैः प्रमदाः   । । ९.४७  । ।

भजते विदेशमधिकेन जितस्तदनुप्रवेशमथवा कुशलः   ।
मुखमिन्दुरुज्ज्वलकपोलमतः प्रतिमाच्छलेन सुदृशामविशथ् । । ९.४८  । ।

ध्रुवमागताः प्रतिहतिं कठिने मदनेषवः कुचतटेमहति   ।
इतराङ्गवन्न यदिदं गरिमग्लपितावलग्नमगमत्तनुतां  । । ९.४९  । ।

न मनोरमास्वपि विशेषविदां निरचेष्ट योग्यमिदमिति   ।
गृहमेष्यति प्रियतमे सुदृशां वसनाङ्गरागसुमनःसु मनः   । । ९.५०  । ।

वपुरन्वलिप्त परिरम्भसुखव्यवधानभीरुकतया न वधूः   ।
क्षमस्य वाढमिदमेव हि यत्प्रियसंगमेष्वनवलेपमदः   । । ९.५१  । ।

निजपाणिपल्लवतलस्खलनादभिनासिकविवरमुत्पतितैः   ।
अपरा परीक्ष्य शनकैर्मुमुदे मुखवासमास्यकमलश्वसनैः   । । ९.५२  । ।

विधृते दिवा सवयसा च पुरः परिपूर्णमण्डलविकाशभृति   ।
हिमधाम्नि दर्पणतले च मुहुः स्वमुखश्रियं मृगदृशो ददृशुः   । । ९.५३  । ।

अधिजानु बाहुमुपधाय नमत्करपल्लवार्पितकपोलतलं  ।
उदकण्ठि कण्ठपरिवर्तिकलस्वरसून्यगानपयापरया   । । ९.५४  । ।

प्रणयप्रकाशनविदो मधुराः सुतरामभीष्टजनचित्तहृतः   ।
प्रजिघाय कान्तमनु मुग्धतरस्तरुणीजनो दृश इवाथ सखीः   । । ९.५५  । ।

न च मेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि   ।
निपुणं तथैनमुपगम्य वदेरभिदूति काचिदिति संदिदिशे   । । ९.५६  । ।

दयितया मानपरयापरया त्वरितं ययावगदितापि सखी   ।
किमु चोदिताः प्रियहितार्थकृतः कृतिनो भवन्ति सुहृदः सुहृदां  । । ९.५७  । ।

प्रतिभिद्य कान्तमपराधकृतं यदि तावदस्य पुनरेव मया   ।
क्रियतेऽनुवृत्तिरुचितैव ततः कलयेदमानमनसं सखि मां  । । ९.५८  । ।

अवधीर्य धैर्यकलिता दयितं विदधे विरोधमथ तेन सह   ।
तव गोप्यते किमिव कर्तुमिदं न सहास्मि साहसमसाहसिकी   । । ९.५९  । ।

तदुपेत्य मा स्म तमुपालभथाः क्ल दोषमस्य न हि विद्म वयं  ।
इति सम्प्रधार्य रमणाय वधूर्विहितागसेऽपि विससर्ज सखीं  । । ९.६०  । ।

ननु सन्दिशेति सुदृशोदितया त्रपया न किञ्चन किलाभिदधे   ।
निजमैक्षि मन्दमनिशं निशितैः क्रशितं शरीरमशीरशरैः   । । ९.६१  । ।

ब्रुवते स्म दूत्य उपसृत्य नरान्तरवत्प्रगल्भमतिगर्भगिरः   ।
सुहृदर्थमीहितमजिह्मधियां प्रकृतेर्विराजति विरुद्धमपि   । । ९.६२  । ।

मम रूपकीर्तिमहरद्भुवि यस्तदनु प्रविष्टहृदयेयमिति   ।
त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः   । । ९.६३  । ।

तव सा कथासु परिघट्टयति श्रवणं यदङ्गुलिमुखेन मुहुः   ।
घनतां ध्रुवं नयति तेन भवद्गुणपूगपूरितमतृप्ततया    । । ९.६४  । ।

उपतप्यमानमलघूष्णिभिः श्वसितैः सितेतरसरोजदृशः   ।
द्रवतां न नेतुमधरं क्षमते नवनागवल्लिदलरागरसः   । । ९.६५  । ।

दधति स्फुटं रत्पतेरिषवः शिततां यदुत्पलपलाशदृशः   ।
हृदयं निरन्तरबृहत्कठिनस्तनमणडलावरणमप्यभिदन्  । । ९.६६  । ।

कुसुमादपि स्मितदृशः सुतरां सुकुमारमङ्गमिति नापरथा   ।
अनिशं निजैरकरुणः करुणं कुसुमेषुरुत्तपाति यद्विशिखैः   । । ९.६७  । ।

विषतां निषेवितमपक्रियया समुपैति सर्वमिति सत्यमदः    ।
अमृतुतस्रुऽपि विरहाद्भवतो यदमूं दहन्ति हिमरश्मिरुचः   । । ९.६८  । ।

उदितं प्रियां प्रति सहार्दमिति श्रदधीयत प्रियतमेन वचः   ।
विदितेङ्गिते हि पुर एव जने सपदीरिताः खलु लगन्ति गिरः   । । ९.६९  । ।

दयिताहृतस्य युवभिर्मनसः परिमूढतामिव गतैः प्रथमं  ।
उदिते ततः सपदि लब्धपदैः क्षणदाकरेऽनुपदिभिः प्रयये   । । ९.७०  । ।

निपपात सम्भ्रमभृतः श्रवणादसितभ्रुवः प्रणदितासिकुलं  ।
दयितावलोकविकसन्नयनप्रसरप्रणुन्नमिव वारिरुहं  । । ९.७१  । ।

उपनेतुमुन्नतिमतेव दिवं कुचयोर्युगेन तरसा कलितां  ।
रभसोत्थितामुपगतः सहसा परिरभ्य कञ्चन वधूमरुधथ् । । ९.७२  । ।

अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता   ।
मुकुरेण वेपथुभृतोऽतिभरात्कथमप्यपाति न वधूकरतः   । । ९.७३  । ।

अवनम्य वक्षसि निमग्नकुचद्वितयेन गाढमुपगूढवता   ।
दयितेन तत्क्षणचलद्रशनाकलकिङ्किणीरवमुदासि वधूः   । । ९.७४  । ।

कररुद्धनीवि दयितोपगतौ गलितं त्वराविरहितासनया   ।
क्षणदृष्टहाटकशिलासदृशस्फुरदूरुभित्ति वसनं ववसे   । । ९.७५  । ।

पिदधानमन्वगुपगम्य दृशौ ब्रुवते जनाय वद कोऽयमिति   ।
अभिधातुमध्यवससौ न गिरा पुलकैः प्रियं नववधून्यगदथ् । । ९.७६  । ।

उदितोरुसादमतिवेपथुमत्सुदृशोऽभिभर्तृ विधुरं त्रपया   ।
वपुरादरातिशयशंसि  पुनः प्रतिपत्तिमूढमपि वाढमभूथ् । । ९.७७  । ।

पिमन्धराभिरलघूरुभरादधिवेश्म पत्युरुपचारविधौ   ।
स्खलिताभिरप्यनुपदं प्रमदाः प्रणयातिभूमिमगमन्गतिभिः   । । ९.७८  । ।

मधुरान्नतभ्रू ललितं च दृशोः सकरप्रयोगचतुरं च वचः   ।
प्रकृति स्थमेव निपुणागमितं स्फुचनृत्तलीलमभवत्सुतनोः   । । ९.७९  । ।

तदयुक्तमङ्ग तव विश्वसृजा न कृतं यदीक्षणसहस्रतयं  ।
प्रकटीकृता जगति येन खलु स्फुटमिन्द्रताद्य मयि गोत्रभिदा   । । ९.८०  । ।

न विभावयत्यनिशमक्षिगतामपि मां भवानतिसमीपतया   ।
हृदयस्थितामपि पुनः परितः कथमीक्षते बहिरभीष्टतामां  । । ९.८१  । ।

इति गन्तुमिच्छुमभिधाय पुरः क्षणदृष्टिपातविकसद्वदनां  ।
स्वकरावलम्बनविमुक्तगलत्कलकाञञ्चि काञ्चिदरुणत्तरुणः   । । ९.८२  । ।

अपयाति सरोषया निरस्ते कृतकं कामिनि चुक्षुषे मृगाक्ष्या   ।
कलयन्नपि सव्यथोऽवतस्थेऽशकुनेन स्खलितः किलेतरोऽपि   । । ९.८३  । ।

आलोक्य प्रियतममंशुके विनीवौ यत्तस्थे नामितमुखेन्दु मानवत्या   ।
तन्नूनं पदमवलोकयांबभूवे मानस्य द्रुतमपयानमास्थितस्य   । । ९.८४  । ।

सुदृशः सरसव्यलीक तप्तस्तरसास्लष्टवतः सयौवनोष्मा   ।
कथमप्यभवत्स्मरानलोष्मणः स्तनभारो न नखंपचः प्रियस्य   । । ९.८५  । ।

दधत्युरोजद्वयमुर्वशीतलं भुवो गतेव स्वयमुर्वशी तलं  ।
बभौ मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च न   । । ९.८६  । ।

इत्थं नारीर्घटयितुमलं कामिभिः काममासन्प्रालेयांशोः सपदि रुचयः शान्तमानान्तरायाः   ।
आचार्यत्वं रतिषु विलसन्मन्मथश्रीविलासा ह्रीप्रत्यूहप्रशमकुशलाः शीधवश्चक्रुरासां  । । ९.८७  । ।


इति माघकृते शिशुपालवधमहाकाव्ये नवमः सर्गः

_____________________________________________________________

No comments:

Post a Comment