माघे प्रथमसर्गः - Shishupalavadha of Magha -1Cantoo

माघ शिशुपालवधम्‌

माघकृते शिशुपालवधमहाकाव्ये प्रथमः सर्गः


श्रियः पति श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि   ।
वसन्ददर्शावतरन्तमम्बराद्धिरण्यगर्भाङ्गभुवं मुनिं हरिः   । । १.०१  । ।

गतं तिरश्चीनमनूरुसारधेः प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः   ।
पतत्यधो धाम विसारि सर्वतः किमेदतित्याकुलमीक्षितं जनैः   । । १.०२  । ।

चयस्तविषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिं  ।
विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः   । । १.०३  । ।

नवानधोऽधो बृहतः पयोधरान्समूढकर्पूरपरागपाण्डुरं  ।
क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना स्फुटोपमं भूतिसितेन शम्घुना   । । १.०४  । ।

दधानमम्भोरुहकेसरद्युतीर्जटाः शरच्चन्द्र मरीचिरोचिषं  ।
विपाकस्तुङ्गास्तुहिनस्थलीरुहो धरादरेन्द्रं व्रततीततीरिव   । । १.०५  । ।

पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्नद्युति   ।
सुवर्मसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुं  । । १.०६  । ।

विहङ्गराजाङ्गरुहैरिवायतैर्हिरण्मयोर्वीरुहवल्लितत्नुभिः   ।
कृतोपवीतं हिमशुभ्रमुच्चकैर्घनं घनान्ते तटितां गणैरिव   । । १.०७  । ।

निसर्गचित्रोज्वलसूक्ष्मपक्ष्मणा लसद्बिसच्छेदसिताङ्गसङ्गिना   ।
चकासतं चारुचमूरुचर्मणा कुथेन नागेन्द्रमिवेन्द्रवाहनं  । । १.०८  । ।

अजस्रमास्फालितवल्लकीगुणक्षतोज्वलाङ्गुष्ठनखांशुभिन्नया   ।
पुरः प्रवालैरिव पूरितार्धया विभान्तमच्छस्फटिकाक्षमालया   । । १.०९  । ।

रणद्भिराघट्टनया नभस्वतः पृथग्विभिन्नश्रुतिमण्डलैः स्वरैः   ।
स्फुटीभवद्ग्रामविशेषमूर्च्छनामवेक्षमाणं महतीं मुहुर्मुहुः   । । १.१०  । ।

निवर्त्य सोऽनुव्रजतः कृतानतीनतीन्द्रयज्ञाननिधिर्नभः सदः   ।
समासदत्सादितदैत्यसंपदः पदं महेन्द्रलायचारु चक्रिणः   । । १.११  । ।

पतत्पतङ्गप्रतिमस्तपोनिधिः पुरोऽस्य यावन्न भुवि व्लीयत   ।
गिरेस्तडित्वानिव तावदुच्चकैर्जवेन पीठादुतिष्ठदच्युतः   । । १.१२  । ।

अथ प्रयत्नोन्नमितानत्फणैर्धृते कथञ्चित्फणिनां गणैरधः   ।
न्यधायिषातामभि देवकीसुतं सुतेन धातुश्चरणौ भुवस्तले   । । १.१३  । ।

तमर्घ्यमर्घ्यादिकयादिपुरुषः सपर्यया साधु स पर्यपूजयथ् ।
गृहानुपैतुं प्रणयादभीप्सवो भवन्ति नापुण्यकृतां मनीषिणः   । । १.१४  । ।

न यावदेतावुदपश्यदुत्थितौ जनस्तुषाराञ्जनपर्वताविव   ।
स्वहस्तदत्ते मुनिमासने मुनिश्चिरंस्तावदभिन्यवीविशथ् । । १.१५  । ।

महामहानीलशिलारुचः पुरो निषेदिवान्कंसकृषः स विष्टरे   ।
श्रितोदयाद्रेरभिसायमुच्चकैरचूचुरच्चन्द्रमसोऽभिरामतां  । । १.१६  । ।

विधाय तस्यापचितिं प्रसेदुषः प्रकाममप्रीयत यज्वनां प्रियः   ।
ग्रहीतुमार्यान्परिचर्यया मुहुर्महानुभावा हि नितान्तमर्थिनः   । । १.१७  । ।

अशेषतीर्थोपहृताः कमण्डलोर्निधाय पाणावृषीणाभ्युदीरिताः   ।
अघौघविध्वंसविधौ पटीयसीर्नतेन मूर्द्ना हरिरग्रहीदापः   । । १.१८  । ।

स काञ्चने यत्र मुनेरनुज्ञया नवाम्बुदशयामवपुर्न्यविक्षत   ।
जिगाय जम्बूजनितश्रियः श्रियं सुमेरुशृङ्गस्य तदा तदासनं  । । १.१९  । ।

स तप्ताकार्तस्वरभास्वराम्बरः कठोरधाराधिपलाञ्छनच्छविः   ।
विदिद्युते बाडवजातवेदसः शिखाभिराश्लिष्ट इवाम्भसां निधिः   । । १.२०  । ।

रथाङ्गपाणेः पटलेन रोचिषामृषित्विषः संवलिता विरेजिरे   ।
चलत्पलाशान्तरगोचरस्तरोतुषारमूर्तेरिव नक्तमंशवः   । । १.२१  । ।

प्रफुल्लतापिच्छनिभैरभीषुभिः शुभैश्च सप्तच्छदपांसुपाण्डुभिः   ।
परम्परेण च्छुरितामलच्छवी तदेकवर्णाविव तौ बभूवतुः   । । १.२२  । ।

युगान्तकालमतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत   ।
तनौ ममुस्तत्र न कैटभद्विषस्तपोधनभ्यागमसंभवा मुदः   । । १.२३  । ।

निदाधधामानमिवाधिदीधितिं मुदाविकासं मुनिमभ्युपेयुषी   ।
विलोचने बिभ्रदधिश्रितश्रिणी स पुण्डराकाक्ष इति स्फुटाभवथ् । । १.२४  । ।

सितंसितिम्ना सुतरां मुनेर्वपुः विसारिभिः सौधमिवाथ लम्भयन्  ।
द्विजावलिव्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः   । । १.२५  । ।

हरत्यघं संप्रति हेतुरेष्यतः शुभस्य पूर्वाचरितै कृतरं शुभै   ।
शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यतां  । । १.२६  । ।

जगत्पर्याप्तसहस्रभानुना न यन्नियन्तुं समभावि भानुना   ।
प्रसह्य तेजोभिरसंख्यतां गतैरदस्त्वया नुन्नमनुत्तमं तमः   । । १.२७  । ।

कृतः प्रजाक्षेमकृता प्रजासृजा सुपात्रनिक्षेनिराकुलात्मना   ।
सदोपयोगेऽपि गुरुस्त्वमक्षयो निधिः श्रुतीनां धनसंपदामिव   । । १.२८  । ।

विलोकनेनैव तवामुना मुने कृतः कृतार्थोस्मि निबर्हितांहसा   ।
तथापिशुश्रूषुरहं गरीयसीर्गिरोऽथवा श्रेयसि केन वा तृप्यते   । । १.२९  । ।

गतस्पृहोऽप्यागमनप्रयोजनं वदेति वक्तुं व्यवसीयते यया   ।
तनोति नस्तामुदित्मगौरवो गुरुस्तवैवागम एव धृष्यतां  । । १.३०  । ।

इतिब्रुवन्तं उवाच स व्रती न वाच्यमित्थं पुरुषोत्तम त्वया   ।
त्वमेव साक्षात्करणीय इत्यतः किमस्ति कार्यं गुरु योगिनामपि   । । १.३१  । ।

उदीर्णरागप्रतिरोधकं जनैरभीक्ष्णमक्षुण्णतयातिदुर्गमं  ।
उपेयुष्ॐओक्षपथं मनस्विनस्त्वमग्रमूर्तिर्निरपायसंश्रया   । । १.३२  । ।

उदासितारं निग्रहीतमानसैर्गृहीतमध्यात्मदृशा कथञ्चन   ।
बहिर्विकरं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरुषं पुराविदः   । । १.३३  । ।

निवेशयामासिथ हेलयोद्धृतं फणाभृतां छादनमेकमोकसः   ।
जगतैकस्थपतिस्त्वमुच्चकैरहीश्वरस्तम्भशिरःसुभूतलं  । । १.३४  । ।

अनन्यगुर्वास्तव केन केवलः पुराणमूर्तेमहिमावगम्यते   ।
मनुष्यजन्मापि सुरासुरान्गुणैर्भवान्भवच्छेदकरै करोत्यधः   । । १.३५  । ।

लघूकरिष्यन्नतिभारभङ्गुराममूं किल त्वं त्रिदिवादवातरः   ।
उदूढलोकत्रितयेन सांप्रतं गुरुर्धरित्री क्रियतेतरां त्वया   । । १.३६  । ।

निजोजसोज्जासयितुं जगद्रहामुपजिहीथा न महीतले यदि   ।
समाहितैरप्यनिरूपितस्ततः पदं दृशः स्याः कथं ईश मादृशां  । । १.३७  । ।

उपप्लुतं पातुमदो मदोद्धतैस्त्वमेव विश्वंभर विश्वमीशिषे   ।
ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं तमः   । । १.३८  । ।

करोति कंसादिमहीभृतां वधाज्जनो मृगाणामिव यत्तव स्तवं  ।
हरे हिरण्याक्षपुरःसरासुरद्विपद्विषः प्रत्युत सा तिरस्क्रिया   । । १.३९  । ।

प्रवृत्त एव स्वयमुज्झिश्रमः क्रमेण पेष्टुं भुवनद्वषामसि   ।
तथापि वाचालतया युनक्ति मां मिथस्त्वदाभाषणलोलुपं मनः   । । १.४०  । ।

तदिन्द्रसंदिष्टमुपेन्द्र यद्वचः क्षणं मया विश्वजनीनमुच्यते   ।
समस्तकार्येषु गतेन धुर्यतामहिद्विषस्तद्भवता निशम्यतां  । । १.४१  । ।

अभूदभूमि प्रतिपक्षजन्मनां भियां तनूजस्पनद्युतिर्दितेः   ।
यमिन्द्रशब्दार्थनिषूदनं हरेर्हरण्यपूर्वं कशिपुं प्रचक्षते   । । १.४२  । ।

समत्सरेणासुर इत्युपेयुषा चिराय नाम्नः प्रथमाभिधेयतां  ।
भयस्यपूर्वावतरस्तरस्विना मनस्तु येन द्युसदां न्यधीयत   । । १.४३  । ।

दिशामधीशांश्चतुरो यतः सुरानपास्य तं रागाहृताः सिषेविरे   ।
अवापुरारभ्य ततश्चला इति प्रवादमुच्चैरयशस्करं श्रियः   । । १.४४  । ।

पुराणि दुर्गाणि निशातमायुधं बलानि शूराणि घनाश्चकञ्चुकाः   ।
स्वरूपशोभैकफलानि नाकिनां गणैर्यमाशङ्क्य तदादि चक्रिरे   । । १.४५  । ।

स संचरिष्णु भुवनान्तरेषु यां यदृच्छयाशिश्रियादाश्रयः श्रियः   ।
अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः   । । १.४६  । ।

सटाच्छटभिन्नघनेन बिभ्रता नृसिंह सैंहीमतनुं तनुं त्वया   ।
स मुग्धकान्तास्तनसङ्गभङ्गुरैरुरोविदारं प्रतिचस्किरे नखैः   । । १.४७  । ।

विनोदमिच्छन्नथ दर्पजन्मनो रणेन कण्ड्वास्त्रिदशै समं पुनः   ।
स रावणो नाम निकामभीषणं बभूव रक्षः क्षतरक्षणं दिवः   । । १.४८  । ।

प्रभुर्बुभूषुर्भुवनत्रयस्य यः शिरोऽतिरागाद्दशमं चिकर्तिषुः   ।
अतर्कयद्विघ्नमिवेष्टसाधसः प्रसादमिच्छासद्दृशं पिनाकिनः   । । १.४९  । ।

समुत्क्षिपन्यः पृथिवीभृतां वरं वरप्रदानस्य चकार शूलिनः   ।
त्रसत्तुषाराद्रिसुताससंभ्रमस्वयङ्ग्रहाश्लेषसुखेन निष्क्रयं  । । १.५०  । ।

पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः   ।
विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिवः   । । १.५१  । ।

सलीलयातानि न भर्तुरभ्रमोर्न चित्रमुच्चैश्रवसः पदक्रमं  ।
अनुद्रुतः संयति येन केवलं बलस्य शत्रुः प्रशशंस शीघ्रतां  । । १.५२  । ।

अशुक्नुवन्सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनं  ।
प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यद्दिवसानि कौशिकः   । । १.५३  । ।

बृहच्छलानिष्ठुरकण्ठघट्टनाविकीर्णलोलाग्निकणं सुरद्विषः   ।
जगत्प्रभोरप्रसिहिष्णु वैष्णवं न चक्रमस्याक्रमताधिकन्धरं  । । १.५४  । ।

बिभिन्नशङ्खः कलुषीभवन्मुहुर्मदेन दन्तीव मनुष्यधर्मणः   ।
निरस्तघांभीर्यमपास्तपुष्पकं प्रकम्पयामास न मानसं न सः   । । १.५५  । ।

रणेषु तस्य प्रहिताः प्रचेतसा सरोषहुङ्कारपराङ्मुखीकृताः   ।
प्रहर्तुरेवोरगराजरज्जवो जवेन कण्ठं सभयाः प्रपेदिरे   । । १.५६  । ।

परेभर्तुर्महिषोऽमुना धनुर्विधातुमुत्खातविषाणमण्डलः  ।
हृतेऽपिभारे महतस्त्रपाभरादुवाह दुःखेन भृशानृतं शिरः   । । १.५७  । ।

सृपशन्सशङ्कः समये शुचावपि स्थितः कराग्रैरसमग्रपातिभिः   ।
अघघर्मोदकबिन्दुमौक्तिकैरलञ्चकारास्य वधूरहस्करः   । । १.५८  । ।

कलासमग्रेणगृहानमुञ्चता मनस्विनीरुत्कयितुं पटीयसा   ।
विसासिनस्तस्य वितन्वतारतिं न नर्मसाचिव्यमकारिनेन्दुना   । । १.५९  । ।

विदग्धलीलोचितदन्तपत्रिकाविधित्सया नूनमनेन मानिना   ।
न जातु वैनायकमेकमुद्धृतं विषाणमद्यापि पुनः प्ररोहति   । । १.६०  । ।

निशान्तनारीपरिधानधूननस्फुटागसाप्यूरुषु लोलचक्षुषः   ।
प्रियेण तस्यानपराधबाधिताः प्रकम्पनेनानुचकम्पिरे सुराः   । । १.६१  । ।

तिरस्कृतस्तस्य जनाभिभाविना मुहुर्महिम्ना महसां महीयसां  ।
बभार बाष्पैर्द्वगुणीकृतं तनुतनूनपाद्धूममवितानमाधिजैः   । । १.६२  । ।

परस्यमर्मविधमुज्झतां निजं द्विजिह्वतादोषमजिह्मगामिभिः   ।
तमिद्धमाराधयितुं सकर्णकैः कुलैर्न भेजे फणिनां भुजङ्गता   । । १.६३  । ।

तदीयमातङ्गघटाविघट्टितैः कटस्थलप्रोषितदानवारिभिः   ।
गृहीतदिक्कैरपुनर्निवर्तिभिश्चिराय याथार्थ्यमलम्बि दिग्गजैः   । । १.६४  । ।

अभीक्ष्णमुष्णैरपि तस्य सोष्मणः सुरेन्द्रवन्दीश्वसितानिलैर्यथा   ।
सचन्दनाम्भःकणक्ॐअलैस्तथा वपुर्जलार्द्रापवनैर्न निर्वबौ   । । १.६५  । ।

तपेन वर्षाः शरदा हिमागमो वसन्तलक्ष्म्या शिशिरः समेत्य च   ।
प्रसूनक्ëप्तिं दधतः सदर्तवः पुरोस्य वास्तव्यकुटुम्बितां ययौ   । । १.६६  । ।

अमानवं जातमजं कुले मनोः प्रभाविनं भाविन्नमन्तमात्मनः   ।
मुमोच जानन्नपि जानकीं न यः सदभिमानैकधना हि मानिनः   । । १.६७  । ।

स्मरत्यदो दाशरथिर्भवानमुं वनान्ताद्वनितापहारिणं  ।
पयोधिमाबद्धचलज्जलाबिलं विलङ्घ्यलङ्गां निकषा हनिष्यति   । । १.६८  । ।

अतोपपत्तिं छलनापरोऽपरामवाप्य शैलूष इवैष भूमिकां  ।
तिरोहितात्मा शिशुपालसंज्ञया प्रतीयते संप्रति साप्यसः परैः   । । १.६९  । ।

स बाल आसीद्वपुषा चतुर्भुजो मुखेन पूर्णेन्दुनिभस्त्रिलोचनः   ।
युवाकराक्रान्तमहीभृदुच्चकैरसंशयं संप्रति तेजसा रविः   । । १.७०  । ।

स्वयं विधाता सुरदैत्यरक्षसामनुग्रहावग्रहयोर्यदृच्छया   ।
दशाननादीनभिराद्धदैवतावितीर्णवीर्यातिशयान्हसत्यसौ   । । १.७१  । ।

बलावलेपादधुनापिपूर्ववप्रबाद्ध्यते तेन जगज्जिगीषुणा   ।
सतीव योषित्प्रकृतिः सुनिश्चला पुमांसंमब्येति भवान्तरेष्वपि   । । १.७२  । ।

तदेनमुल्लङ्घितशासनं विधेर्विधेहि कीनाशनिकेतनातिथिं  ।
शुभेतराचारविपक्त्रिमापदो विपादनीया हि सतामसाधवः   । । १.७३  । ।

हृदयमविरोधोदयददूढद्रढिम दधातु पुनः पुरन्दरस्य   ।
घनपुलकपुल्ॐअजाकुचाग्रद्रुतपरिरम्भनिपीडनक्षमत्वं  । । १.७४  । ।

ॐइत्युक्तवतोऽथ शाङ्गिणा इति व्याहृत्य वाचं नभस्तस्मिन्नुत्पतिते पुरः सुरमुनाविन्दोः श्रियं बिभ्रति   ।
शत्रुणामनिश विनाशपिशुनः क्रुद्धस्य चैद्यं प्रति व्य्ॐनि भ्रकुटिच्छलेन वदने केतुशचकारास्पदं  । । १.७५  । ।

इति माघकृते शिशुपालवधमहाकाव्ये प्रथमः सर्गः
-------------------------------------------------------------------------------------

For detailed Lessons on Magha - Shishupala vadha kavyam visit :
http://maghakavyam.wordpress.com/

No comments:

Post a Comment