माघकृते शिशुपालवधमहाकाव्ये द्वितीयः सर्गः - Shishupalavadha of Magha-2cantoo


माघ शिशुपालवधम्‌


माघकृते शिशुपालवधमहाकाव्ये द्वितीयः सर्गः

यियक्षमाणेनाहूतः पार्थेनाथ द्विषन्मुरं  ।
अभिचैद्यं प्रतिष्ठासुरासीत्कार्यद्वयाकुलः   । । २.१  । ।

सार्थमुध्धवसीरिभ्यामथासावसदत्सदः
गुरुकाव्यानुगां बिभ्रच्चान्द्रीमभिनभः श्रियं  । । २.२  । ।

जाज्वल्यमाना जगतः शान्तये समुपेयुषी
व्यद्योतिष्टसभावेद्यामसौ नरशिखित्रयी   । । २.३  । ।

रत्नस्तम्भेषु संक्रान्तप्रतिमास्ते चकाशिरे   ।
एकाकिनोऽपि परितः पौरुषेयवृता इव   । । २.४  । ।

अध्यासामासुरुत्तुङ्गहेमपीठानि यान्यमी   ।
तैरूहे केशारिक्रान्तत्रिकूटशिखिरोपमा   । । २.५  । ।

गुरुद्वयाय गुरुणोरुभयोरथ कार्ययोः   ।
हरिविप्रतिषेधं तममाचचक्षे विचक्षणः   । । २.६  । ।

द्योतितान्तःसभैः कुन्दकुड्मलाग्रदतः स्मितैः   ।
स्नपितेवाभवत्तस्य शुद्धवर्णा सरस्वती   । । २.७  । ।

भवद्गिरामवसरप्रदानाय वचांसि नः   ।
पूर्वरङ्गः प्रसङ्गाय नाटकीयस्य वस्तुनः   । । २.८  । ।

करदीकृतभूपालो भ्रातृभिर्जित्वरैर्दिशां  ।
विनाप्यस्मदलंभूष्णुरिज्यायै तपसः सुतः   । । २.९  । ।

उत्तिष्ठमानस्तु परो नोपेक्ष्यः पत्यमिच्छता   ।
समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च   । । २.१०  । ।

न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति   ।
यत्तु दह्यन्ते लोकमदो दुःखाकरोतिमां  । । २.११  । ।

मम तावन्मतमिदं श्रूयतामङ्ग वामपि   ।
ज्ञातसारोऽपि खल्वेकः संदिग्धे कार्यवस्तुनि   । । २.१२  । ।

यावदर्थपदां वाचमेवमादाय माधवः   ।
विरराम महीयांसः प्रकृत्या मितभाषिणः   । । २.१३  । ।

ततः सपत्नापनयस्मरणानुशयस्फुरा   ।
ओष्ठेन रामो रामोष्ठबिम्बचुम्बनचुञ्चुना   । । २.१४  । ।

विवक्षितामर्थविदस्तत्क्षणप्रतिसंहृतां  ।
प्रापयन्पवनव्याधेर्गिरमुत्तरपक्षतां  । । २.१५  । ।

घूर्णयन्मदिरास्वादमदपाटलितद्युती   ।
रेवतीवदनोच्छिष्टपरिपूतपुटे दृशौ   । । २.१६  । ।

आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिणीं  ।
म्लापयन्नभिमानोष्णैर्वनमालां मुखानिलैः   । । २.१७  । ।

दधत्संन्ध्यारुणव्य्ॐअस्फुरत्तारानुकारिणीः   ।
द्वषद्वेषोपरक्ताङ्गसङ्गिनीः स्वेदविप्रुषः   । । २.१८  । ।

प्रोल्लसत्कुणडलप्रोतपद्मरागदलत्विषा   ।
कृष्णोत्तरासङ्गरुचं विदधच्चौतपल्लवीं  । । २.१९  । ।

ककुद्मिकन्यावक्त्रान्तर्वासलब्धाधिवासया   ।
मुखमोदं मदिरया  कृतानुव्याधमुद्वमन्  । । २.२०  । ।

जगादवदनछद्मपद्मपर्यन्तपातिनः   ।
नयन्मधुलिहः श्वैत्यमुदग्रदशनांशुभिः   । । २.२१  । ।

यद्वासुदेवेनादीनमनादीनवमीरितं  ।
वचसस्तस्य सपदि क्रिया केवलमुत्तरं  । । २.२२  । ।

नैतल्लघ्वपि भूयस्या वचो वाचातिशय्यते   ।
इन्धनौघधगप्यग्नित्विषा नात्येति पूषणं  । । २.२३  । ।

संक्षिप्तस्याप्यतोऽस्यैव वाक्यस्यार्थगरीयसः   ।
सुविस्तरतरा वाचो भूष्यभूता भवन्तु मो   । । २.२४  । ।

विरोधिवचसो मूकान्वगीशानपि कुर्वते   ।
जडानप्यनुल्ॐआर्थान्प्रवाचः कृतिनां गिरः   । । २.२५  । ।

षड्गुणाः शक्तयस्तिस्रः सिद्धयोदयास्त्रयः   ।
ग्रन्धानधीत्य व्याकर्तुमिति दुर्मेधसोऽप्यलं  । । २.२६  । ।

अनिर्लोडितकार्यस्य वाग्जालं वाग्मिनो वृथा   ।
निमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितं  । । २.२७  । ।

सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्दपञ्चकं  ।
सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृतां  । । २.२८  । ।

मन्त्रो योध इवाधीरः सर्वाङ्गैः संवृतैरपि   ।
चिरं न स्थातुं परेभ्यो भेदशङ्कया   । । २.२९  । ।

आत्मोदयः परज्यानिर्द्वयं नीतिरितीयति   ।
तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते   । । २.३०  । ।

तृप्तियोगः परेणापिमहिम्ना न महात्मनां  ।
पूर्णश्चन्द्रोदयाकाङ्क्षी दृष्टानतोऽत्र महार्णवः   । । २.३१  । ।

संपदासुस्थिरंमन्यो भवति स्वल्पयापि यः   ।
कृतकृत्यो विधिर्मन्ये न वर्धयन्ति तस्य तां  । । २.३२  । ।

शमूलघातमघ्नन्तः परान्नोद्यन्ति मानिनः    ।
प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः   । । २.३३  । ।

विपक्षममखिलीकृत्य प्रतिष्ठा खलु दुर्लभा   ।
अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते   । । २.३४  । ।

ध्रियतेयावदेकोऽपि रिपुस्तावत्कुतः सुखं  ।
पुरः क्लश्नाति स्ॐअं हि सैंहिकेयोऽसुरद्रुहां  । । २.३५  । ।

सखागरीयान्शत्रुश्छकृत्रिमस्तौ हि कार्यतः   ।
स्याताममित्रौ मित्रेच सहजप्रकृतावपि   । । २.३६  । ।

उपकर्त्ररिणा संधिर्न मित्रेणापकारिणा   ।
उपकारापकारौ हि लक्ष्यं लक्षममेतयोः   । । २.३७  । ।

त्वयाविप्रकृतश्चैद्यो रुक्मिणीं हरताहरे   ।
बद्धमूलस्यमूलं हि महद्वैरतरोः स्त्रियः   । । २.३८  । ।

त्वयि भ्ॐअं गते जेतुमरौत्सीत्स पुरीमिमां  ।
प्रोषितार्यमणं मेरोरन्धकारस्तटीमिव   । । २.३९  । ।

आलाप्यालमिदं बभ्रोयत्स दारानपाहरथ् ।
कथापि खलु पापानामलमश्रेयसे यतः   । । २.४०  । ।

विराद्ध एवं भमता विराद्धा बहुधा च नः   ।
निर्वत्यतेऽरिः क्रियया स श्रुतश्रवसः सुतः   । । २.४१  । ।

विधायवैरं सामर्षेनरेऽरौ यः उदासते   ।
प्रक्षिप्योदर्चिषं कक्षे शेरते तेऽभिमारुतं  । । २.४२  । ।

मनागनभ्यवृत्या वा कामं क्षाम्यततु यः क्षमी   ।
क्रयासमभिहारेण विराद्यन्तं क्षमेत कः   । । २.४३  । ।

अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः   ।
पराक्रमः परिभवे वैयात्यं सुरतेष्विव   । । २.४४  । ।

माजीवन्यः परावज्ञादुखदग्धोऽपि जीवति   ।
तस्याजननिरेवास्तु जननीक्लेशकारिणः   । । २.४५  । ।

पदाहतं यदुत्थाय मूर्धानमधिरोहति   ।
स्वस्थादेववपमानेऽपि देहिनस्तद्वरं रजः   । । २.४६  । ।

असंपादयतः कञ्चिदर्थं जातिक्रियागुणैः   ।
यदृच्छशब्दवत्पुंसः संज्ञायै जन्म केवलं  । । २.४७  । ।

तुङ्गत्वमितरा नाद्रौ नेदं सिन्धावागाधता   ।
अलङ्घनीयताहेतुरुभयं तन्मनस्विनि   । । २.४८  । ।

तुल्येऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यथ् ।
हिमांशुमाशु ग्रसते तन्म्रदिम्नः स्फुटं फलं  । । २.४९  । ।

स्वयं प्रणतेऽल्पेऽपि परवायावुपेयुषी   ।
निदर्शनमसाराणां लघुर्बहुतृणं नरः   । । २.५०  । ।

तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते   ।
पञ्चम पञ्चपसस्तपनो जातवेदसां  । । २.५१  । ।

अकृत्वा हेलया पादमुच्चैर्मूर्धसु विद्वषां  ।
कथङ्कारमनालम्बा कीर्तिद्यामधिरोहति   । । २.५२  । ।

अङ्गाधिरोपितश्चन्द्रमा मृगलाञ्छनः   ।
केशरी निष्ठुराक्षिप्तमृगयूथो मृगाधिपः   । । २.५३  । ।

चतुर्थोपायसाध्येतु रिपौ सान्त्वमपक्रिया   ।
स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति   । । २.५४  । ।

सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः   ।
प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः   । । २.५५  । ।

गुणानामायथातथ्यादर्थं विप्लावयन्ति ये   ।
अमात्यव्यञ्जनाराज्ञां दूष्यास्ते शत्रुसंज्ञिताः   । । २.५६  । ।

स्वशक्त्युपचये केचित्परस्य व्यसनेऽपरे   ।
यानमाहुस्तदासीनं त्वामुत्थापयति द्वयं  । । २.५७  । ।

लिलङ्घयिषतो लोकानलङ्घ्यानलघीयसः   ।
यादवाम्भोनिधीन्रुन्धे वेलेव भवतः क्षमा   । । २.५८  । ।

विजयस्वयि सेनायाः साक्षिमात्रेऽपादिश्यतां  ।
फलभाजि समीक्ष्योक्ते बुद्धेर्भोग इवात्मनि   । । २.५९  । ।

हृतेहिडिम्बरिपुणा राज्ञि द्वैमातुरे युधि   ।
चिरस्य मित्त्रव्यसनि सुदमो दमघोषजः   । । २.६०  । ।

नीतिरापदि यद्गम्यः परस्तन्मानिनो ह्रिये   ।
विधुर्विधुन्तस्येव पूर्णस्तस्योत्सवाय सः   । । २.६१  । ।

अन्यदुच्छृङ्घलं सत्वमन्यत्छ्छास्त्रनियन्त्रितं  ।
सामानाधिकरण्यं हि तेजस्तमिरयोः कुतः   । । २.६२  । ।

इन्द्रप्रस्थगमस्तावत्कारि मा सन्तु चेदयः   ।
आस्माकदन्तिसान्निध्याद्वामनीभूतभूरुहः   । । २.६३  । ।

निरुद्धवीवधासारप्रसारा गा इव व्रजं  ।
उपरुन्धन्तु दाशार्हाः पुरीं माहिष्मतीं द्विषः   । । २.६४  । ।

यजतां पाण्डवः  स्वर्गमवत्विन्द्रस्पस्विनः   ।
वयं हनाम द्विषतः सर्वः स्वार्थं समीहते   । । २.६५  । ।

प्राप्यतां विद्युतां संपद्संपर्कादर्करोचिषां  ।
शस्त्रैद्विषच्छिरश्छेदप्रोच्छलच्छोणितोक्षितैः   । । २.६६  । ।

इतिसंरम्भिणो वाणीर्बलस्यालेख्यदेवताः   ।
सभाभित्तिप्रतिध्वनैर्भयादन्ववदन्निव   । । २.६७  । ।

निशम्य ताः शेषगवीरमभिधातुमधोक्षजः   ।
शिष्याय बृहतां प्रत्युः प्रस्तावमदिशद्दृशा   । । २.६८  । ।

भारतीमाहितभरामथानुद्धतमुद्धवः   ।
तथ्यामुतथ्यानुजवज्जगादाग्रे गदाग्रजं  । । २.६९  । ।

संप्रत्यसांप्रतं वक्तुमुक्ते मुसलपाणिना   ।
निर्धारितेर्ऽथे लेखेनखलूक्त्वा खलुवाचिकं  । । २.७०  । ।

तथापि यन्मय्यपि ते गुरुरित्यस्ति गौरवं  ।
तत्प्रयोजककर्तृत्वमुपैति मम जल्पतः   । । २.७१  । ।

वर्णै कतिपयैरेव ग्रथितस्य स्वरैरिव   ।
अनन्ता वाङ्मयस्याहो गेयस्येव विचित्रता   । । २.७२  । ।

बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते   ।
अनुज्झितर्थसंबन्धः प्रबन्धो दुरुदाहरः   । । २.७३  । ।

म्रदीयसीमपि घनामनल्पगुणकल्पितां  ।
प्रसारयन्ति कुशलाश्चित्रां वाचं पटीमिव   । । २.७४  । ।

विशेषविदुषः शास्त्रं यत्तवोद्ग्राह्यते पुरः   ।
हेतुः परिचयस्थैर्ये वक्तुर्गुणनिकैव सा   । । २.७५  । ।

पज्ञोत्साहवतः स्वामी यतेताधातुमात्मनि   ।
तौ हि मूलमुदेष्यन्त्या जिगीषोरात्मसंपदः   । । २.७६  । ।

सोपधानां धियं धीराः स्थेयसीं खट्वयन्ति ये   ।
तत्रानिशं निषम्ण्णास्ते जानते जातु न श्रमंं  । । २.७७  । ।

स्पृशन्ति शरवत्तीक्ष्णस्तोकमन्तर्विशन्ति च   ।
बहुस्पृशापि स्थूलेन स्थीयते बहिरश्मवथ् । । २.७८  । ।

आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च   ।
महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः   । । २.७९  । ।

उपायमस्थितस्यापि नश्यन्त्यर्थाः प्रमाद्यतः   ।
हन्ति नोपशयस्थोऽपि शयालुर्मृगयुर्मृगान्  । । २.८०  । ।

उदेतुमत्यजन्नीहां राजसु द्वदशस्वपि   ।
जिगीषुरेको दिनकृदादित्येष्विव कल्पते   । । २.८१  । ।

बुद्धिशस्त्रः प्रकृत्यङ्गो घनसंवृतिकञ्चुकः   ।
चारेक्षणो दूतमुखः पपुरुषः कोऽपि पार्थिवः   । । २.८२  । ।

तेजः क्षमा वा नैकान्तं कालज्ञस्य महीपतेः   ।
नैकमोजः प्रसादो वा रसभावविदः कवेः   । । २.८३  । ।

कृतापचारोऽपि परैरनाविष्कृतविक्रियः   ।
असाध्यः कुरुते वा रसभावविदः कवेः   । । २.८४  । ।

मृदुव्यवहितं तेजो भोक्तमर्थान्प्रकल्पते   ।
प्रदीपः स्नेहमादत्ते दशयाभ्यन्तरस्थया   । । २.८५  । ।

नालम्बते नैष्ठिकतां न निषीदति पौरुषे   ।
शब्दार्थौ सत्कविरिव द्वयं विद्वानपेक्षते   । । २.८६  । ।

स्थायिनोर्ऽथे प्रवर्तन्ते भावाः संचारिणो यथा   ।
रसस्यैकस्य भूयांसस्तथा नेतुर्महीभृतः   । । २.८७  । ।

तन्त्रवापविदा योगैर्मण्डलान्यधिष्ठिता   ।
सुनिग्रहानरेन्द्रेण फणीन्द्रा इव शत्रवः   । । २.८८  । ।

करप्रचेयामुत्तुङ्गः प्रभुशक्तिं प्रतीयसीं  ।
प्रज्ञाबलबृहन्मूलः फलत्युत्साहपादपः   । । २.८९  । ।

अल्पत्वात्प्रबलत्वाद्वंशस्येवेतरे स्वराः   ।
विजीगीषोनृपतयः प्रयान्ति परिवारतां  । । २.९०  । ।

अप्यनारभमाणस्य विभोरुत्पादिताः परैः   ।
व्रजन्ति गुणतामर्थाः शब्दा इव विहायसः   । । २.९१  । ।

यातव्यपार्ष्णिग्राहादिमालायामधिकद्युतिः   ।
एकार्थतन्तुप्रोतायां नायको नायकायते   । । २.९२  । ।

षाड्गुण्यमुपयुञ्जीत शक्त्यपेक्षो रसायनं  ।
भवन्त्यस्येवमङ्गानि स्थास्नूनि बलवन्ति च   । । २.९३  । ।

स्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनां  ।
अयथाबलमारम्भो निदानं क्षयसंपदः   । । २.९४  । ।

तदीशितारं चेदिनां भवांस्तमवमंस्त मा   ।
निहन्त्यरीनेकपदे य उदात्तः स्वरानिव   । । २.९५  । ।

मा वेदि यदसावेको जेतव्यश्चेदिराडिति   ।
राजयक्ष्मेव रोगाणां समूह स महीभृतां  । । २.९६  । ।

संपादितफलस्तेन सपक्षः परभेदनः   ।
कार्मुकेणेवगुणिना बाणः संधानमेष्यति   । । २.९७  । ।

ये चान्ये कालयवनशाल्वरुक्मिद्रुमादयः   ।
तमःस्वभावस्ते ।प्येनं प्रदोषमनुयायिनः   । । २.९८  । ।

उपजापः कृतस्तेन तानाकोपवतस्त्वयि   ।
आशु दीपयिताल्पोऽपि साग्नीनेधानिवानिलः   । । २.९९  । ।

बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति   ।
संभूयाम्भोधिमभ्येति महानद्या नगापगा   । । २.१००  । ।

तस्य मित्राण्यमित्रास्ते ये च ये चोभये नृपाः   ।
अबियुक्तं त्वयैनं ते गन्तारस्त्वामतः परे   । । २.१०१  । ।

मखविघ्नाय सकलमित्थमित्युत्थाप्य राजकं  ।
हन्त जातमजातारेः प्रथमेन त्वयारिणा   । । २.१०२  । ।

संभाव्य त्वामतिभरक्षमस्कन्धं सबान्धवः   ।
सहायमध्वरधुरां धर्मराजो विवक्षते   । । २.१०३  । ।

महात्मनोऽनुगृह्णन्ति भजमानान्रिपूनपि   ।
सपन्तीः प्रापयन्त्यब्धिं सिन्धवो नगनिम्नगा   । । २.१०४  । ।

चिरादपि बलात्कारो बलिनः सिद्धयेऽरिषु   ।
छन्दानुवृत्तिदुःःसाध्याः सुहृदो विमनीकृताः   । । २.१०५  । ।

मन्यसेऽरिवधः श्रेयान्प्रीतये नाकिनामिति   ।
पुरोडाशभुजामिष्टमिष्टं कर्तुमलन्तरां  । । २.१०६  । ।

अमृतं नाम यत्सन्तो मन्त्रजिह्वेषु जुह्वति   ।
शोभैव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना   । । २.१०७  । ।

सहिष्ये शतमागांसि सूनोस्त इति यत्वया   ।
प्रतीक्ष्यन्तत्प्रतीक्ष्यायै पितृष्वस्रे प्रतिश्रुतं  । । २.१०८  । ।

तीक्ष्णा नारुन्तुदा बुद्धिः कर्म शान्तं प्रतापवथ् ।
नोपतापि मनः सोषमवागेका वाग्मिनः सतः   । । २.१०९  । ।

स्वयङ्कृतप्रसादस्य तस्याह्नो भानुमानिव   ।
समयावधिमप्राप्यय नान्तायालं भवानपि   । । २.११०  । ।

कृत्वा कृत्यविदस्तीर्थेष्वन्तः प्रणिधयः पदं  ।
विदां कुर्वन्तु महतस्तलं विद्विषम्भसः   । । २.१११  । ।

अनुत्सूत्रपदन्यासा सद्वृत्ति सन्निबन्धना   ।
शब्दविद्येव नो भाति राजनीतिरस्पशा   । । २.११२  । ।

अज्ञातदोषैर्देषज्ञैरुद्दूष्योभयवेतनैः   ।
भेद्याः शत्रोरभिव्यक्तशासनैः सामवायिकाः   । । २.११३  । ।

उपेयिवांसि कर्तारः पुरीमाजातशत्रवीं  ।
राजन्यकान्युपायज्ञैरेकार्थानि चरैस्तव   । । २.११४  । ।

सविशेषं सुते पाण्डोर्भक्तिं भवति तन्वति   ।
वैरायितारस्तरलाः स्वयं मत्सरिणस्तरले   । । २.११५  । ।

य इहात्मविदो विपक्षमध्ये सह संवृद्धियुजोऽपि भूभुजः स्युः   ।
बलिपुष्टकुलादिवान्यपुष्टैः पृथगस्मादचिरेण भाविता तैः   । । २.११६  । ।

सहजदोषचापलसमुद्धतश्चलितदुर्बलपक्षपरिग्रहः   ।
तव दुरासदवीर्यविभावसौ शलभतां लभतामसुहृद्गणः   । । २.११७  । ।

इति विशकलितार्थमौद्धवींवाचमेनामनुगतनयमार्गमर्गलां दुर्नयस्य   ।
जनितमुदमुदस्थादुच्चकैरुच्छ्रितोरःस्थलनियतनिषण्णश्रीश्रुतां शुश्रुवान्सः   । । २.११८  । ।


। । इति माघकृते शिशुपालवधमहाकाव्ये द्वितीयः सर्गः ॥

_____________________________________________________________

For detailed Lessons on Magha - Shishupala vadha kavyam visit :

http://maghakavyam.wordpress.com/

No comments:

Post a Comment