शिशुपालवधमहाकाव्ये तृतीयः सर्गः - Shishupalavadha of Magha 3 Cantoo

माघकृते शिशुपालवधमहाकाव्ये तृतीयः सर्गः

कौबेरदिग्भागं अपास्य मार्गं आगस्त्यं इव आशुः इव अवतार्णः   ।
अपेतयुद्धाभिनिवेशस्ॐयो हरिहरप्रस्थं अथ प्रतस्थे   । । ३.१  । ।

जगत्पवित्रैः अपि तं न पादैः स्प्रष्टुं जगत्पूज्यं अयुज्यत अर्कः   ।
यतः बृहत्पार्वणचारु तस्यातपत्रं बिभरांबभूवे   । । ३.२  । ।

मृणालसूत्रामलमन्तरेण स्थितश्चलचामरयोर्द्वयं सः   ।
भेजेऽभितःपातुकसिद्धसिन्धोरभूतपूर्वां रुचमम्बुराशेः   । । ३.३  । ।

चित्राभिरस्योपरि मौलिभाजां भाभिर्मणीनामणीयसीभिः   ।
अनेकधातुच्छुरिताश्मराशेर्गोवनर्धनस्याकृतिरन्वकारि   । । ३.४  । ।

तस्योल्लसत्काञ्चनकुण्डलाग्रप्रत्युप्तगारुग्मतरस्रभासा   ।
अवाप बाल्योचितनीलकण्ठपिच्छावचूडाकलनामिवोरः   । । ३.५  । ।

तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनतया मणीनां  ।
बंहीयसा दीप्तिवितानकेन चकासयामासतुरुल्लसन्ती   । । ३.६  । ।

निसर्गरक्तैर्वलयावनद्धताम्राश्मरश्मिच्छुरितैर्नखाग्रैः   ।
व्यद्योताद्यापि सुरारिवक्षोविक्षोभजासृक्स्नपितैरिवासो   । । ३.७  । ।

उभौयदि व्य्ॐनि पृथक्प्रवाहावाकाशगङ्गापयसः पतेतां  ।
तेनोपमीयते तमालनीलमामुक्तमुक्तालतमस्य वक्षः   । । ३.८  । ।

तेनाम्भसां सारसमयः पयोधेर्दधे मणिदीधितिदीपिताशः   ।
अन्तर्वसन्बिम्बगतस्तदङ्गे साक्षादिवालक्ष्यत यत्र लोकः   । । ३.९  । ।

मुक्तामयं सारसानावलम्बिसभाति स्म दामाप्रपदीयमानस्य   ।
अङ्गुष्ठनिष्ठ्यूतमिवोर्ध्वमुच्चैस्त्रिसस्रोतसः संततधारामम्भः   । । ३.१०  । ।

स इन्द्रनीलसस्थलनीलमूर्ती रराज कर्पूरपिशङ्गवासाः   ।
विसृत्वरैरम्बुरुहां रजोभिर्यमस्वसुश्चित्र इवोदभारः   । । ३.११  । ।

प्रसाधितस्यास्य मुधाद्विषोऽभूदन्यैव लक्ष्मीरिति युक्तमेतथ् ।
वपुष्यशेषेऽखिललोककान्ता सानन्यकान्ता ह्युरसीतरा तु   । । ३.१२  । ।

कपाटविस्तीर्णमनोरमोरःस्थलस्थितश्रीललनस्य तस्य   ।
आनन्दिताशेषजना बभूव सर्वङ्गसङ्गिन्यपरैव लक्ष्मीः   । । ३.१३  । ।

प्राणच्छिदां दैत्यपतेर्नखानामुपेयुषां भूषणतां क्षतेन   ।
प्रकाशकार्कश्यगुणै दधानाः स्तनौ तरुण्यः परिव्रुरेनं  । । ३.१४  । ।

आकर्षतेवोर्ध्वमतिक्रशीयानत्युन्नतत्वात्कुचमण्डलेन   ।
ननाम मध्योऽतिगुरुत्वभाजा नितान्तमाक्रान्त इवाङ्गनानां  । । ३.१५  । ।

यां यां प्रियः प्रैक्षत कातराश्क्षीं सा सा ह्रिया नम्रमुखी बभूव   ।
निःःशङ्गमन्या सममाहितेर्ष्यास्तत्रान्तरे जघ्रुरमुं कटाक्षैः   । । ३.१६  । ।

तस्यातसीसून समानभासो भ्राम्यन्मयूखावलीमण्डलेन   ।
चक्रेण रेजे यमुनाजलौघः स्फुरन्महागर्त इवैकबाहुः   । । ३.१७  । ।

विरोधिनां विग्रहभेददक्षा मूर्तेव शक्तिः क्वचितस्खलन्ती   ।
नित्यं हरेः संनिहिता निकामं मोदयति स्म चेतः   । । ३.१८  । ।

न केवलं यः स्वतया मुरारेरसाधारणतां दधानः   ।
अत्यर्थमुद्वेजयिता परेषां नाम्नापि तस्यैव नन्दकोऽभूथ् । । ३.१९  । ।

न नीतमन्येन नतिं कदाचिकर्णान्तिकप्रप्तगुणं क्रयासु   ।
विधेयमस्या भवदन्तिकस्थं शार्ङ्गं धनुर्मित्रमिव द्रढीयः   । । ३.२०  । ।

प्रवृद्धमन्द्राम्बुदधीरनादः कृष्णार्णवाभ्यर्णचरैकहंसः   ।
मनेदानिलापूरकृतं दधानो निध्वानमश्रूयत पाञ्चजन्यः   । । ३.२१  । ।

रराज संपादकमिष्टसिद्धेः सर्वासु दिक्ष्वप्रसिद्घमार्गं  ।
महारथः पुष्यरथं रथाङ्गी क्षिप्रं क्षपानाथ इवाधिरूढः   । । ३.२२  । ।

ध्वजाग्रधामा ददृशेऽथशौरैः संक्रन्तमूर्तिर्मणिमेदिनीषु   ।
फणावतस्त्रासयितुं रसायास्तलं विवक्षन्निव पन्नगारिः   । । ३.२३  । ।

यियासतस्तस्य महीधरन्ध्रभिदपटीयान्पटहप्रणादः   ।
जलान्तराणीव महार्णवौघः शशब्दान्तराण्यन्तरायाञ्चकार   । । ३.२४  । ।

यतः स भर्ता जगतां जगाम धर्त्रा धरित्र्याः फणिनाततोऽधः   ।
महाभराभुग्नशिरःसहस्रसहायकव्यग्रभुजं प्रसस्रे   । । ३.२५  । ।

अथोच्चकैस्तोरणसङ्गभङ्गभयावनम्राकृतकेतनानि   ।
क्रियाफलानीव सुनीतिभाजं सैन्यानि स्ॐआन्वयन्वयुस्तं  । । ३.२६  । ।

श्यामारुणैर्वारणदानतोयैरालोडिताः काञ्ञ्चनभूपराः   ।
आनेमि मग्नैः शितिकण्ठपक्षक्षोदद्युतश्चुक्षुदिरे रथौघैः   । । ३.२८  । ।

न लङ्घयामास महाजनानां शिरांसि नैवोद्धतिमाजगाम   ।
अचेष्टताष्टापदभूमिरेणुः पदाहतो यत्सदृशं गरिम्णः   । । ३.२७  । ।

निरुद्ध्यमाना यदुभिः कथञ्चिन्मुहुर्यदुच्चिक्षिपुरग्रपादान्  ।
ध्रुवं गुरून्मार्गरुधः करान्द्रानुल्लङ्घ्य गन्तुं तुरगास्ततीषुः   । । ३.२९  । ।

अवेक्षितानायतवल्गमग्रे तुरङ्गिभिर्यत्ननिरुद्धवाहैः   ।
प्रकीडितान्रेणुभिरेत्य तूर्णं निन्ययुर्जनन्यः पृथुकान्पथिभ्यः   । । ३.३०  । ।

दिदृक्षमाणः प्रतिरथ्यमीयुर्मुरारिमारादनघं जनौघाः   ।
अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रतिरहो करोति   । । ३.३१  । ।

उपेयुषो वर्त्म निरन्तराभिरसौ निरुच्छ्वासमनीकनीभिः   ।
रथस्य तस्यां पुरि दत्तचक्षुर्विद्वान्विदामास शनैर्न यातं  । । ३.३२  । ।

मध्येसमुद्रं ककुभः पिशङ्गीर्या कुर्वती काञ्चनवप्रभासा   ।
तुरङ्गकान्तामुखहव्यवाहज्वालेव भित्वा जलमुल्ललास   । । ३.३३  । ।

कृतास्पदा भूमिभृतां सहस्रैरुदन्वदम्भःपरिवीतमूर्तिः   ।
अनिर्विदा या विदधे विधात्रा पृथिवी पृथिव्याः प्रतियातनेव   । । ३.३४  । ।

त्वष्टुः सदाभ्यासगृहीतशिल्पविदज्ञानसंपत्प्रसरस्य सीमा   ।
अदृश्यतादर्शतलामलेषु छायेव या स्वर्जलधेर्जलेषु   । । ३.३५  । ।

रथाङ्गभर्त्रेऽभिनवं वराय यस्याः पितेव प्रतिपादितायाः   ।
प्रेम्णोपकण्ठं मुहुरङ्गभाजो रत्नवलीरम्बुधिराबबन्ध   । । ३.३६  । ।

यस्याश्चलद्वारिधिवीचिछ्छटोच्छलच्छङ्खकुलाकुलेन   ।
वप्रेण पर्न्तचरोडुचक्रः सुमेरुवप्रोऽहमन्वकारि   । । ३.३७  । ।

वणिक्पथे पूगकृतानि यत्र भ्रमागतैरम्बुभिरम्बुराशिः   ।
लोलैरलोद्युतिभाञ्जि मुष्णन्रत्नानि रत्नाकरतामवाप   । । ३.३८  । ।

अम्भुच्युतः क्ॐअलरत्नराशीनपांनिधिः फेनपिनद्धभासः   ।
त्रातपे दातुमिवाधितल्पं विस्तारायमास तरङ्गहस्तैः   । । ३.३९  । ।

यच्छालमुत्तङ्गतया विजेतुं दूरादुदस्थीयत सागरस्य   ।
महोर्मिभिव्याहतवाञ्छितार्थैर्वीडादिवाभ्याशगतैर्विलिल्ये   । । ३.४०  । ।

कुतूहलेन जवादुपेत्य प्राकारभित्या सहसा निषिद्धः   ।
रसन्नरोदीद्भृशमम्बुवर्षव्याजेन यस्या बहिरम्बुवाहः   । । ३.४१  । ।

यदङ्गनरूपसरूपतायाः कञ्चिद्गुणं भेदकमिच्छतीभिः   ।
आराधितोऽद्धा मनुरप्सरोभिश्चक्रे प्रजाः स्वाः सनिमेषचिह्नाः   । । ३.४२  । ।

स्फुरत्तुषारांशुमरीचिजालैर्विनुह्नुताः स्फटिकपङ्क्तीः   ।
आरुह्य नार्यः क्षणदासु यत्र नभोगता देव्य इव व्याराजन्  । । ३.४३  । ।

कान्तेन्दुकान्तोपलकुट्टिमेषु प्रतिक्षपं हर्म्यतलेषु यत्र   ।
उच्चैरधपातिपय्ॐउचोऽपि समूहमूहुः पययसां प्रणाल्यः   । । ३.४४  । ।

रतौ ह्रिया यत्र निशाम्यदीपाञ्जालगताभ्योऽधिगृहं गृहिण्यः.
बिभ्युर्बिडालेक्षणभीषणाभ्यो वैदूर्यकुड्येषु शशिद्युतिभ्यः   । । ३.४५  । ।

यस्यामतिश्लक्षणतया गृहेषु विधातुमालेख्यमशुक्नुवन्तः   ।
चक्रुर्युवानः प्रतिबिम्बिताङ्गाः सजीवचित्रा इव रत्नभित्तीः   । । ३.४६  । ।

सावर्ण्यभाजां प्रतिमागतानां लक्ष्यैः स्मरपाण्डुतयाङ्गनानां  ।
यस्यां कपोलैः कलधौतधामस्तम्भेषु भेजे मणिदर्पणश्रीः   । । ३.४७  । ।

शुकाङ्गनीलोपलनिर्मितानां लिप्तेषु भासा गृहदेहलीनां  ।
यस्यामलिन्देषु न चक्रुरेव मुग्धाङ्गना ग्ॐअयग्ॐउखानि   । । ३.४८  । ।

गोपानसीषु क्षणमास्थितानामालम्बिभिश्चन्द्रकाणां कलापैः   ।
हरिन्मणिश्यामतृणाभिरामैगृहाणि नीध्रैरिव यत्र रेजुः   । । ३.४९  । ।

बृहत्तुलैरपिप्यतुलैर्वतानमालापिनद्धैरपि चावितानै   ।
रेजे विचित्रैरपि या सचित्रैगृहैर्विशालैरपि भूरिशालै   । । ३.५०  । ।

चिक्रंसया कृत्रिमपत्त्रिपंङ्कतेः कपोतपालीषु निकेतनानां  ।
मार्जारमप्यातनिश्चलाङ्कं यस्यां जनः कृत्रिममेव मेने   । । ३.५१  । ।

क्षितिप्रतिष्ठोपि मुखारविन्दैर्वधूजनश्चन्द्रमधश्चकार   ।
अतीतनक्षत्रपथानि यत्र प्रसादशृङ्गाणि वृथाध्यरुक्षथ् । । ३.५२  । ।

रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्धयन्तीः   ।
यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः   । । ३.५३  । ।

सुगन्धितामप्रतियत्नपूर्वां बिभ्रन्ति यत्र प्रमदाय पुंसां  ।
मधूनि वक्त्राणि च कामिनीनामामोदकर्मव्यतिहारमीयुः   । । ३.५४  । ।

रतान्तरे यत्र गृहान्तरेषु वितर्दिनिर्यूहविटङ्नीडः   ।
रुतानिश्रुण्वन्वयसां गणोऽन्तेवासित्वमाप स्फुटमङ्गनानां  । । ३.५५  । ।

छन्नेऽपि स्पष्टतरेषु यत्र स्वच्छानि नारीकुचमण्डलेषु   ।
आकाशसाम्यं दधुरम्बराणि न नामतः केवलमर्थतःऽपि   । । ३.५६  । ।

यस्यामजिह्मा महतीमपङ्गाः सीमानमत्यायतयोऽत्यजन्तः   ।
जनैरजास्खलनै जातु द्वयेप्यमुच्यन्त विनीतमार्गाः   । । ३.५७  । ।

परस्पस्फर्धिपरार्घ्यरूपाः पौरस्त्रियो यत्र विधाय वेधाः   ।
श्रीनिर्मितप्राप्तगुणक्षतैकवर्णोपमावाच्यमलं ममार्ज   । । ३.५८  । ।

क्षुण्णं यदन्तःकरणेनवृक्षाः फलन्ति कल्पोपदास्तदेव   ।
अध्यूषुषो यामभवञ्जनस्य याः सम्पदस्ता मनसोऽप्यगम्याः   । । ३.५९  । ।

कला दधानः सकलाः स्भाभिरुद्भासयन्सौधसिताभिराशाः   ।
यां रेवतीजानिरियेष हातुं न रौहिणीयो न च रोहिणीशः   । । ३.६०  । ।

बाणाहवव्याहतशंभुशक्तेरासत्तिमासाद्य जनार्दनस्य   ।
शरीरिणा जैत्रशरेण यत्र निःशङ्घमूषे मकरध्वजेन   । । ३.६१  । ।

निषेव्यमाणेन शिवैमरुद्भिरध्यास्यमाना हरिणा चिराय   ।
उद्रश्मिरत्नाङ्कुरधाम्नि सिन्धावाहास्त मेरावमरावतीं या   । । ३.६३  । ।

स्नग्धाञ्जनस्यमरुचिः सुवृत्तः बद्वा इवाद्वंसितवर्णकान्तेः   ।
विशेषको वा विशिशेष यस्याः श्रियन्त्रिलोकीतिलकः स एव   । । ३.६२  । ।

तामीक्षमाणः स पुरं पुरस्तात्प्रापत्प्रतोलीमतुलप्रतापः   ।
वज्रप्रभोद्भासिसुरायुधश्रीर्या देवसेनेव परैरलङ्घ्या   । । ३.६४  । ।

प्रजा इवाङ्गादरविन्दनाभेः शंभोर्जटाजूटतटादिवापः   ।
मुखादिवाथ श्रुतयो विधातुः पुरान्निरीयुर्मुरजिद्ध्वजिन्यः   । । ३.६५  । ।

श्लिःष्यद्भिरन्योनमुखाग्रसङ्गस्खलत्खलीनं हरिभिर्विलोलैः   ।
परस्परोत्पीडितजानुभागा दुःखेन निशचक्रमुरश्ववाराः   । । ३.६६  । ।

निरन्तरालेऽपि विमुच्माने दूरं पथि प्राणभृतां गणेन   ।
तेज्ॐअहद्भिस्तमसेव दीपैर्द्वीपैरसंबधमयांबभूवे   । । ३.६७  । ।

शनैरनीयन्त रयात्पतन्तोरथाः क्षितिं हस्तिनखादखेदैः   ।
सयत्नसूतायतरशमिभुग्नग्रीवाग्रसंसक्तयुगैस्तुरङ्गै   । । ३.६८  । ।

बलोर्मिभिस्तत्क्षणहीयमानरथ्याभुजाया वलयैरिवास्याः   ।
प्रायेणनिष्क्रामतिचक्रपाणै नेषेटं परो द्वारवतीत्वमासीथ् । । ३.६९  । ।

पारेजलंनीरनिधेरपश्यन्मुरारिरानीलपलाशराशीः   ।
वनावलीरुत्कलिकासहस्रप्रतिक्षणोत्कूलितशैवलाभाः   । । ३.७१  । ।

लक्षीभृतःऽम्भोधितटाधिवासान्द्रमानसौ नीरदनीलभासः   ।
लतावधूसंप्रयुजोऽदिवेलं बहूकृतान्स्वानिव पशयति स्म   । । ३.७०  । ।

आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्ध्वजाकार बृहत्तरङ्गं  ।
फेनायमानं पतिमापगानामसावपस्मारिणमाशसङ्गे   । । ३.७२  । ।

पीत्वा जलानां निधिनातिगार्ध्याद्वृद्धिङ्गतेऽप्यात्मनि नैव मान्तीः   ।
क्षिप्ता इवेन्दोः स रुचोऽधिवेलं मुक्तावलीराकलयाञ्चकार   । । ३.७३  । ।

साटोपमुर्वीमनिशं नदन्तः यैः प्लवयिष्यन्ति समन्ततःऽमी   ।
तान्यकदेशान्निभृतंपयोधेः सोऽम्भांसि मेघान्पिबतः ददर्श   । । ३.७४  । ।

उद्धृत्यमेघैस्तत एव तोयमर्थं मुनीन्द्रैरिव संप्रणीताः   ।
आलोकयामास हरिः पतन्तीर्नदीः स्मृतिर्वदमिवाम्बुराशिं  । । ३.७५  । ।

विक्रीय दिश्यानि धनान्युरूणिदैप्यानसावुत्तमलाभबाजः   ।
तरीषु तत्रत्यमफल्गु भाण्डं सांयान्त्रिकानावापतःऽभ्यनन्दथ् । । ३.७६  । ।

उत्पित्सवोऽन्तर्नदभर्तुरुच्चैर्गरीयसा निःश्वसितानिलेन   ।
पयांसि भक्त्या गरुडध्वजस्य ध्वाजानिवोच्चिक्षिपिरे फणीन्द्राः   । । ३.७७  । ।

तमागतं वीक्ष्य युगान्तबन्धुमुत्सङ्गशय्याशयमम्बुराशिः   ।
प्रत्युज्जगामेव गुरुप्रमोदप्रसारितोत्तुङ्गतरङ्गबाहुः   । । ३.७८  । ।

उत्सङ्गिताम्भःकणक नभस्वानुदन्वतः स्वदलवान्ममार्ज   ।
तस्यानुवेलं व्रजतःऽधिवेलंमेलालतासेफालनलबेधगन्धः   । । ३.८०  । ।
उत्तालतालीवनसंप्रवृत्तसमीरसीमन्तितकेतकीकाः   ।
आसेदिरे लावणसैन्धवीनां चमूचरैः कच्छभुवां प्रदेशाः   । । ३.७९  । ।

लवङ्गमालाकलितावतंसास्ते नारिकेलान्तरपः पिबन्तः   ।
आस्वादिताद्रक्रमुकाः समुद्रादभ्यागतस्य प्रतिपत्तिमीयुः   । । ३.८१  । ।

तुरगशताकुलस्य परितः परमेकतुरङ्गजन्मनः प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता   ।
परिचलतः बलानुजबलस्य पुरः सततं धृतश्रियश्चिरविगतश्रियो जलनिधेश्च तदाभवददन्तरं महथ् । । ३.८२  । ।

। । इति माघकृते शिशुपालवधमहाकाव्ये तृतीयः सर्गः ॥

No comments:

Post a Comment