Sanskrit Toolbar

Powered by Conduit

माघकृते शिशुपालवधमहाकाव्ये पञ्चमः सर्गः Shishupalavadha of Magha 5th Sarga



इत्थं व्यलीकाः प्रियतमा इव सोऽव्यलीकः शुश्राव सूततनयस्य तदा व्यलीकाः   ।
रन्तुं निरन्तरमियेष ततोऽवसाने तासां गिरौ च वनराजिपटं वसाने   । । ५.१  । ।

तं स द्विपेन्द्रतुलितातुलतुङ्गशृङ्गं अभ्युल्लसत्कदलिकावनराजिमुच्चैः   ।
विस्ताररुद्धवसुधोऽन्वचलं चचाल लक्ष्मीं दधत्प्रतिगिरेरलघुर्बलौघः   । । ५.२  । ।

भास्वत्करव्यतिकरोल्लसिताम्बरान्तस्तापत्रपा इव महाजनदर्शनेन   ।
संविव्युरम्बरविकासि चमूसमुत्थं पृत्वीरजः करभकण्ठकडारमाशः   । । ५.३  । ।

आवर्तिनः शुभफलप्रदशुक्तियुक्ताः संपन्नदेवमणयो भृतरन्ध्रभागाः   ।
अश्वाः प्यधुर्वसुमतीमतिरोचमानास्तूर्णं पयोधय इवोर्मिभिरापततन्तः   । । ५.४  । ।

आरक्षमग्नमवमत्य सृणिं शिताग्रं एकः पलायत जवेन कृतार्तनादः   ।
अन्यपुनर्मुहुरुदप्लवतास्तभारं अन्योन्यतः पथि बताबिभातमिभोष्ट्रौ   । । ५.५  । ।

आयास्तमैक्षत जनशचटुलाग्रपादं गच्छन्तमुच्चलितचामरचारुमश्वं  ।
नागं पुनर्मृदु सलीलनिमीलिताक्षं सर्वःप्रयः खलु भवतयनुरूपचेष्टः   । । ५.६  । ।

त्रस्तः समस्तजनहासकरः करेणोस्तावत्खरः प्रखरमुल्ललयाञ्चकार   ।
यावच्चलासनविलोलनितम्बबिम्बविस्रस्तवस्त्रमवरोधवधूः पपात   । । ५.७  । ।

शैलोपशल्यनिपतद्रथनेमिधारा-निष्पिष्टनिष्ठुरशिलातलचूर्णगर्भाः   ।
भूरेणवोनभसि नद्धपयोदचक्राश्चक्रवदङ्गरुहधूम्ररुचो विसस्रुः   । । ५.८  । ।

उद्य्त्कृशानुशकलेषु सुराभिघाताद्भूमीसमायातशिलाफलकाचितैषु   ।
पर्न्तवर्त्मसु व्चक्रमिरे महाश्वाः शैलस्य दर्दुरपुटानिव वादयन्तः   । । ५.९  । ।

तेजोनिरोधसमतावहितेन यन्त्रा समय्क्कशात्रयविचारवाता नियुक्तः   ।
आराट्टजश्चटुलनिष्ठुरपातमुच्चैश्चित्रं चकार पदमर्दपुलायितेन   । । ५.१०  । ।

नीहारजालमालिनः पुनरुक्तसान्द्राः कुर्न्वधूजनविलोचनपक्ष्ममालाः   ।
क्षुण्णः क्षणं यदुबलैर्दिवमातितांसुः पांशुर्दिसां मुखमतुत्थयदुत्थितोऽद्रेः   । । ५.११  । ।

उच्छिद्य विद्विष इव प्रस्रभं मृगेन्द्रानिन्द्रानुजाचरभूतपतयोऽध्यवात्सुः   ।
वन्येभमस्तकनिखातनखाग्रयमुक्तमुक्ताफलप्रकरभाञ्जि गुहागृहाणि   । । ५.१२  । ।

विभ्राणया बहलयावकङ्कपिङ्कपिच्छावचूडामनुमाधवमास जग्मुः   ।
चञ्च्वग्रदष्टचटुलाहितपताकयान्ये स्वावासभागमुरगाशनकेतुयष्ट्या   । । ५.१३  । ।

छायामपास्य महतीमपि वर्तमानां आगामिनीं जगृहिरे जनतास्रूणां  ।
सर्वो हि नोपागतमप्यपचीयमानं वर्धिष्णुमाश्रयमनागतमभ्युपैति   । । ५.१४  । ।

अग्रगतेन वसतिं परिगृह्य रम्यां आपात्यसैनिकनिराकराणाकुलेन   ।
यान्तोऽन्यतः प्लुतकृतस्वरमाशु दूरादुद्बाहुना जुहुवविरे मुहुरात्मवर्ग्याः   । । ५.१५  । ।

सिक्ता इवामृतरसेन मुहुर्जनानां क्लान्तिच्छिदो वनवनस्पतयस्तदानीं  ।
शाखावसक्तवसनाभरणाभिरामाः कल्पद्रुमैः सह विचित्रफलैर्विरेजुः   । । ५.१६  । ।

यानाज्जनः परिजनैरवतार्यमाणा राज्ञीर्नरापनयनाकुलसौविदल्लाः   ।
स्रस्तावगुण्ठनपटाः क्षणलक्ष्यमाण-वक्रश्रियः सभयकौतुकमीक्षते स्म   । । ५.१७  । ।

कण्ठावसक्तमृदुबाहुलतातुरङ्गाद्राजावरोधनवधूरवतारयन्तः   ।
आलिङ्गनान्यधिकृताः स्फुटमापुरेव गण्डस्थलीः शुचितया न चुचुम्बुरासां  । । ५.१८  । ।

दृष्ट्वेव निर्जतकलापभरामधस्ताद्व्याकीर्णमान्यकबरां कबरीं तरुण्याः   ।
प्रादुद्रुवत्सपदि चन्द्रकवान्द्रुमाग्रात्संघर्षिणा सह गुणाभ्यधिकैर्दुरापं  । । ५.१९  । ।

रोचिष्णुकाञ्चनचयांशुपिशङ्गिताशा वंशध्वजैर्जलदसंहतिमुल्लिखन्त्यः   ।
भूभर्तुरायत निरन्तरसंनिवृष्टाः पादा इवाभिवभुरावलयो रथानां  । । ५.२०  । ।

छायाविधायिभिरनुज्झितभूतिशोभैरुच्छ्रायिभिर्बहलपाटलधातुरागैः   ।
दूष्यैरपि क्षितिभृतां द्विरदैरुदारतारावलीविरचनैर्व्यरुचन्निवासाः   । । ५.२१  । ।

उत्क्षप्तपटकान्तरलीयमानं अन्दानिलप्रशमितश्रमघर्मतोयैः   ।
दुर्वाप्रतानसहजास्तरणेषु भेजे निद्रसुखं वसनसद्मसु राजदारैः   । । ५.२२  । ।

प्रस्वेदवारिसविशेषविषक्तमङ्गे कूर्पासकं क्षतनखक्षतमुत्क्षिपन्ती   ।
आविर्भवद्वनपयोधरबाहुमूला शातोदरी युवदृशां क्षणमुत्सवोऽभूथ् । । ५.२३  । ।

यावत्स एव समयः सममेव तावदव्याकुलाः पटमयान्यभितो वितत्य   ।
पर्यापतत्क्रयिकलोकमगण्यपण्य-पूर्णपणा विणुनो विपणीर्विभेजुः   । । ५.२४  । ।

अल्पप्रयोजनकृतोरुतरप्रयातसैरुद्गूर्णलोष्टगुडैः परितोऽनुविद्धं  ।
उद्यातमुद्रतमनोकहझालमध्यादन्याः शशङ्गुणमनल्पमवन्नवाप   । । ५.२५  । ।

त्रासाकुलः परिपतन्परितो निकेतान्पुंभिर्न कैश्चिदपि धन्वभिरन्वबन्धि   ।
तस्थौ तथापि न मृगः क्वचिदङ्गनानां आकर्णपूर्णनयनेषुहतेक्षणश्रीः   । । ५.२६  । ।

आस्तीर्णतल्परचितावासथः क्षणेन वेशयाजनः कृतनवकर्मकाम्यः   ।
खिन्नानखिन्नमतिरापततो मनुष्यान्प्रत्यग्रहीच्चिरनिविष्ट इवोपचारैः   । । ५.२७  । ।

सस्नुः पयः पपुरनेनिजुरम्बराणि जक्षुर्बिसं धृतविकासिभिसप्रसूना   ।
सैन्याः श्रियामनुपभोगनिरर्थकत्व-दोषप्रवादममृजन्नगनिमन्गानां  । । ५.२८  । ।

नाभिह्रदैः परिगृहीतरयाणि निम्नैः सत्रीणांबृहज्जघनसेतुनिवारितानि   ।
जग्मुर्जलानि जलमुड्डकवाद्यवल्गु-वल्गद्धनस्तनतटस्खलितानि मन्दं  । । ५.२९  । ।

आलोलपुष्करमुखोल्लसितैरभीक्ष्ण-मुक्षांबभूवुरभितोवपुरम्बुवर्षैः   ।
स्वेदायत श्वसितनिरस्तवेगमुग्ध-मूर्धन्यरत्ननिकरैरिव हास्तिकानि   । । ५.३०  । ।

ये पक्षिणः प्रथममम्बुनिधिं गतास्ते येऽपीन्द्रपाणितुलायुधलूनपक्षाः   ।
तेजग्मुरद्रिपतयः सरसीर्विगाढुं आक्षिप्तकेतुकुथसैन्यगजच्छलेन   । । ५.३१  । ।

आत्मानमेव जलधेः प्रतिबिम्बिताङ्गं ऊर्मौ महत्यभिमुखापातितं निरीक्ष्य   ।
क्रोधादधावदपभीरभिहन्तुमन्य-नागाभियुक्त इव युक्तमहो महेभः   । । ५.३२  । ।

नादातुमन्यकरिमुक्तमदाम्बुतिक्तं धूताङ्कुशेन न विहातुमपीच्छताम्भः   ।
रुद्धे गजेन सरितः सरुषावतारे रिक्तोदपात्रकरमास्त चिरं जनौघः   । । ५.३३  । ।

पन्थानमाशु विजहीहि पुरः स्तनौ ते पश्यन्प्रतिद्वरदकुम्भविशङ्गिचेताः   ।
स्तम्बेरमः पारिणिनंसुरावुपैति षिङ्गैरगद्यत ससंभ्रममेव काचिथ् । । ५.३४  । ।

कीर्णं शनैरनुकपोलमनेकपानां हस्तौर्विगाढमदतापरुजः शमाय   ।
आकर्णमुल्लसितमम्बु विकाशिकाश-नीकाशमाप समतां सितचामरस्य   । । ५.३५  । ।

गण्डूषमुज्झितवता पयसः सरोषं नागेन लब्धपरवारणमारुतेन   ।
अम्भोधिरोधसि पृथुप्रतिमानभाग-रुद्धोरुदन्तमुसलप्रसरं निपेते   । । ५.३६  । ।

दानन्ददत्तयपि जलैः सहसाधिरूढे को विद्यमानगतिरासितुमुत्सहते   ।
यद्दन्तिनः कटकटाहतटान्मिमङ्क्षोर्मङ्क्षूदपाति परितः पटलैरसीनां  । । ५.३७  । ।

अन्तर्जलौघमवगाढवतः कपोलौ हित्वा क्षणं विततपक्षतिरन्तरीक्षे   ।
द्रव्यश्रयेष्वपि गणेषु रराज नीलो वर्णः पृथग्गत इवालिगणो गजस्य   । । ५.३८  । ।

संसर्पिभिः पयसि गैरिकरेणुरागैरम्भोजगर्भरससाङ्गनिषङ्गिणा च   ।
क्रीडोपभोगमनुभूय सरिन्महेभावन्योन्यवस्त्रपरिवर्तमिव व्यधत्तां  । । ५.३९  । ।

यां चन्द्रकैर्मदजलस्य महानदीनां नेत्रश्रियं विकसतो विदधुर्गजेन्द्राः   ।
तां प्रत्यवापुरविलम्बितमुत्तरन्तो धौताङ्गलग्ननवनीलपयोजवस्त्रैः   । । ५.४०  । ।

प्रत्यन्यदन्ति निशिताङ्गुशदूरभिन्न-निर्याणनिर्यदसृजं चलितं निपादी   ।
रोद्धुं महेभपरिव्रढिमानमागादाक्रन्तितो न वशमेति महान्परस्य   । । ५.४१  । ।

सेव्योऽपि सानुनयमाकलनाय यन्त्रा नीतेन वन्यकरिदानकृताधिवासः   ।
नाभाजि केवलमभाजि गजेन शाखी नान्यस्य गन्धमपि मानभ-तः सहन्ते   । । ५.४२  । ।

अद्रीन्दुकुञ्चचरकुञ्जरगण्डकाष-संक्रान्तदानपयसो वनपादपस्य   ।
सेनागजेन मथितस्य निजप्रसूनैर्मम्ले यथागतमगामि कुलैरलीनां  । । ५.४३  । ।

नोच्चैर्यदा तरुतलेषु ममुस्तदानीं आधोरणैरभिहिताः पृथुमूलशाखाः   ।
बन्धाय चिच्छिदुरिभास्तरसात्मनैव नैवात्मनीनमथ वा क्रियते मदान्धैः   । । ५.४४  । ।

उष्णोष्णशीकरसृजः प्रबलोष्मणोऽन्तर्-उत्फुल्लनीलनलिनोदरतुल्यभासः   ।
एकान्वशालशिरसो हरिचन्दनेषु नागान्बबन्धुरपारान्मनुजा निरासुः   । । ५.४५  । ।

कण्डूयतः कटुभुवं करिणो मदेन स्कन्धं सुगन्धिमनुलीनवता नगस्य   ।
स्थूलेन्द्रनीलशकलावलिक्ॐअलेन कणठेगुणत्वमलीनां वलयेन भेजे   । । ५.४६  । ।

निर्धूतवीतमपि बालकमुल्ललन्तं यन्ता क्रमेण परिसान्त्वनतर्जनाभिः   ।
शिक्षावशेन शनकैर्वशमानिनाय शाश्त्रं हि निश्चितधियां क्व न सिद्धमेति   । । ५.४७  । ।

स्तम्भं महान्तमुचितं सहसा मुमोच दानं ददावतितरां सरसाग्रहस्तः   ।
बद्धपराणि परितो निगडानेयलावीत्स्वातन्त्र्यमुज्वलमवाप करेणुराजः   । । ५.४८  । ।

जज्ञे जनैर्मुकुलितताक्षमनाददाने संरब्धहस्तिपकनिष्टुरचोदनाभिः   ।
गम्भीरवेदिनि पुरः कवलं करीन्द्रे मन्दोऽपि नाम न महानवगृह्य साध्यः   । । ५.४९  । ।

क्षिप्तं पुरो न जगृहे मुहुरिक्षुकाण्डं नापेक्षते स्म निकटोपगतां करेणुं  ।
सस्मार वारणपतिः परिमीलिताक्षं इच्छाविहारवनवासमहोत्सवनां  । । ५.५०  । ।

दुःखेन भोजयितुमाशयिता शशाक तुङ्गाग्रकायमनमन्तमनादरेण   ।
उत्क्षिप्तहस्ततलदत्तविधानपिण्ड-स्नेहस्रुति स्नपितबाहुरिभाधिराजं  । । ५.५१  । ।

शुक्लांशुकोपरचितानि निरन्तराभिर्वेश्मनि रस्मिविततानि नराधिपानां  ।
चन्द्राकृतानि गजमणडलिकाभिरुच्चैर्नीलाभ्रपङ्क्तिपरिवेषमिवाधिजग्मुः   । । ५.५२  । ।

गत्यूनमर्गगतयोऽपि गतोरुमार्गाः स्वैरं समाचकृषिरे भुवि वेल्लनाय   ।
दर्पोदयोल्लसितफेनजलानुसार-संलक्ष्यपल्ययनवर्ध्रपदास्तुरङ्गाः   । । ५.५३  । ।

आजिघ्रति प्रणतमूर्धनि बाह्लजेऽश्वे तिस्याङ्गसङ्गमसुखानुभवोत्सुकायाः   ।
नासाविरोकपवनोल्लसितं तनीयो र्ॐआञ्चतामिव जगाम रजः पृथिव्याः   । । ५.५४  । ।

हेम्नः स्थलीषु परितः परिवृत्य वाजी धुन्वन्वपुः प्रविततायतकेशपङ्क्तिः   ।
ज्वलाकणारुणरुचा निकरेणरेणोः शेषेणतेजसः इवोल्लसता रराज   । । ५.५५  । ।

दन्तालिकाधरणनिश्चलपाणियुग्मं अर्धोदितो हरिरिवोदयशैलमूर्ध्नः   ।
स्तोकेन नाक्रमत वल्लभपालमुच्चैः श्रीवृक्षकी पुरुषकोन्नमिताग्रकायः   । । ५.५६  । ।

रेजे जनैः स्नपनसान्द्रतरार्द्रमूर्तिर्देवैरिवानिमिषद्दृष्टिभिरीक्ष्यमाणः   ।
श्रीसंनिधानरमणीयतरोऽश्व उच्चैरुच्चैश्रवा जलनिधेरिव जातमात्रः   । । ५.५७  । ।

अश्रावि भूमिपतिभिः क्षणवीतनिद्रैरश्नुन्पुरो हरितकं मुदमादधानः   ।
ग्रीवाग्रलोलकलकिङ्गिणीकानिनाद मिश्रं दधद्दशनचर्चुरशब्दमश्वः   । । ५.५८  । ।

उत्खाय दर्पचलितेन सहैव रज्ज्वा कीलं प्रयत्नपरमानवदुर्ग्रहेण   ।
आकुल्यकारि कटकस्तुरगेण तूर्णं अश्वेति विद्रुतमनुद्रुताश्वमन्यं  । । ५.५९  । ।

अव्याकुलं प्रकृतमुत्तरधेयकर्म धाराः प्रसाधयितुव्यतिकीर्णरूपाः   ।
सिद्धं मुखे नवसु वाथिषु कश्चिदश्वं वल्गाविभागकुशलो गमयांबभूव   । । ५.६०  । ।

मुक्तासृणानि परितः कचकं चरन्तस्त्रुट्याद्वितानतनिकाव्यतिषङ्गभाजः   ।
सस्रुः सरोषपरिचारकवार्यमाणा दमाञ्चलस्खलितलोलपदं तुरङ्गाः   । । ५.६१  । ।

उत्तीर्णभारलघुनाप्यलघूलपौघ-सौहित्यनिःसहतरेण तरोरधस्ताथ् ।
र्ॐअन्थमन्थरचलद्गुरुसास्नमासां-चक्रे नीमीलदलसेक्षणमौक्षकेण   । । ५.६२  । ।

मृत्पिण्डशेखरितकोटिभिरर्धचन्द्रं शृङ्गै शिखाग्रगतलक्ष्ममलं हसद्भिः   ।
उच्छृङ्गितान्यवृषभा सरितां नदन्तो रोधांसि धीरमपचस्किरिरे महोक्षाः   । । ५.६३  । ।

मेदस्विनः सरभसोपगतानभीकान्भङ्कत्वा पराननडुहो मुहुराहवेन   ।
ऊर्जस्वलेन सुरभीरनुनिनिःसपत्नं जग्मे जयोद्धुरविशालविषाणमुक्ष्णा  । । ५.६५  । ।

बिभ्राणमायतिमतीमवृथा शिरोधिं प्रत्यग्रतामतिरसामधिकं दधन्ति   ।
लोलोष्ट्रमौष्ट्रकमुदग्रमुखं तरूणां अभ्रंलिहानि लिलिहे नवपल्लवानि   । । ५.६४  । ।

सार्धं कथञ्चिदुचितैः पिचुमर्दपत्त्रैरास्यान्तरालगतमाम्रदलं म्रदीयः   ।
दासेरकःसपदि संवलितं निषादैर्विप्रं पुरा पतगराडिव निर्जगार   । । ५.६६  । ।

स्पष्टं बहिः स्थितवतेरपि निवेदयन्तश्चेष्टाविशेषमनुजीविजनाय राज्ञां  ।
वैतालिकाः स्फुटपदप्रकटार्थमुच्चैर्भोगावलीः कलगिरोऽवसरेषु पेठुः   । । ५.६७  । ।

उन्नम्रताम्रपटमण्डपमण्डितं तदानीलननागकुलसंकुलमाबभासे   ।
संध्याशुभिन्नघनकर्बुरितान्तरीक्ष-लक्ष्मीविडम्बि शिविरं शिवकीर्तनस्य   । । ५.६८  । ।

धरस्योद्धर्तासित्वमितिननु सर्वत्र जगति प्रतीतस्तत्किं मामतिभरमधः प्रापिपायिषुः   ।
उपालब्धेवोच्चैर्गिरिपतिरिति श्रीपतिमसौ बलाक्रान्तः क्रडद्द्विरदमथितोर्वीरुहरवैः   । । ५.६९  । ।

।। इति माघकृते शिशुपालवधमहाकाव्ये पञ्चमः सर्गः ॥

No comments:

Post a Comment