Sanskrit Toolbar

Powered by Conduit

माघकृते शिशुपालवधमहाकाव्ये षष्ठः सर्गः Shishupalavadha of Magha 6th Sarga

माघकृते शिशुपालवधमहाकाव्ये षष्ठः सर्गः

अथ रिरंसुममुं युगपद्गिरौ कृतयथास्वतरुप्रसवश्रिया   ।
ऋतुगणेन निषेवितुमादधे भुवि पदं विपदन्तकृतं सतां  । । ६.१  । ।

नवपलाशपलाशवनं पुरः स्फुटस्फटपरागतपङ्गजं  ।
मृदुलतान्तलतान्तमलोकयत्स सुरभिं सुमनोभरैः   । । ६.२  । ।

विलुलितालकसंहृतिरामृशन्मृगदृशां श्रमवारि ललाटजं  ।
तनुतरङ्गततिं सरसां दलत्कुवलयं वलयन्मरुदाववौ   । । ६.३  । ।

तुलयति स्म विलोचनतारकाः कुरबकस्तबकव्यतिषह्किणि   ।
गुणवदाश्रयलब्धगुणोददये मालिनिमालिनि माधवयोषितां  । । ६.४  । ।

स्फुटमिवोज्वलकाञ्चकान्तिभिर्युतमशोकमशोभत चम्पकैः   ।
विरहिणां हृदयस्य भिदाभृतः कपिशितं पिशितं मदनाग्निना   । । ६.५  । ।

स्मराहुताशनमुर्मुरचूर्णतां दधुरिवाम्रवनस्य रजःकणाः   ।
निपातिताः परितः पथिकव्रजानुपरि ते परितेपुरतो भृशं  । । ६.६  । ।

रतिपतिप्रहितेव कृतक्रुधः प्रियतमेषु वधूरनुनायिका   ।
बकुलपुष्परसासवपेशलध्वनिरगान्निरगात्मधुपावलिः   । । ६.७  । ।

प्रियसखीसदृशं प्रतिबोधिताः किमपि काम्यगिरा परपुष्टया   ।
प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयादुरनाचिं अङ्गनाः   । । ६.८  । ।

मधुकरैरपवादकरैरिव स्मृतिभुवः पथिकाः हरिणा इव   ।
कलतया वचसः परिवादिनीस्वरजिता वशमाययुः   । । ६.९  । ।

समभिसृत्य रसादवलम्बितः प्रमदया कुसुमावचिचीर्षया   ।
अविनमन्न रराजवृथोच्चकैरनृतया नृतया वनपादपः   । । ६.१०  । ।

इदमपास्य विरागि परागीरलिकदम्बकमम्बुरुहां ततीः   ।
स्तनभरेण जितस्तबकानमन्नवलते वलतेऽभिमुखं तव   । । ६.११  । ।

सुरभिणिश्वसिते दधतस्तृषं नवसुधामधुरे च तवाधरे   ।
अलमलेरिव गन्धरसावमू मम न स्ॐअनसौ मनसो मुदे   । । ६.१२  । ।

इति गदन्तमनन्तरमङ्गना भुजयुगोन्नमनोच्चतरस्तनी   ।
प्रणयिनं रभसादुदरश्रिया वलिभयादलिभयादिव सस्वजे   । । ६.१३  । ।

वदनसौरभलोभपरिभ्रमद्भ्रमरसंभ्रमसंभृतशोभया   ।
चलितया विदधे कलमेखलाकलकलोऽलकलोलदृशान्यया   । । ६.१४  । ।

अजगणन्गणशः प्रियमग्रतः प्रणतमप्यभिमानितया न याः   ।
सति मधावभवन्मदनव्यथा विधुरिता धुरिताः कुकुरस्त्रियः   । । ६.१५  । ।

कुसुमकार्मुककार्मुकसंहितद्रुतशिलीमुखखण्डितविग्रहाः   ।
मरणमप्यपराः प्रतिपेदिरे किमु मुहुर्मुहुर्गतभर्तृकाः   । । ६.१६  । ।

रुरुधिषा वदनाम्बुरुहश्रियः सुतनु सत्मलङ्करणाय ते   ।
तदपि सम्प्रति सन्निहिते मधावधिगमं धिगमङ्गलमश्रुणः   । । ६.१७  । ।

त्यजति कष्टामसावचिरादसून्विरहवेदनयेत्यघशङ्गिभिः   ।
प्रियतया गदितास्त्वयि बान्धवैरवितथा वितथाः सखि मा गिरः   । । ६.१८  । ।

न खलु दूरगतोऽप्यधिवर्तते महमसाविति बन्धुतयोदितैः   ।
प्रणयिनो निशमय्य वधूर्बहिः स्वरमृतैरमृतैरिव निर्ववौ   । । ६.१९  । ।

मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया   ।
मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे   । । ६.२०  । ।

अरुणिताखिशैलवना मुहुर्विदधती पथिकान्परितापिनः   ।
विकचकिंशुकसंहतिरुच्चकैरुदवहद्दवहव्यवहश्रियं  । । ६.२१  । ।

रवितुरङ्गतनूरुहतुल्यतां दधति यत्र शिरीषरजोरुचः   ।
उपययौ विदधन्नवमल्लिकाः शुचिरसौ चिरसौरभसंपदः   । । ६.२२  । ।

दलितक्ॐअलपाटलकुड्मले निजवधूश्वसितानुविधायिनि   ।
मरुति वाति विलासिभिरुन्मदभ्रमदलौ मदलौल्यमुपाददे   । । ६.२३  । ।

निदधिरे दयितोरसि तत्क्षणस्पनवारितुषारभृतः स्तनाः   ।
सरसचन्दनरेणुरनुक्षणं विचकरे च करेण वरोरुभिः   । । ६.२४  । ।

स्फुरदधीरतडिन्नयना मुहुः प्रियमिवागलितोरुपयोधरा   ।
जलधरावलिरप्रतिपालितस्वसमया समयाञ्जगतीधरं  । । ६.२५  । ।

गजकदम्बकमेचकमुच्चकैर्नभसि वीक्ष्य नवाम्बुदमम्बरे   ।
अभिससार न वल्लभमङ्गना न चकमे च कमेकरसं रहः   । । ६.२६  । ।

अनुययौ विविधोपलकुण्डलद्युतिवितानकसंवलितांशुकं  ।
धुततनुर्वलयस्य पय्ॐउचः शबलिमा बलिमानमुषो वपुः   । । ६.२७  । ।

द्रुतसमीरचलैः क्षणलक्षितव्यवहिता विटपैरिव मञ्जरी   ।
नततमालनिभस्य नभस्तरोरचिररोचिररोचत वारिदैः   । । ६.२८  । ।

पटलमम्बुमुचां पथिकाङ्गना सपदि जीवितसंशयमेष्यती   ।
सनयनाम्बुसखीजन संभ्रमाद्विधुरबन्धुरबन्धुरमैक्षत   । । ६.२९  । ।

प्रवसतः सुतरामुदकम्पयद्विलकन्दलकम्पनलालितः   ।
नमयति स्म वनानि मनस्विनीजननमनो घनमारुतः   । । ६.३०  । ।

जलदपङ्क्तिरनर्तयदुन्मदंकलविलापि कलापिकदम्बकं  ।
कृतसमार्जनमर्दलमण्डलध्वनिजया निजया स्वनसंपदा   । । ६.३१  । ।

नवकदम्बजोऽरुणिताम्बरैरधिपुरन्ध्रि शिलीन्ध्रसुगन्धिभिः   ।
मनसि रागवतामनुरागिता नवनवा वनवायुभिरादधे   । । ६.३२  । ।

शमिततापमपोढमहीरजः प्रथमबिन्दुभिरम्बुमुचोऽम्भसां  ।
प्रविरलैरचलाङ्गनमङ्गनाजनसुगं न सुगन्धि न चक्रिरे   । । ६.३३  । ।

द्विरदवलक्षमलक्ष्यत स्फुरितभृङ्गमृच्छवि केतकं  ।
घनघनौघविघट्टनया दिवः कृशसिखं शशिखण्डमिव च्युतं  । । ६.३४  । ।

दलितमौक्तिकचूर्णविपाण्डवः स्फुरितनिर्झरशीकरचारवः   ।
कुटजपुष्पपरागकणाः स्फुटं विदधिरे दधिरेणुविडम्बनां  । । ६.३५  । ।

नवपयःकणक्ॐअलमालतीकुसुमसंततिसंततसङ्गिभिः   ।
प्रचलितोडुनिभैः परिपाण्डिमाः शुभरजोभरजोऽलिभिराददे   । । ६.३६  । ।

निजरजः पटवासमिवाकिरद्धृतपटोपमवारिमुचां दिशां  ।
प्रियवियुक्तवधूजनचेतसामनवनी नवनीपवनावलिः   । । ६.३७  । ।

प्रणयकोपभृतोऽपि पराङ्मुखाः सपदि वारिधरारवभीरवः   ।
प्रणयिनः परिरब्धुमथाङ्गना ववलिरे वलिरेचितमध्यमाः   । । ६.३८  । ।

विगतरागगुणोऽपि जनो न कश्चलति वाति पयोदनभस्वति   ।
अभिहितेऽलिभिरेवमिवोच्चकैरननृते ननृते नवपल्लवैः   । । ६.३९  । ।

अरमयन्भवनादचिरद्युतेः किल भयादमपयातुमनिच्छवः   ।
यदुनरेन्द्रगणं तरुणागणास्तमथ मन्मथमन्थरभाषिणः   । । ६.४०  । ।

ददतमन्तरिताहिमदीधितिं खगकुलाय कुलायनिलायितां  ।
जलदकालमबोधकृतं दिशामपराथाप रथवयवायुधः   । । ६.४१  । ।

स विकचोत्पलचक्षुषमैक्षत क्षितिभृतोऽङगगतां दयितामिव   ।
शरदमच्छगलद्वसनोपमाक्षमधनामघनाशनकीर्तनः   । । ६.४२  । ।

जगति नैशमशीतकरः करैर्वियति वारिदवृन्दमयं तमः   ।
जलजराजिषु  नैन्द्रमदिद्रवन्न महतामहताः क्व च नारयः   । । ६.४३  । ।

समय एव करोति बलाबलं प्रणिगतवन्त इतीव शरीरिणां  ।
शरदि हंसरवाः परुषीकृतस्वरमयूरमयू रमणीयतां  । । ६.४४  । ।

तनुरुहाणि पुरो विजितध्वनेर्धवलपक्षविहङ्गमकूजितैः   ।
जगलुरक्षमयेव शिखण्डिनः परिभवोऽरिभवो हि सुदुःसहः   । । ६.४५  । ।

अनुवनं वनराजिवधूमुखे बहलरागजवाधरचारुणि   ।
विकचबाणवलयोऽधिकं रुरुचिरे रुचिरेक्षणविभ्रमाः   । । ६.४६  । ।

कनकभङ्गपिशङ्गदलैर्दधे सरजसारुणकेशरचारुभिः   ।
प्रियविमानितमानवतीरुषां निरसनैरसनैरवृथार्थता   । । ६.४७  । ।

मुखसरोजरुचं मदपाटलामनुचकार चकोरदृशां यतः   ।
धृतनवातपमुत्सुकतामतो न कमलं कमलम्भयदम्भसि   । । ६.४८  । ।

विगतसस्यजिधत्समघट्टयत्कलमगोपवधूर्न मृगव्रजं  ।
श्रुततदीरितक्ॐअलगीतकध्वनिमिषेऽनिमेषेक्षणमग्रतः   । । ६.४९  । ।

कृतमदं निगदन्त इवाकुलीकृतजगत्रयमूर्जमतङ्गजं  ।
ववुरयुक्छदगुच्छसुगन्धयः सततगास्ततगानगिरोऽलिभिः   । । ६.५०  । ।

विगतवारिधरावरणाः क्वचिददृशुरुल्लसितासितासिताः   ।
क्वचिदिवेन्द्रगजाजिनकञ्चुकाः शरदि नीरदिनीर्यदेवो दिशः   । । ६.५१  । ।

विलुलितामनिलैः शरदङ्गना नवसरोरुहकेशरसम्भवां  ।
विकरितुं परिहासविधित्सया हरिवधूरिव धूलिमुधक्षिपथ् । । ६.५२  । ।

हरितपत्रमयीव मरुद्गणैः स्रगवनद्धमनोरमपल्लवा   ।
मधुरिपोरभिताम्रमुखी मुदं दिवि तता विततान शुकावलिः   । । ६.५३  । ।

स्मितसरोरुहनेत्रसरोजलामतिसितङ्गविहङ्गहसद्दिवं  ।
अकलयन्मुदितामिव सर्वतः स शरदन्तुरदिह्मुखां  । । ६.५४  । ।

गजद्वयसीरपि हैमनस्तुहिनयन्सरितः पृषतां पतिः   ।
सलिलसन्ततिमध्वगयोषितामतुनतातनुतापकृतं दृशां  । । ६.५५  । ।

इदमयुक्तमहो महदेव यद्वरतनोः स्मरयत्यनिलोऽन्यदा   ।
स्मृसयौवनसोष्मपयोधरान्सतुहिनस्तु हिनस्तु वियोगिनः   । । ६.५६  । ।

प्रियतमेन यया सरुषा स्थितं न सह सा सहसा परिरभ्य तं  ।
श्लथयितुं क्षणमक्षमतामङ्गना न सह सा सहसा कृतवेपथुः   । । ६.५७  । ।

भृशमदूयत याधरपल्लवक्षतिरनावरणा हिममारुतैः   ।
दशनरश्मिपटेन च सीत्कृतैर्निवासितेव सितेन सुनिर्ववौ   । । ६.५८  । ।

व्रणभृता सुतनोः कलसीकृतस्फुरितदन्तमरीचिमयं दधे   ।
स्फुटमिवावरणं हिमारुतैर्मृदुतया दुतयाधरलेखया   । । ६.५९  । ।

धृततुषारकणस्य नभस्वतस्तरुलताङ्गुलितर्जनविभ्रमाः   ।
पृथु निरन्तरमिष्टभुजान्तरं वनितयानितया न विषेहिरे   । । ६.६०  । ।

हिमऋतावपि ताः स्म भृशस्विदो युवतयः सुतरामुपकारिणौ.
प्रकटयत्यनुरागमकृत्रिमं स्मरमयं रमयन्ति विलासिनः   । । ६.६१  । ।

कुसुमयन्फलिनीरवैमर्दविकासिभिरहितहुंकृतिः   ।
उपवनं निरभर्सयत प्रियान्वियुवतीर्युवतीः शिशिरानिलः   । । ६.६२  । ।

उपचितेषु परेष्वसमर्थतां व्रजति कालवशाद्बलवानपि   ।
तपसि मन्दगभस्तिरभीषुमान्नहि महाहिमनिकरोऽभवथ् । । ६.६३  । ।

अबिषिषेणयिषुं भुवनानि यः स्मरमिवाख्यात लोध्ररचश्चयः   ।
क्षुभितसैन्यपरागविपाण्डुरद्युतिरयं तिरयन्नुभूद्दिशः   । । ६.६४  । ।

शिशिरमासमपास्य गुणोस्य नः क इव शीतहरस्य कुचोष्मणः   ।
इति धियास्तरुषः परिरेभिरे घनमतो नमतोऽनुमतान्प्रियाः   । । ६.६५  । ।

अधिलवङ्गममी रजसाधिकं मलिनिताः सुमनोदलतालिनः   ।
स्फुटमिति प्रसवेन पुरोऽहसत्सपदि कुन्दलता दलतालिनः   । । ६.६६  । ।

अतिसुरभिभाजि पुष्पश्रियामतुनुतरतयेष सन्तानकः   ।
तरुणपरभृतः स्वनं रागिणामतनुत रतये वसन्तानकः   । । ६.६७  । ।

नोज्झितुं युवतिमानसनिरासे दक्षमिष्टमधुवासरसां  ।
चूतमालिरलिनामतिरागादक्षमिष्ट मधुवासरसारं  । । ६.६८  । ।

जगद्वशीकर्तुमिमाः स्मरस्य प्रभावनीके तनवै जयन्तीः   ।
इत्यस्य तेने कदलीर्मधुश्रीः प्रभावनी केतनवैजयन्तीः   । । ६.६९  । ।

स्मररागमयी वपुस्तमिस्रा परिसस्तार रवेरसत्यवशं  ।
प्रियमाप दिवापि कोकिले स्त्री परितस्ताररवे रसत्वश्यं   । । ६.७०  । ।

वपुरम्बुविहारमिहं शुचिना रुचिरं कमनीयतरा गतिमा   ।
रमणेन रमण्यचिरांशुलतारुचिरङ्कमनीयत रागमिता   । । ६.७१  । ।

मुदमब्दभुवामपां मयूराः सहसायन्त नदी पपाट लाभे   ।
अलिना रतमालिनी शिल्लीन्ध्रे सह सायन्तनदीपपाटलाभे   । । ६.७२  । ।

कुटजानि वीक्ष्य शिखिभिः शिखरीन्द्रं समयावनौ घनमदभ्रमराणि   ।
गगनं च गीतनिनदस्य गिरोच्चैः समया वनौघनमदभ्रमराणि   । । ६.७३  । ।

अभीष्ठमासाद्य चिराय काले समुद्धृताशां कमनी चकाशे   ।
योषिन्मनोजन्मसुखोदयेषु समुद्धृताशङ्गमनीचकाशे   । । ६.७४  । ।

स्तनयोः समयेन याङ्गनानामभिनद्धारसमा न सा रसेन   ।
परिरम्भरुचिं ततिर्जलानामभिनद्धा रसमानसारसेन   । । ६.७५  । ।

जातप्रीतिर्या मधुरेणानुवनान्तं
कामे कान्ते सारसिकाकुरुतेन   ।
तत्सम्पर्क प्राप्य पुरा मोहनलीलां
कामेकान्ते सा रसिका का कुरुते न   । । ६.७६  । ।

कान्ताजनेन रहसि प्रसभं गृहीत-
केशे रते स्मरसहासवतोपितेन   ।
प्रेम्णा मनस्तु रजनीष्वपि हैमनीषु
के शेरते स्म रसहासवतोपितेन   । । ६.७७  । ।

गतवतामपि विस्मयमुच्चकैरसकलामलपल्लवलीलया   ।
मधुकृतामसकृद्गिरमावली रसकलामलपल्लवलीलया   । । ६.७८  । ।

कुर्वन्तमित्यतिभरेण नगानवाचः
पुष्पैविराममलिनां च न गानवाचः   ।
श्रीमान्समस्तमनुसानु गिरौविहर्तु
बिभ्रत्यचोदि स मयूरगिरा विहर्तुं  । । ६.७९  । ।


इति माघकृते शिशुपालवधमहाकाव्ये षष्ठः सर्गः

No comments:

Post a Comment