माघकृते शिशुपालवधमहाकाव्ये सप्तमः सर्गः Shishupalavadha of Magha 7th Sarga

माघकृते शिशुपालवधमहाकाव्ये सप्तमः सर्गः

अनुगिरमृतुभिर्वितायमानामथ स विलोकयितुं वनान्तलक्ष्मीं  ।
निरगमदभिराद्धुमदृतानां भवति महत्सु न निष्फलः प्रयासः   । । ७.१  । ।

दधति सुमनसो वनानि बह्वीर्युवतियुता यदवः प्रयातुमीषुः   ।
मनसिमहास्त्रमन्यथामी न कुसुमपञ्चकमलं विसोढुं  । । ७.२  । ।

अवसमधिगम्य तं हरन्तयो हृदयमयत्नकृतोज्वलस्वरूपाः   ।
अवनिषु पदमङ्गनास्तदानीं न्यदधत विभ्रमसम्पदोऽङगनासु   । । ७.३  । ।

नखरुचिरचिन्द्रचापं ललितगतेषु गतागतं दधाना   ।
मुखरितवलयं पृथौ नितम्बे भुजलतिका मुहुरस्खलत्तरुण्याः   । । ७.४  । ।

अतियपरिणाह्ववान्वितेने बहुतरमर्पितकिङ्किणीकः   ।
अलघुनि जघनस्थलेऽपरस्या ध्वनिमधिकं कलमेखलाकलापः   । । ७.५  । ।

गुरुनिबिडनितम्बबिम्बभाराक्रमणनिपीडितमङ्गनाजनस्य   ।
चरणयुगमसुस्रुवत्पदेषु स्वरसमसक्तमलक्तकच्छलेन   । । ७.६  । ।

तव सपदि समीपमानये तामहमिति तस्य मयाग्रतोऽभ्यधायि   ।
अतिरभसाकृतालघुप्रतिज्ञामनृतगिरं गुणगौरि मा कृथा मां  । । ७.७  । ।

न च सुतनु न वेद्मि यन्महीयानसुनिरसस्तव निश्चयः परेण   ।
वितथयति न जानातु मद्वचोऽसाविति च तथापि सखीषु मेऽभिमानः   । । ७.८  । ।

सततमनभिभाषणं मया ते परिणमितं भवतीमनानयन्तया   ।
त्वयि तदिति विरोधनिश्चितायां भवति भवत्वसुहृज्जनः सकामः   । । ७.९  । ।

गतधृतिरवलम्बितुं बतासूननलमनालपनादहं भवत्याः   ।
प्रणयति यदि न प्रसादबुद्धिर्भव मम मानिनि जीविते दयालुः   । । ७.१०  । ।

प्रियमिति वनिता नितान्तमागःस्मरणसरोषषकषायिताक्षी   ।
चरणगतसखीवचोऽनुरोधात्किल कथमप्यनुकूलयाञ्चकार   । । ७.११  । ।

द्रुतपदमिति मा वयस्य यासिर्ननु सुतनुं परिपालयानुयान्तीं  ।
नहि न विदितखेदमेदतीयस्तनजघनोद्वहने तवापि चेतः   । । ७.१२  । ।

इति वदति सखीजनेऽनुरागाद्दयिततमामपरश्चिरं प्रतीक्ष्य   ।
तदनुगमवशादनायतानि न्यधित मिमान इवावनिं पदानि   । । ७.१३  । ।

यदि मयि लघिमानमागतायां तव धृतिरस्ति गतास्मि सम्प्रतीयं  ।
द्रुततरपदपातमापपात प्रियमिति कोपपदेन कापि संख्या   । । ७.१४  । ।

अविरलपुलकः सह व्रजन्त्याः प्रतिपदमेकतरः स्तनस्तरुण्याः   ।
घटितविघटितः प्रियस्य वक्षस्तटभुवि कन्दुकविभ्रमं बभार   । । ७.१५  । ।

अशिथिलमपरावसज्य कण्ठे दृढपरिरब्धबृहद्बहिस्तनेन   ।
हृषिततनुरुहा भुजेन भर्तृर्मृदुममृदु व्यतिविद्धमेकबाहुं  । । ७.१६  । ।

मुहुरसुसममाध्नती नितान्तं प्रणदितकाञ्चि नितम्बमण्डलेन   ।
विषमितपृथुहारयष्टि तिर्यक्कुचमितरं तदुरस्थले निपीड्य   । । ७.१७  । ।

गुरुतरकलनूपुरानुनादं सललितनर्तितवामपादपद्मा   ।
इतरदतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम   । । ७.१८  । ।

लधुललितपदं तदंसपीठद्वयनिहितोभयपाणिपल्लवान्या   ।
सकठिनकुचचूचुकप्रणोदं प्रियमबला सविलासमन्विनाय   । । ७.१९  । ।

जघनमेलघपीवरोरु कृच्छ्रादुरुनिबिरीसनितम्बभारखेदि   ।
दयिततमशिरोधरावलम्बिस्वभुजलताविभवेन काचिदूहे   । । ७.२०  । ।

अनुवपुरपरेण बाहुमूलप्रहितभुजाकलितस्तनेन निन्ये   ।
निहितदशनवाससा कपोले विषमवितीर्णपदं बलादिवान्या   । । ७.२१  । ।

अनुवनमसितभ्रुवः सखीभिः सह पदवीमपरः पुरोगतायाः   ।
उरसि सरसरागपदलेखाप्रतिमतयानुययावसंशयानः   । । ७.२२  । ।
मदनरसमहौघपूर्णनाभीह्रदपरिवाहितर्ॐअराजयस्ताः   ।
सरित इव सविभ्रमप्रयातप्रणदितहंसकभूषणा विरेजुः   । । ७.२३  । ।

श्रुतिपथमधुराणि सारसानामनुनदि सुश्रुविरे रुतानि ताभिः   ।
विदधति जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्कां  । । ७.२४  । ।

मधुमथनवधूरिवाह्वयन्ति भ्रमरकुलानि जगुर्यदुत्सुकानि   ।
तदभिनयमिवावलिर्वनानामतनुत नूतनपल्लवाङुगुलीभिः   । । ७.२५  । ।

असकलकलिकाकुलीकृतालिस्खलनविकीर्णविकासिकेशराणां  ।
मरुदवनिरुहां रजो वधूभ्यः मुपहरन्विचकार कोरकाणि   । । ७.२६  । ।

उपवनपवनानुपातदक्षैरलिभिरलाभि यदङ्गनाजनस्य   ।
परिमलविषयस्तदुन्नतानामनुगमने खलु सम्पदोऽग्रतःस्थाः   । । ७.२७  । ।

रथचरणधराङ्गनाकराब्जव्यतिकरसम्पदुपात्तस्ॐअनस्याः   ।
जगति  सुमनसस्तदादि नूनं दधति परिस्फुटमर्थतोऽभिधानं  । । ७.२८  । ।

अभिमुखपतितैर्गुणप्रकर्षादवजितमुद्धतिमुज्वलां दधानैः   ।
तरुकिसलयजालमग्रहस्तैः प्रसभमनीयत भङ्गमङ्गनानां  । । ७.२९  । ।

मुदितमधुभुजो भुजेन शाखाश्चलितविशृङ्खलशङ्खकं धुवत्याः   ।
तरुरतिशायितापराङ्गनायाः शिरसि मुदेव मुमोच पुष्पवर्षं  । । ७.३०  । ।

अनवरतरसेन रागभाजा करजपरिक्षतिलब्धसंस्तवेन   ।
सपदि तरुणपल्लवेन वध्वा विगतदयं खलु खण्डितेन मम्ले   । । ७.३१  । ।

प्रियमभिकुसुमोद्यतस्य बाहोर्नवनखमण्डनचारु मूलमन्या   ।
मुहुरितरकराहितेन पीनस्तनतटरोधि तिरोदधेऽंशुकेन   । । ७.३२  । ।

विततवलिविभाव्यपाण्डुलेखाकृतपरभाघविलीनर्ॐअराजिः   ।
कृशमपि कृशतां पुनर्नयन्ती विपुलतरोन्मुखलोचनावलग्नं  । । ७.३३  । ।

प्रसकलकुचबन्धुरोद्धुरोरःप्रसभविभिभिन्नतनूत्तरीयबन्धा   ।
अनमवदुदरोच्छ्वसद्दुकूलस्फुटतरलक्ष्यगभीरनाबिमूला   । । ७.३४  । ।

व्यवहितमविजानाती किलान्तवर्णभुवि वल्लभमाभिमुख्यभाजं  ।
अधिविटपि सलीलमग्रपुष्पग्रहणपदेन चिरं विलम्ब्य काचिथ् । । ७.३५  । ।

अथ किल कथिते सखीभिरत्र क्षणमपरेव ससंभ्रमा भवन्ती   ।
शिथिलितकुसुमाकुलाग्रपाणिः प्रतिपदसंयमितांशुकावृताङ्गी   । । ७.३६  । ।

कृतभयपरितोषसन्निपातं सचकितसस्मितवक्त्रवारिजश्रीः   ।
मनसिजगुरुतत्क्षणोपदिष्टं किमपि रासेन रसन्तरं भजन्ती   । । ७.३७  । ।

अवनदवदनेन्दुरिच्छतीव व्यवधिमधीरतया यदस्थितास्मै   ।
अहरत सुतरामतोऽस्य चेतः स्फुटमभिभूषयति स्त्रियस्त्रपैव   । । ७.३८  । ।

किसलयशकलेष्ववाचनीयाः पुलकिनि केवलमङ्गकेनिधेयाः    ।
नखपदलिपयोऽपि दीपितार्थाः प्रणिदधिरे दयितैरनङ्गलेखाः   । । ७.३९  । ।

कृतकृतकरुषा सखीमपास्य त्वमकुशलेति कयाचिदात्मनैव   ।
अभिमतमभि साभिलाषमाविष्कृतभुजमूलमबन्धि मूर्ध्नि माला   । । ७.४०  । ।

अभिमुखमुपयाति मा स्म किञ्चित्त्वमभिदधाः पटले मधुव्रतानां  ।
मधुसुरभिमुखाब्जगन्धलब्धेरधिकमधित्वदनेन मा निपाति   । । ७.४१  । ।

सरजसमकरन्दनिर्भरासु प्रसवविभूतिषु भूरुहां विरक्तः   ।
ध्रुवममृतपनामवाञ्छयासावधरममुं मधुपस्तवाजिहीते   । । ७.४२  । ।

इति वदति सखीजने निमीलद्विगुणितसान्द्रतराक्षिपक्ष्ममाला   ।
अपदतलिभयेन भर्तुरङ्गं भवति हि विक्लवता गुणोऽङ्गनानां  । । ७.४३  । ।

मुखकमलकमुन्नमय्य यूना यदभिनवोढवधूर्बलादचुम्बि   ।
तदपि न किल बालपल्लवाग्रग्रहयापरया विविदे विदग्धसक्या   । । ७.४४  । ।

व्रततिविततिभिस्तिरोहितायां प्रतियुवतौ वदनं प्रियः प्रियायाः   ।
यदधयदधरावलोपनृत्यत्करवलयस्वनितेन तद्विवव्रे   । । ७.४५  । ।

विलसितमनुकुर्वती पुरस्ताद्धरणिरुहाधिरुहो वधूर्लतायाः   ।
रमणमृजुतया पुरः सखीनामकलितचापलदोषमालिलिङ्ग   । । ७.४६  । ।

सललिकमवलम्ब्य पाणिनांसे सहचरमुच्छ्रतगुच्छवाञ्छयान्या   ।
सकलकलभकुम्भविभ्रमाभ्यामुरसि रसादवतस्तरे स्तनाभ्यां  । । ७.४७  । ।

मृदुचरणतलाग्रदुःस्थितत्वादसहतरा कुचकुम्भयोर्भरस्य   ।
उपरिनिरवलम्बनं प्रियस्य न्यपतदथोच्चतरोच्चिचीषयान्या   । । ७.४८  । ।

उपरिजतरुजानि याजमानां कुशलतया परिरम्भलोलुपोऽन्यः   ।
प्रथितपृथुपयोधरां गृहाण स्वयमिति मुग्धवधूमुदास दोर्भ्यां  । । ७.४९  । ।

इदमिदमिति भूरुहां प्रसूनैर्मुहुरतिलोभयता पुरःपुरोऽन्या   ।
अनुरहसमनायि नायकेन त्वरयति रन्तुमहो जनं मनोभूः   । । ७.५०  । ।

विजनमिति बलादमुं गृहीत्वा क्षणमथ वीक्ष्य विपक्षमन्तिकोऽन्या   ।
अभिपतितुमना लघुत्वभीतेरभवदमुञचति वल्लभेऽतिगुर्वी   । । ७.५१  । ।

अधिरजनि जगाम धाम तस्याः प्रियतमयेति रुषा स्रजावनद्धः   ।
पदमपि चलितुं युवा न सेहे किमिव न शक्तिहरं ससाध्वसानां  । । ७.५२  । ।

न खलु वयममुष्य दानयोग्याः पिबति च पाति च यासकौ रहस्त्वां  ।
व्रज विचपममुं ददस्व तस्यै भवतु यतः सदृशोश्चिराय योगः   । । ७.५३  । ।

तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्पकर्णपूरैः   ।
ननु जनविदितैर्भवद्व्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मं  । । ७.५४  । ।

मुहुरुपहसितामिवालिनादैर्वितरसि नः कालिकां किमर्थमेनां  ।
वसतिमुपगतेन धाम्नि तस्याः शठ कलिरेष महांस्त्वयाद्य दत्तः   । । ७.५५  । ।

इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेशरेण   ।
श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च   । । ७.५६  । ।

विनयति सुदृशो दृशः परागं प्रणयिनि कौसुममाननानिलेन   ।
तदहितयुवतेरभीक्ष्णमक्ष्णोर्द्वयमपि रोषरझोभिरापुपूरे   । । ७.५७  । ।

स्फुचमिदमभिचारमन्त्र एव प्रतियुवतेरभिधानमङ्गनानां  ।
वरतनुरमुनोपहूय पत्या मृदुकुसुमेन यदाहताप्यमूर्च्छथ् । । ७.५८  । ।

समदनमवतंसितेऽद्कर्णं प्रणयवता कुसुमे सुमध्यमायाः   ।
व्रजदपि लघुतां बभूव भारः सपदि हिरण्मयमण्डनं सपत्न्याः   । । ७.५९  । ।

अवजितमधुना तवाहमक्ष्णो रुचितयेत्यवनम्य लज्जयेव   ।
श्रवणकुवलयं विलासवत्या भ्रमररुतैरुपकर्णमाचचक्षे   । । ७.६०  । ।

अवचितकुसुमा विहाय वल्लीर्युवतीषु क्ॐअलमाल्यमालिनीषु   ।
पदमुपदधिरे कुलान्यलीनां न परिचयो मलिनात्मनां प्रधानं  । । ७.६१  । ।

श्लथशिरसिजपातभारादिव नितरां नतिमद्भिरंसभागैः   ।
मुकुलितनयनैर्मुखारविन्दैर्घनमहतामिव पक्ष्मणां भरेण   । । ७.६२  । ।

अदिकमरुणिमानमुद्वहद्भिर्विकसदशीतमरीचिरशमिजालैः   ।
परिचितपरिचुम्बनाभियोगादपगतकुङ्कुमरेणुभिः कपोलैः   । । ७.६३  । ।

अवसितललितक्रियेण बाह्वोर्ललिततरेण तनीयसा युगेन   ।
सरसकिसलयानुरञ्जितैर्वा करकमलैः पुनरुक्तभाभिः   । । ७.६४  । ।

स्मरसरसमुरःस्थलेन पत्युर्विनिमयसंक्रमिताङ्गरागरागैः   ।
भृशमतिशयखेदसम्पदेव स्तनयुगलैरितरेतरं निषण्णैः   । । ७.६५  । ।

अतनुकुचभरानतेन भूयः श्रमजनितानतिना शरीरकेण   ।
अनुचितगतिसादनिःसहत्वं कलभकरोरुभिरूरुभिर्दधानैः   । । ७.६६  । ।

अपगतनवयावकैश्चिराय क्षितिगमनेन पुनर्वितीर्णरागैः   ।
कथमपि चरणोत्पलैश्चलद्भिर्भृशाविनिवेशात्परस्परस्य   । । ७.६७  । ।

मुहुरिति वनविभ्रमाभिषङ्गादतमि तदा नितरां नितम्बिनीभिः   ।
मृदुतरतनवोऽनलसाः प्रकृत्या चिरमपि ताः किमुत प्रयासभाजः   । । ७.६८  । ।

प्रतममलघुमौक्तकाभमासीच्छ्रमजलमुज्ज्वलगण्डमण्डलेषु   ।
कठिनकुचतटाग्रपाति पश्चादथ शतसर्करतां जगाम तासां  । । ७.६९  । ।

विपुलकमपि यौवनोद्धतानां घनपुलकोदयक्ॐअलं चकाशे   ।
परिमलितमपि प्रियैः प्रकामं कुचयुगमुज्ज्वलमेष कामिनीनां  । । ७.७०  । ।

अविरतकुसुमावचायखेदान्निहितभुजालतयैकयोपकण्ठं  ।
विपुलतरनिरन्तरालग्नस्तनपिहितप्रियवक्षसा ललम्बे   । । ७.७१  । ।

अभिमतमभितः कृताङ्गभङ्गा कुचयुगमुन्नतिवित्तमुन्नमय्य   ।
तनुरभिलषितं क्लमच्छलेन व्यवृणुत वेल्लितबाहुवल्लरीका   । । ७.७२  । ।

हिमलतसदृशः श्रमोदबिन्दूनुपनयता किल नूतनोढवध्वाः   ।
कुचकलशकिशोरकौ कथञ्चित्तरलतया तरुणेन पस्पृशाते   । । ७.७३  । ।

गत्वोद्रेकं जघनपुलिने रुद्धमध्यप्रदेशः क्रमन्नूरुद्रुमभुजलताः पूर्णनाभीह्रदान्ताः   ।
उल्लङ्घ्योच्चैः कुचतटभुवं प्लावयन्रोकूपान्स्वेदपूरो युवतिसरितां व्याप गण्डस्थलानि   । । ७.७४  । ।

प्रियकरपरिमार्गदङ्गनानां यदाभूत्पुनरधिकतरैव स्वेदतोयोदयश्रीः   ।
अथ वपुरभिषेक्तुं तास्तदाम्भोभिरीषुर्वनविहरणखेदम्लानमम्लानशोभाः   । । ७.७५  । ।


इति माघकृते शिशुपालवधमहाकाव्ये सप्तमः सर्गः

No comments:

Post a Comment