Sanskrit Toolbar

Powered by Conduit

शिशुपालवधमहाकाव्ये पञ्चदशः सर्गः Shishupalavadha Of Magha 15th Sarga

माघकृते शिशुपालवधमहाकाव्ये पञ्चदशः सर्गः

अथतत्र पाण्डुतनयेन सदसि विहितं मुरद्विषः   ।
मानमसहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनां  । । १५.१  । ।

पुर एव शार्ङ्गिणि सवैरमथ पुनरमुं तदर्चया   ।
मन्युरभजदवगाढतरः समदोषकाल इव देहिनं ज्वरः   । । १५.२  । ।

अभितर्जयन्निव समस्तनृपगणमसावकम्पयथ् ।
लोलमुकुटमणिरश्मि शनैरशनैः प्रकम्पितजगत्त्रयं शिरः   । । १५.३  । ।
स वमन्रुषाश्रु घनघर्मविगलदुरुगण्डमण्डलः   ।
स्वेदजलकणकरालकरो व्यरुचत्प्रभिन्न इव कुञ्जरस्त्रिधा   । । १५.४  । ।

स निकामघर्मितमभीक्ष्णमधुवदवधूतराजकः   ।
क्षिप्तबहुलजलबिन्दु वपुः प्रलयार्णवोत्थित इवादिशूकरः   । । १५.५  । ।

क्षणमाश्लिषद्द्घटितशैलशिखरकठिनांसमण्डनः   ।
स्तम्भमुपहितविधूतिमसावधिकावधूनितसमस्तसंसदं  । । १५.६  । ।

कनकाङ्गदद्युतिभिरस्य गमितमरुचत्पिशङ्गतां  ।
क्रोधमयशिखिशिखापटलैः परितः परीतमिव बाहुमण्डलं  । । १५.७  । ।

कृतसन्निधानमिव तस्य पुनरपि तृतीयचक्षुषा   ।
क्रूरमजनि कुटिलभ्रु गुरुभ्रुकुटीकठोरितललाटमाननं  । । १५.८  । ।

अतिरक्तभावमुपगम्य कृतमतिरमुष्य साहसे   ।
दृष्टिरगणितभयासिलतामलम्बते स्म सभया सखीमिव   । । १५.९  । ।

करकुड्मलेन निजमूरुमुरुतरनगाश्मकर्कशं  ।
त्रस्तचपलचलमानजनश्रुतभीमनादमयमाहतोच्चकैः   । । १५.१०  । ।

इति चक्रुधे भृशमनेन ननु महदवाप्य विप्रियं  ।
याति विकृतिमपि संवृतिमत्किमु यन्निसर्गनिरवग्रहं मनः   । । १५.११  । ।

प्रथमं शरीरजविकारकृतमुकुलबन्धमव्यथी   ।
भाविकलहफलयोगमसौ वचनेन कोपकुसुमं व्यचीकसथ् । । १५.१२  । ।

ध्वनयन्सभामथ सनीरघनरवगभीरवागभीः   ।
वाचमवददतिरोषवशादतिनिष्ठुरस्फुटतराक्षरमसौ   । । १५.१३  । ।

यदपूपुजस्त्वमिह पार्थ मुरजितमपूजितं सतां  ।
प्रेम विलसति महत्तदहो दयितं जनः खलु गुणीति मन्यते   । । १५.१४  । ।

यदराज्ञि राजवदिहार्घ्यमुपहितमिदं मुरद्विषि   ।
ग्राम्यमृग इव हविस्तदयं भजते ज्वलत्सु न महीशवह्निषु   । । १५.१५  । ।

अनृतां गिरं न गदसीति जगति पटहैर्विघुष्यसे   ।
निन्द्यमथ च हरिमर्चयतस्तव कर्मणैव विकसत्यसत्यता   । । १५.१६  । ।

तव धर्मराज इति नाम कथमिदमपष्ठु पठ्यते   ।
भ्ॐअदिनमभिदधत्यथवा भृशमप्रशस्तमपि मङ्गलं जनाः   । । १५.१७  । ।

यदि वार्चनीयतम एष किमपि भवतां पृथासुताः   ।
शौरिरवनिपतिभिर्निखिलैरवमाननार्थमिह किं निमन्त्रितैः   । । १५.१८  । ।

अथवा न धर्ममसुबोधसमयमवयात बालिशाः   ।
खाममयमिह वृथापालितो हतबुद्धिरप्रणिहितः सरित्सुतः   । । १५.१९  । ।

स्वयमेव शन्तनुतनूज यमपि गणमर्घ्यमभ्यधाः   ।
तत्र मुररिपुरयं कतमो यमनिन्द्यबन्दिवदभिष्टुषे वृथा   । । १५.२०  । ।

अवनीभृतां त्वमपहाय गणमतिजडः समुन्नतं  ।
नीचि नियतमिह यच्चपलो निरतः स्फुटं भवसि निम्नगासुतः   । । १५.२१  । ।

प्रतिपत्तुमङ्ग घटते च न तव नृपयोग्यमर्हणं  ।
कृष्ण कलय ननु कोऽहमिति स्फुटमापदां पदमनात्मवेदिता   । । १५.२२  । ।

असुरस्त्वया न्यवधि कोऽपि मधुरिति कथं प्रतीयते   ।
दण्डदलितसरघः प्रथसे मधुसूदनस्त्वमिति सूदयन्मधु   । । १५.२३  । ।

मुचुकुन्दतल्पशरणस्य मगधपतिशातितौजसः   ।
सिद्धमबल सबलत्वमहो तव रोहिणीततनयसाहचर्यतः   । । १५.२४  । ।

छलयन्प्रजास्त्वमनृतेन कपटपटुरैन्द्रजालिकः    ।
प्रीतिमनुभवसि नग्नजितः सुतयेष्टसत्य इति सम्प्रतीयसे   । । १५.२५  । ।

धृतवान्न चक्रमरिचक्रभयचकितमाहवे निजं  ।
चक्रधर इति रथाङ्गमदः सततं बिभर्षि भुवनेषु रूढये   । । १५.२६  । ।

जगति श्रिया विरहितोऽपि यदुदधिसुतामुपायथाः   ।
ज्ञातिजनजनितनामपदां त्वमतः श्रियः पतिरिति प्रथामगाः   । । १५.२७  । ।

अभिशत्रु संयति कदाचिदविहितपराक्रमोऽपि यथ् ।
व्य्ॐनि कथमपि चकर्थ पदं व्यपदिश्यते जगति विक्रमीत्यतः   । । १५.२८  । ।

पृथिवीं बिभर्थ यदि पूर्वमिदमपि गुणाय वर्तते    ।
भूमिभृदिति परहारितभूस्त्वमुदाह्रियस्व कथमन्यथा जनैः   । । १५.२९  । ।

तव धन्यतेयमपि सर्वनृपतितुलितोऽपि यत्क्षणं  ।
क्लान्तकरतलधृताचलकः पृथिवीतले तुलितभूभृदुच्यसे   । । १५.३०  । ।

त्वमशक्नुवन्न शुभकर्मनिरत! परिपाकदारुणं  ।
जेतुमकुशलमतिर्नरकं यशसेऽधिलोकमजयः सुतं भुवः   । । १५.३१  । ।

सकलैर्वपुः सकलदोषसमुदितमिदं गुणैस्तव   ।
त्यक्तमपगुण गुणस्त्रितयत्यजनप्रयासमुपयासि किं मुधा   । । १५.३२  । ।

त्वयि पूजनं जगति जाल्म कृतमिदमपाकृते गुणैः   ।
हासकरमघटते नितरां शिरसीव कङ्कतमपेतमूर्धजे   । । १५.३३  । ।

मृगविद्विषामिव यदित्थमजनि मिषतां पृथासुतैः   ।
अस्य वनशुन इवापचितिः परिभाव एव भवतां भुवोऽधिपाः   । । १५.३४  । ।

अवधीज्जनङ्गम इवैष यदि हतवृषो वृषं ननु   ।
स्पर्शमशुचिवपुरर्हति न प्रतिमाननां तु नितरां नृपोचितां  । । १५.३५  । ।

यदि नाङ्गनेति मतिरस्य मृदुरजनि पूतनां प्रति   ।
स्तन्यमघृणमनसः पिबतः किल धर्मतो भवति सा जनन्यपि   । । १५.३६  । ।

शकटव्युदासतरुभङ्गधरणिधरधारणादिकं  ।
कर्म यदयमकरोत्तरलः स्थिरचेतसां क इव तेन विस्मयः   । । १५.३७  । ।

अयमुग्रसेनतनयस्य नृपशुरपरः पशूनवन्  ।
स्वमिवधमसुकरं पुरुषैः कुरुते स्म यत्परममेतदद्भुतं  । । १५.३८  । ।

इतिवाचमुद्धतमुदीर्य सपदि सह वेणुदारिणा   ।
सोढरिपुबलभरोऽसहनः स जहास दत्तकरतालमुच्चकैः   । । १५.३९  । ।

कटुनापि चैद्यवचनेन विकृतिमगमन्न माधवः    ।
सत्यनियतवचसं वचसा सुजनं जनाश्चलयितुं क ईशते   । । १५.४०  । ।

न चतं तदेति शपमानमपि यदुनृपाः प्रचुक्रुधुः   ।
शौरिसमयनिगृहीतधियः प्रभुचित्तमेव हि जनोऽनुवर्तते   । । १५.४१  । ।

विहितागसो मुहुरसङ्घ्यनिजवचनदामसंयतः    ।
तस्य कतिथ इति तत्प्रथमं मनसा समाख्यदपराधमच्युतः   । । १५.४२  । ।

स्मृतिवर्त्म तस्य न समस्तमपकृतमियाय विद्विषः   ।
स्मर्तुमधिगतगुणस्मरणाः पटवो न दोषमखिलं खलूत्तमाः   । । १५.४३  । ।

नृपतावधिक्षिपति शौरिमथ सुरसरित्सुतो वचः   ।
स्माह चलयति भुवं मरुति क्षुभितस्य नादमनुकुर्वदम्बुधेः   । । १५.४४  । ।

अथ गौरवेण परिवादमपरिगणयंस्तमात्मनः   ।
प्राह मुररिपुतिरस्करणक्षुभितः स्म वाचमिति जाह्नवीसुतः   । । १५.४५  । ।

विहितं मयाद्य सदसीदमपमृषितमच्युतार्चनं  ।
यस्य नमयतु स चापमयं चरणः कृतः शिरसि सर्वभूभृतां  । । १५.४६  । ।

इतिभीष्मभाषितवचोर्ऽथमधिगतवतामिव क्षणाथ् ।
क्षोभमगमदतिमात्रमथो शिशुपालपक्षपृथिवीभृतां गणः   । । १५.४७  । ।

शितितारकानुमितताम्रनयनमरुणीकृतं क्रुधा   ।
बाणवदनमुददीपि भिये जगतः सकीलमिव सूर्यमण्डलं  । । १५.४८  । ।

प्रविदारितारुणतरोग्रनयनकुसुमोज्ज्वलः स्फुरन्  ।
प्रातरहिमकरताम्रतनुर्विषजद्रुमोऽपर इवाभवद्द्रुमः   । । १५.४९  । ।

अनिशान्तवैरदहनेन विरहितवतान्तरार्द्रतां  ।
कोपमरुदभिहितेन भृशं नरकात्मजेन तरुणेव जज्वले   । । १५.५०  । ।

अभिधित्सतः किमपि राहुवदनविकृतं व्यभाव्यत   ।
ग्रस्तशशधरमिवोपलसत्सितदन्तपङ्क्ति मुखमुत्तमौजसः   । । १५.५१  । ।

कुपिताकृतिं प्रथममेव हसितमशनैरसूचयथ् ।
क्रुद्धमशनिदलिताद्रितटध्वनि दन्तवक्रमरिचक्रभीषणं  । । १५.५२  । ।

प्रतिघः कुतोऽपि समुपेत्य नरपतिगणं समाश्रयथ् ।
जामिहरणजनितानुशयः समुदाचचार निज एव रुक्मिणः   । । १५.५३  । ।

चरणेन हन्ति सुबलः स्म शिथिलितमहीध्रबन्धनां  ।
तीरतरलजलराशिजलामवभुग्नभोगिफणमण्डलां भुवं  । । १५.५४  । ।

कुपितेषु राजषु तथापि रथचरणपाणिपूजया   ।
चित्तकलितकलहागमनो मुदमाहुकिः सुहृदिवाधिकां दधौ   । । १५.५५  । ।

गुरुकोपरुद्धपदमापदसितयवनस्य रोद्रतां  ।
व्यात्तमशितुमिव सर्वजगद्विकरालमास्यकुहरं विवक्षतः   । । १५.५६  । ।

विवृतोरुबाहुपरिघेण सरभसपदं निधित्सता   ।
हन्तुमखिलनृपतीन्वसुना वसने विलम्बिनि निजे विचस्खले   । । १५.५७  । ।

इति तत्तदा विकृतरूपमभजत्तदविभिन्नचेतसं  ।
मारबलमिव भयङ्करतां हरिबोधिसत्वमभि राजमण्डलं  । । १५.५८  । ।

रमसादुदस्थुरथ युद्धमनुचितभियोऽभिलाषुकाः   ।
सान्द्रमुकुटकिरणोच्छलितस्फटिकांशवः सदसि मेदिनीभृतः   । । १५.५९  । ।

स्फुरमाणनेत्रकुसुमोष्ठदलमभृतभूभृदङ्घ्रिपैः   ।
धूतपृथुभुजलतं चलितैर्द्रुतवातपातवनविभ्रमं सदः   । । १५.६०  । ।

हरिमप्यमंसत तृणाय कुरुपतिमजीगणन्न वा   ।
मानतुलितभुवनत्रितयाः सरितः सुतादबिभयुर्नभूभृतः   । । १५.६१  । ।

गुरुनिःश्वसन्नथ विलोलसदवथुवपुर्वचोविषं  ।
कीर्णदशनकिरणाग्निकणः फणवानिवैष विससर्ज चेदिपः   । । १५.६२  । ।

किमहो नृपाः समममीभिरुपपतिसुतैर्न पञ्चभिः   ।
वध्यमभिहत भुजिष्यममुं सह चानया स्थविरराजकन्यया   । । १५.६३  । ।

अथवाध्वमेव खलु यूयमगणितमरुद्गणौजसः   ।
वस्तु कियदिदमयं न मृधे मम केवलमस्य मुखमीक्षितुं क्षमः   । । १५.६४  । ।

विदतुर्यमुत्तमशेषपरिषदि नदीजधर्मजौ   ।
यातु निकषमधियुद्धमसौ वचनेन किं भवतु साध्वसाधु वा   । । १५.६५  । ।

अचिरान्मया सह गतस्य समरमुरगारिलक्ष्मणः   ।
तीक्ष्णविशिखमुखपीतमसृक्पततां गणैः पिबतु सार्धमुर्वरा   । । १५.६६  । ।

अभिधाय रूक्षमिति मा स्म गम इति पृथासुतेरितां  ।
वाचमनुनयपरां स ततः सहसावकर्ण्य निरियाय संसदः   । । १५.६७  । ।

गृहमागताय कृपया च कथमपि निसर्गदक्षिणाः   ।
क्षान्तिमहितमनसो जननीस्वसुरात्मजाय चुकुपुर्न पाण्डवाः   । । १५.६८  । ।

चलितं ततोऽनभिहतेच्छमवनिपतियज्ञभूमितः   ।
तूर्णमथ ययुमिवानुययुर्दमघोषसूनुमवनीशसूनवः   । । १५.६९  । ।

विशिखान्तराण्यतिपपात सपदि जवनैः स वाजिभिः   ।
द्रष्टुमलघुरभसापातिता वनिताश्चकार न सकामचेतसः   । । १५.७०  । ।

क्षणमीक्षतः पथि जनेन किमिदमिति जल्पता मिथः   ।
प्राप्य शिबिरमविशङ्किमनाः समनीनहद्द्रुतमनीकिनीमसौ   । । १५.७१  । ।

त्वरमाणशाङ्खिकसवेगवदनपवनाभिपूरितः   ।
शैलकटकतटभिन्नरवः प्रणनाद सांनहनिकोऽस्य वारिजः   । । १५.७२  । ।

जगदन्तकालसमवेतविषदविषमेरितारवं  ।
धीरनिजरवविलीनगुरुप्रतिशब्दमस्य रणतूर्यमावधि   । । १५.७३  । ।

सहसा ससभ्रमविलोलसकलजनतासमाकुलं  ।
स्थानमगमदथ तत्परितश्चलितोडुमण्डलनभःस्थलोपमां  । । १५.७४  । ।

दधतो भयानकतरत्वमुपगतवतः समानतां  ।
धूमपटलपिहितस्य गिरेः समवर्मयन्सपदि मेदिनीभृतः   । । १५.७५  । ।

परिमोहिणा परिजनेन कथमपि चिरादुपाहृतं  ।
वर्म करतलयुगेन महत्तनुचूर्णपेषमपिषद्रुषा परः   । । १५.७६  । ।

रणसंमदोदयविकासिबलकलकलाकुलीकृते   ।
शारिमशकधिरोपयितुं द्विरदे मदच्युति जनः कथञ्चन   । । १५.७७  । ।

परितश्च धौतमुखरुक्मविलसदहिमांशुमण्डलाः   ।
तेनुरतनुवपुषः पृथिवीं स्फुटलक्ष्यतेजस इवात्मजाः श्रियः   । । १५.७८  । ।

प्रधिमण्डलोद्धतपरागघनवलयमध्यवर्तिनः   ।
पेतुरशनाय इवाशनकैर्गुरुनिःस्वनव्यथितजन्तवो रथाः   । । १५.७९  । ।

दधतः शशाङ्कितशशाङ्करुचि लसदुरश्छदं वपुः   ।
चक्रुरथ सह पुरन्धिजनैरयथार्थसिद्धिं सरकं महीभृतः   । । १५.८०  । ।

दयिताय सासवमुदस्तमपतदवसादिनः कराथ् ।
कांस्यमुपहितसरोजपतद्भ्रमरौघभारगुरु राजयोषितः   । । १५.८१  । ।

भृशमङ्गसादकरुणत्वमविशददृशः कपोलयोः   ।
वाक्यमसकलमपास्य मदं विदधुस्तदीयगुणमात्मना शुचः   । । १५.८२  । ।

सुदृशः समीकगमनाय युवभिरथ संबभाषिरे   ।
शोकपिहितगलरुद्धगिरस्तरसागताश्रुजलकेवलोत्तराः   । । १५.८३  । ।

विपुलाचलस्थलघनेन जिगमिषुभिरङ्गनाः प्रियैः   ।
पीनकुचतटनिपीडदलद्वरवारबाणमुरसालिलिङ्गिरे   । । १५.८४  । ।

न मुमोच लोचनजलानि दयितजयमङ्गलैषिणि   ।
यातमवनिभवसन्नभुजान्न गलद्विवेद वलयं विलासिनी   । । १५.८५  । ।

प्रविवत्सतः प्रियतमस्य निगडमिव चक्षुरक्षिपथ् ।
नीलनलिनदलदामरुचि प्रतिपादयुग्ममचिरोढसुन्दरी   । । १५.८६  । ।

व्रजतः क्व तात वजसीति परिचयगतार्थमस्फुटं  ।
धैर्यमभिनदुदितं शिशुना जननीनिर्भत्सनविवृद्धमन्युना   । । १५.८७  । ।

शठ नाकलोकललनाभिरविरतरतं रिरंससे   ।
तेन वहसि मुदमित्यवदद्रणरागिणं रमणमीर्ष्ययापरा   । । १५.८८  । ।

ध्रियमाणमप्यगलदश्रु चलति दयिते नतभ्रुवः   ।
स्नेहमकृतकरसं दधतामिदमेव युक्तमतिमुग्धचेतसां  । । १५.८९  । ।

सह कज्जलेन विरराज नयनकमलाम्बुसन्ततिः   ।
गण्डफलकमभितः सुतनोः पदवीव शोकमयकृष्णवर्त्मनः   । । १५.९०  । ।

क्षणमात्ररोधि चलितेन कतिपयपदं नतभ्रुवः   ।
स्रस्तभुजयुगगलद्वलयस्वनितं प्रतिक्षुतमिवोपशुश्रुवे   । । १५.९१  । ।

अभिवर्त्म वल्लभतमस्य विगलदमलायतांशुका   ।
भूमिनभसि रभसेन यती विरराज काचन समं महोल्कया   । । १५.९२  । ।
समरोन्मुखे नृपगणेऽपि तदनुमरणोद्यतैकधीः   ।
दीनपरिजनकृताश्रुजलो न भटीजनः स्थिरमनाः विचक्लमे   । । १५.९३  । ।

विदुषीव दर्शनममुष्य युवतिरतिदुर्लभं पुनः   ।
यान्तमनिमिषमतृप्तमनाः पतिमीक्षते स्म भृशया दृशः पथः   । । १५.९४  । ।

सम्प्रत्युपेयाः कुशली पुनर्युधः सस्नेहमाशीरिति भर्तुरीरिता   ।
सद्यः प्रसह्य द्वितयेन नेत्रयोः प्रत्याचचक्षे गलता भटस्त्रियाः   । । १५.९५  । ।

काचित्कीर्णा रजोभिर्दिवमनुविदधे भिन्नवक्त्रेन्दुलक्ष्मीरश्रीकाः काश्चिदन्तर्दिश इव दधिरे दाहमुद्भ्रान्तसत्वाः   ।
भ्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पमापुः प्रस्थाने पार्थिवानामशिवमिति पुरो भावि नार्यः शशंसुः   । । १५.९६  । ।


इति माघकृते शिशुपालवधमहाकाव्ये पञ्चदशः सर्गः

No comments:

Post a Comment