कालिदासविरचिते रघुवंशे अष्टादशः सर्गःRaghuvamsha Of Kalidas XVIII Cantoo

कालिदासविरचिते रघुवंशे अष्टादशः सर्गः

स नैषधस्यार्थपतेः सुतायां उत्पादयां आस निषिद्धशत्रुः   ।
अनूनसारं निषधान्नगेन्द्रात्पुत्रं यं आहुर्निषधाख्यं एव   । । १८.१  । ।

तेनोरुवीर्येण पिता प्रजायै कल्पिष्यमाणेन ननन्द यूना   ।
सुवृष्तियोगादिव जीवलोकः सस्येन संपत्तिफलात्मकेन   । । १८.२  । ।

शब्दादि निर्विश्य सुखं चिराय तस्मिन्प्रतिष्ठापितराजशब्दः   ।
क्ॐउद्वतेयः कुमुदावदातैर्द्यां अर्जितां कर्मभिरारुरोह   । । १८.३  । ।

पौत्रः कुशस्यापि कुशेशयाक्षः ससागरां सागरधीरचेताः   ।
एकातपोअत्रां भुवं एकवीरः पुरार्गलादीर्घभुजो बुभोज   । । १८.४  । ।

तस्यानलौजास्तनयस्तदन्ते वंशश्रियं प्राप नलाभिधानः   ।
यो नड्वलानीव गजः परेषां बलान्यमृद्नान्नलिनाभवक्त्रः   । । १८.५  । ।

नभश्चरैर्गीतयश्यामतनुं तनूजं नभस्तलश्यामतनुं तनूजं  ।
ख्यातं नभःशब्दमयेन नाम्ना कान्तं नभ्ॐआसं इव प्रजानां  । । १८.६  । ।

तस्मै विष्र्ज्योत्तरकोसलानां धर्मोत्तरस्तत्प्रभवे प्रभुत्वं  ।
मृगैरजर्यं जरस्पोदैष्टं अदेहबन्धाय पुनर्बबन्ध   । । १८.७  । ।

तेन द्विपानां इव पुण्डरीको राज्ञां अजय्योऽजनि पुण्डरीकः   ।
शान्ते पितर्याहृतपुण्डरीका यं पुण्डरीकाक्षं इवाश्रिता श्रीः   । । १८.८  । ।

स क्षेमधन्वानं अमोघधन्वा पुत्रं प्रजाक्षेमविधानदक्षं  ।
क्ष्मां लम्भयित्वा क्षमयोपपन्नं वने तपः क्षान्ततरश्चचार   । । १८.९  । ।

अनीकिनीनां समरेऽग्रयायी तस्यापि देवप्रतिमः सुतोऽभूथ् ।
व्यश्रूयतानीकपदावसानं देवादि नाम त्रिदिवेऽपि यस्य   । । १८.१०  । ।

पिता समाराधनतत्परेण पुत्रेण पुत्री स यथैव तेन   ।
पुत्रस्तथैवाधिकवत्सलेन स तेन पित्रा पितृमान्बभूव   । । १८.११  । ।

पूर्वस्तयोरात्मसमे चिरोढां आत्मोद्भवे वर्णचतुष्टयस्य   ।
धुरं निधायैकनिधिर्गुणानां जगाम यज्वा यजमानलोकं  । । १८.१२  । ।

वशी सुतस्तस्य वशंवदत्वात्स्वेषां इवासीद्द्विषतां अपीष्टः   ।
सकृद्(?) विविग्नानपि हि प्रयुक्तं माधुर्यं ईष्टे हरिणान्ग्रहीतुं  । । १८.१३  । ।

अहीनगुर्नाम स गां समग्रां अहीनबाहुद्रविणः शशास   ।
यो हीन संसर्गपराङ्मुखत्वाद्माधुर्यं ईष्टे हरिणान्ग्रहीतुं  । । १८.१४  । ।

गुरोः स चानन्तरं अन्तर्ज्ञः पुंसां पुमानाद्य इवावतीर्णः   ।
उपक्रमैरस्खलितैश्चतुर्भिश्चतुर्दिगीशश्चतुरो बभूव   । । १८.१५  । ।

तस्मिन्प्रयाते परलोकयात्रां जेतर्यरीणां तनयं तदीयं  ।
उच्चैःशिरस्त्वाज्जितपारियात्रं लक्ष्मीः सिषेवे किल पारियात्रं  । । १८.१६  । ।

तस्याभवत्सूनुरुदारशीलः शिलः शिलापट्टविशालवक्षाः   ।
जितारिपक्षोऽपि शिलीमुखैर्यः शालीनतां अव्रजदीड्यमानः   । । १८.१७  । ।

तं आत्मसंपन्नं अनिन्दितात्मा कृत्वा युवानं युवराजं एव   ।
सुखानि सोऽभुङ्क्त सुखोपरोधि वृत्तं हि राज्ञां उपरुद्धवृत्तं  । । १८.१८  । ।

तं रागबन्धिष्ववितृप्तं एव भोगेषु सौभाग्यविशेषभोग्यं  ।
विलासिनीनां अरतिक्षमापि जरा वृथा मत्सरिणी जहार   । । १८.१९  । ।

उन्नाभ इत्युदग्तस्नामधेयस्तस्यायथार्थोन्नतनाभ्हिरन्ध्रः   ।
सुतोऽभवत्पङ्कजनाभकल्पः कृत्स्नस्य नाभिर्नृपमण्डलस्य   । । १८.२०  । ।

ततः परं वज्रधरप्रभावस्तदात्मजः संयति वज्रघोषः   ।
बभूव वज्राकरभुषणायाः पतिः पृथिव्याः किल वज्रनाभः   । । १८.२१  । ।

तस्मिन्गते द्यां सुकृतोपलब्धां तत्संभवं शङ्खणं अर्णवान्ता   ।
उत्खातशत्रुं वसुधोपतस्थे रत्नोपहारैरुदितैः खनिभ्यः   । । १८.२२  । ।

तस्यावसाने हरिदश्वधामा पित्र्यं प्रपेदे पदं अश्विरूपः   ।
वेलातटेषूषितसैनिकाश्वं पुराविदो यं ध्युषिताश्वं आहुः   । । १८.२३  । ।

आराध्य विश्वेश्वरं ईश्वरेण तेन क्षितेर्विश्वसहोऽधिजज्ञे   ।
पातुं सहो विश्वसखः समग्रां विश्वंभरां आत्मजमूर्तिरात्मा   । । १८.२४  । ।

अंशे हिरण्याक्शरिपोः स जाते हिरण्यनाभे तनये नयज्ञः   ।
द्विषां असह्यः सुतरां तरूणां हिरण्यरेता सानिलोऽभूथ् । । १८.२५  । ।

पिता पितःणां अनृणस्तं अन्ते वयस्यनन्तानि सुखानि लिप्सुः   ।
राजानं आजानुविलम्बिबाहुं कृत्वा कृती वल्कलवान्बभूव   । । १८.२६  । ।

कौसल्य इत्युत्तरकोसलानां पत्युः पतंगान्वयभूषणस्य   ।
तस्यौरसः स्ॐअसुतः सुतोऽभून्नेत्रोत्सवः स्ॐअ इव द्वितीयः   । । १८.२७  । ।

कौसल्य इत्युत्तरकोसलानां स ब्रह्मभूयं गतिं आजगाम   ।
ब्रह्मिष्ठं आधाय निजेऽधिकारे ब्रह्मिष्ठं एव स्वतनुप्रसूतं  । । १८.२८  । ।

यशोभिराब्रह्मसभं प्रकाशः सम्यग्महीं शासति शासनाङ्कां  ।
प्रजाश्चिरं सुप्रजसि प्रजेशे ननन्दुरानन्दजलाविलाक्ष्यः   । । १८.२९  । ।

पात्रीकृतात्मा गुरुसेवनेन स्पृष्टाकृतिः पत्त्ररथेन्द्रकेतोः   ।
तं पुत्रिणां पुष्करपत्त्रनेत्रः पुत्रः समारोपयदग्रसंख्यां  । । १८.३०  । ।

वंशस्थितिं वंशकरेण तेन संभाव्य भावी स सखा मघोनः   ।
उपस्पृषन्स्पर्शनिवृत्तलौल्यस्त्रिपुष्करेषु त्रिदशत्वं आप   । । १८.३१  । ।

तस्य प्रभानिर्जितपुष्प-रागं पौष्यं तिथौ पुष्यं असूत पत्नी   ।
यस्मिन्नपुष्यन्नुदिते समग्रां पुष्टिं जनाः पुष्य इव द्वितीये   । । १८.३२  । ।

महीं महेच्छः परिकीर्य सूनौ मनीषिणे जैमिनयेऽर्पितात्मा   ।
तस्मात्सयोगादधिगम्य योगं अजन्मनेऽकल्पत जन्मभीरुः   । । १८.३३  । ।

ततः परं तत्प्रभवः प्रपेदे ध्रुवोपमेयो ध्रुवसंधिरुर्वीं  ।
यस्मिन्नभूज्ज्यायसि सत्यसंधे संधिर्ध्रुवः संनमतां अरीणां  । । १८.३४  । ।

सुते शिशावेव सुदर्शनाख्ये दर्शात्ययेन्दुप्रियदर्शने सः   ।
मृगायताक्षो मृगयाविहारी सिंहादवापद्विपदं नृसिंहः   । । १८.३५  । ।

स्वर्गामिनस्तस्य तं ऐकमत्यादमात्यवर्गः कुलतन्तुं एकं  ।
अनाथदीनाः प्रकृतीरवेक्ष्य साकेतनाथं विधिवच्चकार   । । १८.३६  । ।

ववेन्दुना तन्नभसोपमेयं शावैकसिंहेन च काननेन   ।
रघोः कुलं कुड्मलपङ्कजेन तोयेन चाप्रौष्हनरेन्द्रं आसीथ् । । १८.३७  । ।

लोकेन भावी पितुरेव तुल्यः संभावितो मौलिपरिग्रहात्सः   ।
दृष्टो हि वृण्वन्कलभप्रमाणोऽप्याशाः पुरोवातं अवाप्य मेघः   । । १८.३८  । ।

तं राजवीथ्यां अधिहस्ति यान्तं आधोरणालम्बितं अग्र्यवेषं  ।
षड्वर्षदेशियं अपि प्रभुत्वात्प्रैक्षन्त पौराः पितृगौरवेण   । । १८.३९  । ।

कामं न सोऽकल्पत पैतृकस्य सिंहासनस्य प्रतिपूरणाय   ।
तेज्ॐअहिम्ना पुनरावृतात्मा तद्व्याप चामीकरपिञ्जरेण   । । १८.४०  । ।

तस्मादधः किंचिदिवावतीर्णावसंस्पृशन्तौ तपनीयपीठं  ।
सालक्तकौ भूपतयः प्रसिद्धैर्ववन्दिरे मौलिभिरस्य पादौ   । । १८.४१  । ।

मणौ महानील इति प्रभावादल्पप्रमाणेऽपि यथा न मिथ्या   ।
शब्दो महाराज इति प्रतीतस्तथैव तस्मिन्युयुजेऽर्भकेऽपि   । । १८.४२  । ।

पर्यन्तसंचारितचामरस्य कपोललोलोभयकाकपक्षथ् ।
तस्याननादुच्चरितो विवादश्चक्शाल वेलास्वपि नार्णवानां  । । १८.४३  । ।

निर्वृत्तजाम्बूनदपट्टशोभे न्यस्तं ललाटे तिलकं दधानः   ।
तेनैव शून्यान्यरिसुन्दरीणां मुखानि स स्मेरमुखश्चकार   । । १८.४४  । ।

शिरीषपुष्पाधिकसौकुमार्यः खेदं स यायादपि श्रुतवृद्धयोगाथ् ।
नितान्तगुर्वीं अपि चानुभावाद्धुरं धरित्र्या बिभरां बभूव   । । १८.४५  । ।

न्यस्ताक्षरां अक्षरभूमिकायां कार्त्स्न्येन गृह्णाति लिपिं न यावथ् ।
सर्वाणि तावच्छ्रुतवृद्धयोगात्फलान्युपायुङ्क्त स दण्डनीतेः   । । १८.४६  । ।

उरस्यपर्याप्तभागा प्रौढीभविष्यन्तं उदीक्षमाणा   ।
संजातलज्जेव तं आतपत्रछ्हायाछलेनोपजुगूह लक्ष्मीः   । । १८.४७  । ।

अनश्नुवानेन युगोपमानं अबद्धमौर्वीकिणलाञ्छनेन   ।
अस्पृष्टखड्गत्सरुणापि चासीद्रक्षावती तस्य भुजेन भूमिः   । । १८.४८  । ।

न केवलं गच्छति तस्य काले ययुः शरीरावयवा विवृद्धिं  ।
वंश्या गुणाः खल्वपि लोककान्ताः प्रारम्भसूक्ष्माः प्रथिमानं आपुः   । । १८.४९  । ।

स पूर्वजन्मान्तरदृष्टपाराः स्मरन्निवाक्लेशकरो गुरूणां  ।
तिस्रस्त्रिवर्गाधिगमस्य मूलं जग्राह विद्याः प्रकृतीश्च पित्र्याः   । । १८.५०  । ।

व्यूह्य स्थितः किंचिदिवोत्तरार्धं उन्नद्धचूडोऽञ्चितस्व्यजानुः   ।
आकर्णं आकृष्टसबानधन्वा व्यरोचत्ऽ आस्ते स विनीयमानः   । । १८.५१  । ।

अथ मधु वनितां नेत्रनिर्वेशनीयं मनसिजतरुपुष्पं रागबन्धप्रवालं  ।
अकृतकविधि सर्वाङ्गीणं आकल्पजातं विलसितपदं आद्यं यौवनं स प्रपेदे   । । १८.५२  । ।

प्रतिकृतिरचनाभयो दूतिसंदर्शिताभ्यः समधिकतररूपाः शुद्धसंतानकामैः   ।
अधिविविदुरमात्यैराहृतास्तस्य यूनः प्रथमपरिगृहीते श्रीभुवौ राजकन्याः   । । १८.५३  । ।

इति कालिदासविरचिते रघुवंशे अष्टादशः सर्गः

No comments:

Post a Comment